मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १९७

3
ब्रह्मपुराणम् · 197

अध्यायः १९७

व्यास उवाच:

इत्थं स्तुतस् तदा तेन मुचुकुन्देन धीमता । प्राहेशः सर्वभूतानाम् अनादिनिधनो हरिः

॥१॥

श्रीकृष्ण उवाच:

यथाभिवाञ्छितांल् लोकान् दिव्यान् गच्छ नरेश्वर । अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः

॥२॥

भुक्त्वा दिव्यान् महाभोगान् भविष्यसि महाकुले । जातिस्मरो मत्प्रसादात् ततो मोक्षम् अवाप्स्यसि

॥३॥

व्यास उवाच:

इत्य् उक्तः प्रणिपत्येशं जगताम् अच्युतं नृपः । गुहामुखाद् विनिष्क्रान्तो ददृशे सोऽल्पकान् नरान्

॥४॥

ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं ततो नृपः । नरनारायणस्थानं प्रययौ गन्धमादनम्

॥५॥

कृष्णोऽपि घातयित्वारिम् उपायेन हि तद्बलम् । जग्राह मथुराम् एत्य हस्त्यश्वस्यन्दनोज्ज्वलम्

॥६॥

आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत् । पराभिभवनिःशङ्कं बभूव च यदोः कुलम्

॥७॥

बलदेवोऽपि विप्रेन्द्राः प्रशान्ताखिलविग्रहः । ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम्

॥८॥

ततो गोपाश् च गोप्यश् च यथापूर्वम् अमित्रजित् । तथैवाभ्यवदत् प्रेम्णा बहुमानपुरःसरम्

॥९॥

कैश् चापि सम्परिष्वक्तः कांश्चित् स परिषस्वजे । हासं चक्रे समं कैश्चिद् गोपगोपीजनैस् तथा

॥१०॥

प्रियाण्य् अनेकान्य् अवदन् गोपास् तत्र हलायुधम् । गोप्यश् च प्रेममुदिताः प्रोचुः सेर्ष्यम् अथापराः

॥११॥

गोप्यः पप्रच्छुर् अपरा नागरीजनवल्लभः । कच्चिद् आस्ते सुखं कृष्णश् चलत्प्रेमरसाकुलः

॥१२॥

अस्मच्चेष्टोपहसनं न कच्चित् पुरयोषिताम् । सौभाग्यमानम् अधिकं करोति क्षणसौहृदः

॥१३॥

कच्चित् स्मरति नः कृष्णो गीतानुगमनं कृतम् । अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति

॥१४॥

अथवा किं तदालापैः क्रियन्ताम् अपराः कथाः । यद् अस्माभिर् विना तेन विनास्माकं भविष्यति

॥१५॥

पिता माता तथा भ्राता भर्ता बन्धुजनश् च कः । न त्यक्तस् तत्कृतेऽस्माभिर् अकृतज्ञस् ततो हि सः

॥१६॥

तथापि कच्चिद् आत्मीयम् इहागमनसंश्रयम् । करोति कृष्णो वक्तव्यं भवता वचनामृतम्

॥१७॥

दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः । अपेतप्रीतिर् अस्मासु दुर्दर्शः प्रतिभाति नः

॥१८॥

व्यास उवाच:

आमन्त्रितः स कृष्णेति पुनर् दामोदरेति च । जहसुः सुस्वरं गोप्यो हरिणा कृष्टचेतसः

॥१९॥

सन्देशैः सौम्यमधुरैः प्रेमगर्भैर् अगर्वितैः । रामेणाश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः

॥२०॥

गोपैश् च पूर्ववद् रामः परिहासमनोहरैः । कथाश् चकार प्रेम्णा च सह तैर् व्रजभूमिषु

॥२१॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).