मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ४८

3
ब्रह्मपुराणम् · 48

अध्यायः ४८

मुनय ऊचुः:

ब्रूहि नो देवदेवेश यत् पृच्छामः पुरातनम् । यथा ताः प्रतिमाः पूर्वम् इन्द्रद्युम्नेन निर्मिताः

॥१॥

केन चैव प्रकारेण तुष्टस् तस्मै स माधवः । तत् सर्वं वद चास्माकं परं कौतूहलं हि नः

॥२॥

ब्रह्मोवाच:

शृणुध्वं मुनिशार्दूलाः पुराणं वेदसम्मितम् । कथयामि पुरा वृत्तं प्रतिमानां च सम्भवम्

॥३॥

प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते । चिन्ता तस्य बभूवाथ प्रतिमार्थम् अहर्निशम्

॥४॥

न वेद्मि केन देवेशं सर्वेशं लोकपावनम् । सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम्

॥५॥

चिन्ताविष्टस् त्व् अभूद् राजा शेते रात्रौ दिवापि न । न भुङ्क्ते विविधान् भोगान् न च स्नानं प्रसाधनम्

॥६॥

नैव वाद्येन गन्धेन गायनैर् वर्णकैर् अपि । न गजैर् मदयुक्तैश् च न चानेकैर् हयान्वितैः

॥७॥

नेन्द्रनीलैर् महानीलैः पद्मरागमयैर् न च । सुवर्णरजताद्यैश् च वज्रस्फटिकसंयुतैः

॥८॥

बहुरागार्थकामैर् वा न वन्यैर् अन्तरिक्षगैः । बभूव तस्य नृपतेर् मनसस् तुष्टिवर्धनम्

॥९॥

शैलमृद्दारुजातेषु प्रशस्तं किं महीतले । विष्णुप्रतिमायोग्यं च सर्वलक्षणलक्षितम्

॥१०॥

एतैर् एव त्रयाणां तु दयितं स्यात् सुरार्चितम् । स्थापिते प्रीतिम् अभ्येति इति चिन्तापरोऽभवत्

॥११॥

पञ्चरात्रविधानेन सम्पूज्य पुरुषोत्तमम् । चिन्ताविष्टो महीपालः संस्तोतुम् उपचक्रमे

॥१२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).