मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १२४

3
ब्रह्मपुराणम् · 124

अध्यायः १२४

ब्रह्मोवाच:

पुत्रतीर्थम् इति ख्यातं पुण्यतीर्थं तद् उच्यते । सर्वान् कामान् अवाप्नोति यन्महिम्नः श्रुतेर् अपि

॥१॥

तस्य स्वरूपं वक्ष्यामि शृणु यत्नेन नारद । दितेः पुत्राश् च दनुजाः परिक्षीणा यदाभवन् । अदितेस् तु सुता ज्येष्ठाः सर्वभावेन नारद

॥२॥

तदा दितिः पुत्रवियोगदुःखात् । संस्पर्धमाना दनुम् आजगाम

॥३॥

दितिर् उवाच:

क्षीणाः सुता आवयोर् एव भद्रे । किं कुर्महे कर्म लोके गरीयः । पश्यादितेर् वंशम् अभिन्नम् उत्तमं । सौराज्ययुक्तं यशसा जयश्रिया

॥४॥

जितारिम् अभ्युन्नतकीर्तिधर्मं । मच्चित्तसंहर्षविनाशदक्षम् । समानभर्तृत्वसमानधर्मे । समानगोत्रेऽपि समानरूपे

॥५॥

न जीवयेयं श्रियम् उन्नतिं च । जीर्णास्मि दृष्ट्वा त्व् अदितिप्रसूतान् । काम् अप्य् अवस्थाम् अनुयामि दुःस्था ।ऽदितेर् विलोक्याथ परां समृद्धिम् । दावप्रवेशोऽपि सुखाय नूनं । स्वप्नेऽप्य् अवेक्ष्या न सपत्नलक्ष्मीः

॥६॥

ब्रह्मोवाच:

एवं ब्रुवाणाम् अतिदीनवक्त्रां । विनिश्वसन्तीं परमेष्ठिपुत्रः । कृताभिपूजो विगतश्रमस् तां । स सान्त्वयन्न् आह मनोभिरामाम्

॥७॥

परमेष्ठिपुत्र उवाच:

खेदो न कार्यः समभीप्सितं यत् । तत् प्राप्यते पुण्यत एव भद्रे । तत्साधनं वेत्ति महानुभावः । प्रजापतिस् ते स तु वक्ष्यतीति

॥८॥

साध्व्य् एतत् सर्वभावेन प्रश्रयावनता सती

॥९॥

ब्रह्मोवाच:

एवं ब्रुवाणां च दितिं दनुः प्रोवाच नारद

॥१०॥

दनुर् उवाच:

भर्तारं कश्यपं भद्रे तोषयस्व निजैर् गुणैः । तुष्टो यदि भवेद् भर्ता ततः कामान् अवाप्स्यसि

॥११॥

ब्रह्मोवाच:

तथेत्य् उक्त्वा सर्वभावैस् तोषयाम् आस कश्यपम् । दितिं प्रोवाच भगवान् कश्यपोऽथ प्रजापतिः

॥१२॥

कश्यप उवाच:

किं ददामि वदाभीष्टं दिते वरय सुव्रते

॥१३॥

ब्रह्मोवाच:

दितिर् अप्य् आह भर्तारं पुत्रं बहुगुणान्वितम् । जेतारं सर्वलोकानां सर्वलोकनमस्कृतम्

॥१४॥

येन जातेन लोकेऽस्मिन् भवेयं वीरपुत्रिणी । तं वरेयं सुरपितर् इत्य् आह विनयान्विता

॥१५॥

कश्यप उवाच:

उपदेक्ष्ये व्रतं श्रेष्ठं द्वादशाब्दफलप्रदम् । तत आगत्य ते गर्भम् आधास्ये यन् मनोगतम् । निष्पापतायां जातायां सिध्यन्ति हि मनोरथाः

॥१६॥

ब्रह्मोवाच:

भर्तृवाक्याद् दितिः प्रीता तं नमस्यायतेक्षणा । उपदिष्टं व्रतं चक्रे भर्त्रादिष्टं यथाविधि

॥१७॥

तीर्थसेवापात्रदानव्रतचर्यादिवर्जिताः । कथम् आसादयिष्यन्ति प्राणिनोऽत्र मनोरथान्

॥१८॥

ततश् चीर्णे व्रते तस्यां दित्यां गर्भम् अधारयत् । पुनः कान्ताम् अथोवाच कश्यपस् तां दितिं रहः

॥१९॥

कश्यप उवाच:

न प्राप्नुवन्ति यत्कामान् मुनयोऽपि तपस्स्थिताः । यथाविहितकर्माङ्गअवज्ञया तच् छुचिस्मिते

॥२०॥

निन्दितं च न कर्तव्यं सन्ध्ययोर् उभयोर् अपि । न स्वप्तव्यं न गन्तव्यं मुक्तकेशी च नो भव

॥२१॥

भोक्तव्यं सुभगे नैव क्षुतं वा जृम्भणं तथा । सन्ध्याकाले न कर्तव्यं भूतसङ्घसमाकुले

॥२२॥

सान्तर्धानं सदा कार्यं हसितं तु विशेषतः । गृहान्तदेशे सन्ध्यासु न स्थातव्यं कदाचन

॥२३॥

मुशलोलूखलादीनि शूर्पपीठपिधानकम् । नैवातिक्रमणीयानि दिवा रात्रौ सदा प्रिये

॥२४॥

उदक्शीर्षं तु शयनं न सन्ध्यासु विशेषतः । वक्तव्यं नानृतं किञ्चिन् नान्यगेहाटनं तथा

॥२५॥

कान्ताद् अन्यो न वीक्ष्यस् तु प्रयत्नेन नरः क्वचित् । इत्यादिनियमैर् युक्ता यदि त्वम् अनुवर्तसे । ततस् ते भविता पुत्रस् त्रैलोक्यैश्वर्यभाजनम्

॥२६॥

ब्रह्मोवाच:

तथेति प्रतिजज्ञे सा भर्तारं लोकपूजितम् । गतश् च कश्यपो ब्रह्मन्न् इतश् चेतः सुरान् प्रति

॥२७॥

दितेर् गर्भोऽपि ववृधे बलवान् पुण्यसम्भवः । एतत् सर्वं मयो दैत्यो मायया वेत्ति तत्त्वतः

॥२८॥

इन्द्रस्य सख्यम् अभवन् मयेन प्रीतिपूर्वकम् । मयो गत्वा रहः प्राह इन्द्रं स विनयान्वितः

॥२९॥

दितेर् दनोर् अभिप्रायं व्रतं गर्भस्य वर्धनम् । तस्य वीर्यं च विविधं प्रीत्येन्द्राय न्यवेदयत्

॥३०॥

विश्वासैकगृहं मित्रम् अपायत्रासवर्जितम् । अर्जितं सुकृतं नानाविधं चेत् तद् अवाप्यते

॥३१॥

नारद उवाच:

नमुचेश् च प्रियो भ्राता मयो दैत्यो महाबलः । भ्रातृहन्त्रा कथं मैत्र्यं मयस्यासीत् सुरेश्वर

॥३२॥

ब्रह्मोवाच:

दैत्यानाम् अधिपश् चासीद् बलवान् नमुचिः पुरा । इन्द्रेण वैरम् अभवद् भीषणं लोमहर्षणम्

॥३३॥

युद्धं हित्वा कदाचिद् भो गच्छन्तं तु शतक्रतुम् । दृष्ट्वा दैत्यपतिः शूरो नमुचिः पृष्ठतोऽन्वगात्

॥३४॥

तम् आयान्तम् अभिप्रेक्ष्य शचीभर्ता भयातुरः । ऐरावतं गजं त्यक्त्वा इन्द्रः फेनम् अथाविशत्

॥३५॥

स वज्रपाणिस् तरसा फेनेनैवाहनद् रिपुम् । नमुचिर् नाशम् अगमत् तस्य भ्राता मयोऽनुजः

॥३६॥

भ्रातृहन्तृविनाशाय तपस् तेपे मयो महत् । मायां च विविधाम् आप देवानाम् अतिभीषणाम्

॥३७॥

वरांश् चावाप्य तपसा विष्णोर् लोकपरायणात् । दानशौण्डः प्रियालापी तदाभवद् असौ मयः

॥३८॥

अग्नींश् च ब्राह्मणान् पूज्य जेतुम् इन्द्रं कृतक्षणः । दातारं च तदार्थिभ्यः स्तूयमानं च बन्दिभिः

॥३९॥

विदित्वा मघवा वायोर् मयं मायाविनं रिपुम् । उपक्रान्तं सुयुद्धाय विप्रो भूत्वा तम् अभ्यगात् । शचीभर्ता मयं दैत्यं प्रोवाचेदं पुनः पुनः

॥४०॥

इन्द्र उवाच:

देहि दैत्यपते मह्यम् अर्थिनेऽपेक्षितं वरम् । त्वां श्रुत्वा दातृतिलकम् आगतोऽहं द्विजोत्तमः

॥४१॥

ब्रह्मोवाच:

मयोऽपि ब्राह्मणं मत्वाऽवदद् दत्तं मया तव । विचारयन्ति कृतिनो बह्व् अल्पं वा पुरोऽर्थिनि

॥४२॥

इत्य् उक्ते तु हरिः प्राह सख्यम् इच्छे ह्य् अहं त्वया । इन्द्रं मयः पुनः प्राह किम् अनेन द्विजोत्तम

॥४३॥

न त्वया मम वैरं भोः स्वस्तीत्य् आह हरिर् मयम् । तत्त्वं वदेति स हरिर् दैत्येनोक्तः स्वकं वपुः

॥४४॥

दर्शयाम् आस दैत्याय सहस्राक्षं यद् उच्यते । ततः सविस्मयो दैत्यो मयो हरिम् उवाच ह

॥४५॥

मय उवाच:

किम् इदं वज्रपाणिस् त्वं तवायोग्या कृतिः सखे

॥४६॥

ब्रह्मोवाच:

परिष्वज्य विहस्याथ वृत्तम् इत्य् अब्रवीद् धरिः । केनापि साधयन्त्य् अत्र पण्डिताश् च समीहितम्

॥४७॥

ततः प्रभृति शक्रस्य मयेन महती ह्य् अभूत् । सुप्रीतिर् मुनिशार्दूल मयो हरिहितः सदा

॥४८॥

इन्द्रस्य भवनं गत्वा तस्मै सर्वं न्यवेदयत् । किं मे कृत्यम् इति प्राह मयं मायाविनं हरिः

॥४९॥

हरये च मयो मायां प्रादात् प्रीत्या तथा हरिः । प्राप्तः सम्प्रीतिमान् आह किं कृत्यं मय तद् वद

॥५०॥

मय उवाच:

अगस्त्यस्याश्रमं गच्छ तत्रास्ते गर्भिणी दितिः । तस्याः शुश्रूषणं कुर्वन्न् आस्स्व तत्र कियन्ति च

॥५१॥

अहानि मघवंस् तस्या गर्भम् आविश्य वज्रधृक् । वर्धमानं च तं छिन्धि यावद् वश्योऽथवा मृतिम् । प्राप्नोति तावद् वज्रेण ततो न भविता रिपुः

॥५२॥

ब्रह्मोवाच:

तथेत्य् उक्त्वा मयं पूज्य मघवान् एक एव हि । विनीतवत् तदा प्रायाद् दितिं मातरम् अञ्जसा । शुश्रूषमाणस् तां देवीं शक्रो दैतेयमातरम् । सा न जानाति तच् चित्तं शक्रस्य द्विषतो दितिः

॥५३॥

गर्भे स्थितं तु यद् भूतं देवेन्द्रस्य विचेष्टितम् । अमोघं तन् मुनेस् तेजः कश्यपस्य दुरासदम्

॥५४॥

ततः प्रगृह्य कुलिशं सहस्राक्षः पुरन्दरः । अन्तःप्रवेशकामोऽसौ बहुकालं समावसन्

॥५५॥

सन्ध्योदक्शीर्षनिद्रां ताम् अवेक्ष्य कुलिशायुधः । इदम् अन्तरम् इत्य् उक्त्वा दित्याः कुक्षिं समाविशत्

॥५६॥

अन्तर्वर्ति च यद् भूतम् इन्द्रं दृष्ट्वा धृतायुधम् । हन्तुकामं तदोवाच पुनः पुनर् अभीतवत्

॥५७॥

गर्भस्थ उवाच:

किं मां न रक्षसे वज्रिन् भ्रातरं त्वं जिघांससि । नारणे मारणाद् अन्यत् पातकं विद्यते महत्

॥५८॥

ऋते युद्धान् महाबाहो शक्र युध्यस्व निर्गते । मयि तस्मान् नैतद् एवं तव युक्तं भविष्यति

॥५९॥

शतक्रतुः सहस्राक्षः शचीभर्ता पुरन्दरः । वज्रपाणिः सुरेन्द्रस् त्वं ते न युक्तं भवेत् प्रभो

॥६०॥

अथवा युद्धकामस् त्वं मम निष्क्रमणं यथा । तथा कुरु महाबाहो मार्गाद् अस्माद् अपासर

॥६१॥

कुमार्गे न प्रवर्तन्ते महान्तोऽपि विपद्गताः । अविद्यश् चाप्य् अशस्त्रश् च नैव चायुधसङ्ग्रहः

॥६२॥

त्वं विद्यावान् वज्रपाणे मां निघ्नन् किं न लज्जसे । कुर्वन्ति गर्हितं कर्म न कुलीनाः कदाचन

॥६३॥

हत्वा वा किं तु जायेत यशो वा पुण्यम् एव वा । वध्यन्ते भ्रातरः कामाद् गर्भस्थाः किं नु पौरुषम्

॥६४॥

यदि वा युद्धभक्तिस् ते मयि भ्रातर् असंशयम् । ततो मुष्टिं पुरस्कृत्य वज्रिणेऽसौ व्यवस्थितः

॥६५॥

बालघाती ब्रह्मघाती तथा विश्वासघातकः । एवम्भूतं फलं शक्र कस्मान् मां हन्तुम् उद्यतः

॥६६॥

यस्याज्ञया सर्वम् इदं वर्तते सचराचरम् । स हन्ता बालकं मां वै किं यशः किं तु पौरुषम्

॥६७॥

ब्रह्मोवाच:

एवं ब्रुवन्तं तं गर्भं चिच्छेद कुलिशेन सः । क्रोधान्धानां लोभिनां च न घृणा क्वापि विद्यते

॥६८॥

न ममार ततो दुःखाद् आहुस् ते भ्रातरो वयम् । पुनश् चिच्छेद तान् खण्डान् मा वधीर् इति चाब्रुवन्

॥६९॥

विश्वस्तान् मातृगर्भस्थान् निजभ्रातॄञ् शतक्रतो । द्वेषविध्वस्तबुद्धीनां न चित्ते करुणाकणः

॥७०॥

एवं तु खण्डितं खण्डं हस्तपादादिजीववत् । निर्विकारं ततो दृष्ट्वा सप्तसप्त सुविस्मितः

॥७१॥

एकवद् बहुरूपाणि गर्भस्थानि शुभानि च । रुदन्ति बहुरूपाणि मा रुतेत्य् अब्रवीद् धरिः

॥७२॥

ततस् ते मरुतो जाता बलवन्तो महौजसः । गर्भस्था एव तेऽन्योन्यम् ऊचुः शक्रं गतभ्रमाः

॥७३॥

अगस्त्यं मुनिशार्दूलं माता यस्याश्रमे स्थिता । अस्मत्पिता तव भ्राता सख्यं ते बहु मन्यते

॥७४॥

अस्मान् उपरि सस्नेहं मनस् ते विद्महे मुने । न यत् करोति श्वपचः प्रवृत्तस् तत्र वज्रधृक्

॥७५॥

इत्य् एतद् वचनं श्रुत्वा अगस्त्योऽगात् ससम्भ्रमः । दितिं सम्बोधयाम् आस व्यथितां गर्भवेदनात्

॥७६॥

तत्रागस्त्यः शचीकान्तम् अशपत् कुपितो भृशम्

॥७७॥

अगस्त्य उवाच:

सङ्ग्रामे रिपवः पृष्ठं पश्येयुस् ते सदा हरे । जीवताम् एव मरणम् एतद् एव हि मानिनाम् । पृष्ठं पलायमानानां यत् पश्यन्त्य् अहिता रणे

॥७८॥

ब्रह्मोवाच:

सापि तं गर्भसंस्थं च शशापेन्द्रं रुषा दितिः

॥७९॥

दितिर् उवाच:

न पौरुषं कृतं तस्माच् छापोऽयं भविता तव । स्त्रीभिः परिभवं प्राप्य राज्यात् प्रभ्रश्यसे हरे

॥८०॥

ब्रह्मोवाच:

एतस्मिन्न् अन्तरे तत्र कश्यपो वै प्रजापतिः । प्रायाच् च व्यथितोऽगस्त्याच् छ्रुत्वा शक्रविचेष्टितम् । गर्भान्तरगतः शक्रः पितरं प्राह भीतवत्

॥८१॥

शक्र उवाच:

अगस्त्याच् च दितेश् चैव बिभेमि क्रमितुं बहिः

॥८२॥

ब्रह्मोवाच:

एतस्मिन्न् अन्तरे प्राप्य कश्यपोऽपि प्रजापतिः । पुत्रकर्म च तद् दृष्ट्वा गर्भान्तःस्थितिम् एव च । दितिशापम् अगस्त्यस्य श्रुत्वासौ दुःखितोऽभवत्

॥८३॥

कश्यप उवाच:

निर्गच्छ शक्र पुत्रैतत् पापं किं कृतवान् असि । न निर्मलकुलोत्पन्ना मनः कुर्वन्ति पातके

॥८४॥

ब्रह्मोवाच:

स निर्गतो वज्रपाणिः सव्रीडोऽधोमुखोऽब्रवीत् । तन्मूर्तिर् एव वदति सदसच्चेष्टितं नृणाम्

॥८५॥

शक्र उवाच:

यद् उक्तम् अत्र श्रेयः स्यात् तत्कर्ताहम् असंशयम्

॥८६॥

ब्रह्मोवाच:

ततो ममान्तिकं प्रायाल् लोकपालैः स कश्यपः । सर्वं वृत्तम् अथोवाच पुनः पप्रच्छ मां सुरैः

॥८७॥

दितिगर्भस्य वै शान्तिं सहस्राक्षविशापताम् । गर्भस्थानां च सर्वेषाम् इन्द्रेण सह मित्रताम्

॥८८॥

तेषाम् आरोग्यतां चापि शचीभर्तुर् अदोषताम् । अगस्त्यदत्तशापस्य विशापत्वम् अपि क्रमात्

॥८९॥

ततोऽहम् अब्रवं वाक्यं कश्यपं विनयान्वितम् । प्रजापते कश्यप त्वं वसुभिर् लोकपालकैः

॥९०॥

इन्द्रेण सहितः शीघ्रं गौतमीं याहि मानद । तत्र स्नात्वा महेशानं स्तुहि सर्वैः समन्वितः

॥९१॥

ततः शिवप्रसादेन सर्वं श्रेयो भवेद् इति । तथेत्य् उक्त्वा जगामासौ कश्यपो गौतमीं तदा

॥९२॥

स्नात्वा तुष्टाव देवेशम् एभिर् एव पदक्रमैः । सर्वदुःखापनोदाय द्वयम् एव प्रकीर्तितम् । गौतमी वा पुण्यनदी शिवो वा करुणाकरः

॥९३॥

कश्यप उवाच:

पाहि शङ्कर देवेश पाहि लोकनमस्कृत । पाहि पावन वागीश पाहि पन्नगभूषण

॥९४॥

पाहि धर्म वृषारूढ पाहि वेदत्रयेक्षण । पाहि गोधर लक्ष्मीश पाहि शर्व गजाम्बर

॥९५॥

पाहि त्रिपुरहन् नाथ पाहि सोमार्धभूषण । पाहि यज्ञेश सोमेश पाह्य् अभीष्टप्रदायक

॥९६॥

पाहि कारुण्यनिलय पाहि मङ्गलदायक । पाहि प्रभव सर्वस्य पाहि पालक वासव

॥९७॥

पाहि भास्कर वित्तेश पाहि ब्रह्मनमस्कृत । पाहि विश्वेश सिद्धेश पाहि पूर्ण नमोऽस्तु ते

॥९८॥

घोरसंसारकान्तारसञ्चारोद्विग्नचेतसाम् । शरीरिणां कृपासिन्धो त्वम् एव शरणं शिव

॥९९॥

ब्रह्मोवाच:

एवं संस्तुवतस् तस्य पुरतोऽभूद् वृषध्वजः । वरेण च्छन्दयाम् आस कश्यपं तं प्रजापतिम्

॥१००॥

कश्यपोऽपि शिवं प्राह विनीतवद् इदं वचः । स प्राह विस्तरेणाथ इन्द्रस्य तु विचेष्टितम्

॥१०१॥

शापं नाशं च पुत्राणां परस्परम् अमित्रताम् । पापप्राप्तिं तु शक्रस्य शापप्राप्तिं तथैव च । ततो वृषाकपिः प्राह दितिं चागस्त्यम् एव च

॥१०२॥

शिव उवाच:

मरुतो ये भवत्पुत्राः पञ्चाशच् चैकवर्जिताः । सर्वे भवेयुः सुभगा भवेयुर् यज्ञभागिनः

॥१०३॥

इन्द्रेण सहिता नित्यं वर्तयेयुर् मुदान्विताः

॥१०४॥

इन्द्रस्य तु हविर्भागो यत्र यत्र मखे भवेत् । आदौ तु मरुतस् तत्र भवेयुर् नात्र संशयः

॥१०५॥

मरुद्भिः सहितं शक्रं न जयेयुः कदाचन । जेता भवेत् सर्वदैव सुखं तिष्ठ प्रजापते

॥१०६॥

अद्यप्रभृति ये कुर्युर् अनयाद् भ्रातृघातनम् । वंशच्छेदो विपत्तिश् च नित्यं तेषां भविष्यति

॥१०७॥

ब्रह्मोवाच:

अगस्त्यम् ऋषिशार्दूलं शम्भुर् अप्य् आह यत्नतः

॥१०८॥

शम्भुर् उवाच:

न कुर्यास् त्वं च कोपं च शचीभर्तरि वै मुने । शमं व्रज महाप्राज्ञ मरुतस् त्व् अमरा भवन्

॥१०९॥

ब्रह्मोवाच:

दितिं चापि शिवः प्राह प्रसन्नो वृषभध्वजः

॥११०॥

शिव उवाच:

एको भूयान् मम सुतस् त्रैलोक्यैश्वर्यमण्डितः । इत्य् एवं चिन्तयन्ती त्वं तपसे नियताभवः

॥१११॥

तद् एतत् सफलं तेऽद्य पुत्रा बहुगुणाः शुभाः । अभवन् बलिनः शूरास् तस्माज् जहि मनोरुजम् । अन्यान् अपि वरान् सुभ्रूर् याचस्व गतसम्भ्रमा

॥११२॥

ब्रह्मोवाच:

तद् एतद् वचनं श्रुत्वा देवदेवस्य सा दितिः । कृताञ्जलिपुटा नत्वा शम्भुं वाक्यम् अथाब्रवीत्

॥११३॥

दितिर् उवाच:

लोके यद् एतत् परमं यत् पित्रोः पुत्रदर्शनम् । विशेषेण तु तन् मातुः प्रियं स्यात् सुरपूजित

॥११४॥

तत्रापि रूपसम्पत्तिशौर्यविक्रमवान् भवेत् । एकोऽपि तनयः किन्तु बहवश् चेत् किम् उच्यते

॥११५॥

मत्पुत्रास् ते प्रभावाच् च जेतारो बलिनो ध्रुवम् । इन्द्रस्य भ्रातरः सत्यं पुत्राश् चैव प्रजापतेः

॥११६॥

अगस्त्यस्य प्रसादाच् च गङ्गायाश् च प्रसादतः । यत्र देव प्रसादस् ते तच् छुभं कोऽत्र संशयः

॥११७॥

कृतार्थाहं तथापि त्वां भक्त्या विज्ञापयाम्य् अहम् । शृणुष्व देव वचनं कुरुष्व च जगद्धितम्

॥११८॥

ब्रह्मोवाच:

वदेत्य् उक्ता जगद्धात्रा दितिर् नम्राब्रवीद् इदम्

॥११९॥

दितिर् उवाच:

सन्ततिप्रापणं लोके दुर्लभं सुरवन्दित । विशेषेण प्रियं मातुः पुत्रश् चेत् किं नु वर्ण्यते

॥१२०॥

स चापि गुणवाञ् श्रीमान् आयुष्मान् यदि जायते । किं तु स्वर्गेण देवेश पारमेष्ठ्यपदेन वा

॥१२१॥

सर्वेषाम् अपि भूतानाम् इहामुत्र फलैषिणाम् । गुणवत्पुत्रसम्प्राप्तिर् अभीष्टा सर्वदैव च । तस्माद् आप्लवनाद् अत्र क्रियतां समनुग्रहः

॥१२२॥

शङ्कर उवाच:

महापापफलं चेदं यद् एतद् अनपत्यता । स्त्रिया वा पुरुषस्यापि वन्ध्यत्वं यदि जायते

॥१२३॥

तद् अत्र स्नानमात्रेण तद्दोषो नाशम् आप्नुयात् । स्नात्वा तत्र फलं दद्यात् स्तोत्रम् एतच् च यः पठेत्

॥१२४॥

स तु पुत्रम् अवाप्नोति त्रिमासस्नानदानतः । अपुत्रिणी त्व् अत्र स्नानं कृत्वा पुत्रम् अवाप्नुयात्

॥१२५॥

ऋतुस्नाता तु या काचित् तत्र स्नाता सुतांल् लभेत् । त्रिमासाभ्यन्तरं या तु गुर्विणी भक्तितस् त्व् इह

॥१२६॥

फलैः स्नात्वा तु मां पश्येत् स्तोत्रेण स्तौति मां तथा । तस्याः शक्रसमः पुत्रो जायते नात्र संशयः

॥१२७॥

पितृदोषैश् च ये पुत्रं न लभन्ते दिते शृणु । धनापहारदोषैश् च तत्रैषा निष्कृतिः परा

॥१२८॥

तत्रैषां पिण्डदानेन पितॄणां प्रीणनेन च । किञ्चित् सुवर्णदानेन ततः पुत्रो भवेद् ध्रुवम्

॥१२९॥

ये न्यासाद्यपहर्तारो रत्नापह्नवकारकाः । श्राद्धकर्मविहीनाश् च तेषां वंशो न वर्धते

॥१३०॥

दोषिणां तु परेतानां गतिर् एषा भवेद् इति । सन्ततिर् जायतां श्लाघ्या जीवतां तीर्थसेवनात्

॥१३१॥

सङ्गमे दितिगङ्गायाः स्नात्वा सिद्धेश्वरं प्रभुम् । अनाद्यपारम् अजरं चित्सदानन्दविग्रहम्

॥१३२॥

देवर्षिसिद्धगन्धर्वयोगीश्वरनिषेवितम् । लिङ्गात्मकं महादेवं ज्योतिर्मयम् अनामयम्

॥१३३॥

पूजयित्वोपचारैश् च नित्यं भक्त्या यतव्रतः । स्तोत्रेणानेन यः स्तौति चतुर्दश्यष्टमीषु च

॥१३४॥

यथाशक्त्या स्वर्णदानं ब्राह्मणानां च भोजनम् । यः करोत्य् अत्र गङ्गायां स पुत्रशतम् आप्नुयात्

॥१३५॥

सम्प्राप्य सकलान् कामान् अन्ते शिवपुरं व्रजेत् । स्तोत्रेणानेन यः कश्चिद् यत्र क्वापि स्तवीति माम् । षण्मासात् पुत्रम् आप्नोति अपि वन्ध्याप्य् अशङ्कितम्

॥१३६॥

ब्रह्मोवाच:

ततः प्रभृति तत् तीर्थं पुत्रतीर्थम् उदाहृतम् । तत्र तु स्नानदानाद्यैः सर्वकामान् अवाप्नुयात्

॥१३७॥

मरुद्भिः सह मैत्र्येण मित्रतीर्थं तद् उच्यते । निष्पापत्वेन चेन्द्रस्य शक्रतीर्थं तद् उच्यते

॥१३८॥

ऐन्द्रीं श्रियं यत्र लेभे तत् तीर्थं कमलाभिधम् । एतानि सर्वतीर्थानि सर्वाभीष्टप्रदानि हि

॥१३९॥

सर्वं भविष्यतीत्य् उक्त्वा शिवश् चान्तरधीयत । कृतकृत्याश् च ते जग्मुः सर्व एव यथागतम् । तीर्थानां पुण्यदं तत्र लक्षम् एकं प्रकीर्तितम्

॥१४०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).