मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १०३

3
ब्रह्मपुराणम् · 103

अध्यायः १०३

ब्रह्मोवाच:

शमीतीर्थम् इति ख्यातं सर्वपापोपशान्तिदम् । तस्याख्यानं प्रवक्ष्यामि शृणु यत्नेन नारद

॥१॥

आसीत् प्रियव्रतो नाम क्षत्रियो जयतां वरः । गौतम्या दक्षिणे तीरे दीक्षां चक्रे पुरोधसा

॥२॥

हयमेध उपक्रान्ते ऋत्विग्भिर् ऋषिभिर् वृते । तस्य राज्ञो महाबाहोर् वसिष्ठस् तु पुरोहितः

॥३॥

तद्यज्ञवाटम् अगमद् दानवोऽथ हिरण्यकः । तं दानवम् अभिप्रेक्ष्य देवास् त्व् इन्द्रपुरोगमाः

॥४॥

भीताः केचिद् दिवं जग्मुर् हव्यवाट् शमिम् आविशत् । अश्वत्थं विष्णुर् अगमद् भानुर् अर्कं वटं शिवः

॥५॥

सोमः पलाशम् अगमद् गङ्गाम्भो हव्यवाहनः । अश्विनौ तु हयं गृह्य वायसोऽभूद् यमः स्वयम्

॥६॥

एतस्मिन्न् अन्तरे तत्र वसिष्ठो भगवान् ऋषिः । यष्टिम् आदाय दैतेयान् न्यवारयद् अथाज्ञया

॥७॥

ततः प्रवृत्तः पुनर् एव यज्ञो । दैत्यो गतः स्वेन बलेन युक्तः । इमानि तीर्थानि ततः शुभानि । दशाश्वमेधस्य फलानि दद्युः

॥८॥

प्रथमं तु शमीतीर्थं द्वितीयं वैष्णवं विदुः । आर्कं शैवं च सौम्यं च वासिष्ठं सर्वकामदम्

॥९॥

देवाश् च ऋषयः सर्वे निवृत्ते मखविस्तरे । तुष्टाः प्रोचुर् वसिष्ठं तं यजमानं प्रियव्रतम्

॥१०॥

तांश् च वृक्षांस् तां च गङ्गां मुदा युक्ताः पुनः पुनः । हयमेधस्य निष्पत्त्यै एते याता इतस् ततः

॥११॥

हयमेधफलं दद्युस् तीर्थानीत्य् अवदन् सुराः । तस्मात् स्नानेन दानेन तेषु तीर्थेषु नारद । हयमेधफलं पुण्यं प्राप्नोति न मृषा वचः

॥१२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).