मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १९५

3
ब्रह्मपुराणम् · 195

अध्यायः १९५

व्यास उवाच:

जरासन्धसुते कंस उपयेमे महाबलः । अस्तिः प्राप्तिश् च भो विप्रास् तयोर् भर्तृहणं हरिम्

॥१॥

महाबलपरीवारो मागधाधिपतिर् बली । हन्तुम् अभ्याययौ कोपाज् जरासन्धः सयादवम्

॥२॥

उपेत्य मथुरां सोऽथ रुरोध मगधेश्वरः । अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर् वृतः

॥३॥

निष्क्रम्याल्पपरीवाराव् उभौ रामजनार्दनौ । युयुधाते समं तस्य बलिनौ बलिसैनिकैः

॥४॥

ततो बलश् च कृष्णश् च मतिं चक्रे महाबलः । आयुधानां पुराणानाम् आदाने मुनिसत्तमाः

॥५॥

अनन्तरं चक्रशार्ङ्गे तूणौ चाप्य् अक्षयौ शरैः । आकाशाद् आगतौ वीरौ तदा कौमोदकी गदा

॥६॥

हलं च बलभद्रस्य गगनाद् आगमत् करम् । बलस्याभिमतं विप्राः सुनन्दं मुशलं तथा

॥७॥

ततो युद्धे पराजित्य स्वसैन्यं मगधाधिपम् । पुरीं विविशतुर् वीराव् उभौ रामजनार्दनौ

॥८॥

जिते तस्मिन् सुदुर्वृत्ते जरासन्धे द्विजोत्तमाः । जीवमाने गते तत्र कृष्णो मेने न तं जितम्

॥९॥

पुनर् अप्य् आजगामाथ जरासन्धो बलान्वितः । जितश् च रामकृष्णाभ्याम् अपकृत्य द्विजोत्तमाः

॥१०॥

दश चाष्टौ च सङ्ग्रामान् एवम् अत्यन्तदुर्मदः । यदुभिर् मागधो राजा चक्रे कृष्णपुरोगमैः

॥११॥

सर्वेष्व् एव च युद्धेषु यदुभिः स पराजितः । अपक्रान्तो जरासन्धः स्वल्पसैन्यैर् बलाधिकः

॥१२॥

तद् बलं यादवानां वै रक्षितं यद् अनेकशः । तत् तु सन्निधिमाहात्म्यं विष्णोर् अंशस्य चक्रिणः

॥१३॥

मनुष्यधर्मशीलस्य लीला सा जगतः पतेः । अस्त्राण्य् अनेकरूपाणि यद् अरातिषु मुञ्चति

॥१४॥

मनसैव जगत्सृष्टिसंहारं तु करोति यः । तस्यारिपक्षक्षपणे कियान् उद्यमविस्तरः

॥१५॥

तथापि च मनुष्याणां धर्मस् तदनुवर्तनम् । कुर्वन् बलवता सन्धिं हीनैर् युद्धं करोत्य् असौ

॥१६॥

साम चोपप्रदानं च तथा भेदं च दर्शयन् । करोति दण्डपातं च क्वचिद् एव पलायनम्

॥१७॥

मनुष्यदेहिनां चेष्टाम् इत्य् एवम् अनुवर्तते । लीला जगत्पतेस् तस्य च्छन्दतः सम्प्रवर्तते

॥१८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).