अध्यायः ९५
ब्रह्मोवाच:
शुक्रतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् । सर्वपापप्रशमनं सर्वव्याधिविनाशनम्
॥१॥अङ्गिराश् च भृगुश् चैव ऋषी परमधार्मिकौ । तयोः पुत्रौ महाप्राज्ञौ रूपबुद्धिविलासिनौ
॥२॥जीवः कविर् इति ख्यातौ मातापित्रोर् वशे रतौ । उपनीतौ सुतौ दृष्ट्वा पितराव् ऊचतुर् मिथः
॥३॥ऋषी ऊचतुः:
आवयोर् एक एवास्तु शास्ता नित्यं च पुत्रयोः । तस्माद् एकः शासिता स्यात् तिष्ठत्व् एको यथासुखम्
॥४॥ब्रह्मोवाच:
एतच् छ्रुत्वा ततः शीघ्रम् अङ्गिराः प्राह भार्गवम् । अध्यापयिष्ये सदृशं सुखं तिष्ठतु भार्गवः
॥५॥एतच् छ्रुत्वा चाङ्गिरसो वाक्यं भृगुकुलोद्वहः । तथेति मत्वाङ्गिरसे शुक्रं तस्मै न्यवेदयत्
॥६॥उभाव् अपि सुतौ नित्यम् अध्यापयति वै पृथक् । वैषम्यबुद्ध्या तौ बालौ चिराच् छुक्रोऽब्रवीद् इदम्
॥७॥शुक्र उवाच:
वैषम्येण गुरो मां त्वम् अध्यापयसि नित्यशः । गुरूणां नेदम् उचितं वैषम्यं पुत्रशिष्ययोः
॥८॥वैषम्येण च वर्तन्ते मूढाः शिष्येषु देशिकाः । नैषा विषमबुद्धीनां सङ्ख्या पापस्य विद्यते
॥९॥आचार्य सम्यग् ज्ञातोऽसि नमस्येऽहं पुनः पुनः । गच्छेयं गुरुम् अन्यं वै माम् अनुज्ञातुम् अर्हसि
॥१०॥गच्छेयं पितरं ब्रह्मन् यद्य् असौ विषमो भवेत् । ततो वान्यत्र गच्छामि स्वामिन् पृष्टोऽसि गम्यते
॥११॥ब्रह्मोवाच:
गुरुं बृहस्पतिं दृष्ट्वा अनुज्ञातस् त्व् अगात् ततः । अवाप्तविद्यः पितरं गच्छेयं चेत्य् अचिन्तयत्
॥१२॥तस्मात् कम् अनुपृच्छेयम् उत्कृष्टः को गुरुर् भवेत् । इति स्मरन् महाप्राज्ञम् अपृच्छद् वृद्धगौतमम्
॥१३॥शुक्र उवाच:
को गुरुः स्यान् मुनिश्रेष्ठ मम ब्रूहि गुरुर् भवेत् । त्रयाणाम् अपि लोकानां यो गुरुस् तं व्रजाम्य् अहम्
॥१४॥ब्रह्मोवाच:
स प्राह जगताम् ईशं शम्भुं देवं जगद्गुरुम् । क्वाराधयामि गिरिशम् इत्य् उक्तः प्राह गौतमः
॥१५॥गौतम उवाच:
गौतम्यां तु शुचिर् भूत्वा स्तोत्रैस् तोषय शङ्करम् । ततस् तुष्टो जगन्नाथः स ते विद्यां प्रदास्यति
॥१६॥ब्रह्मोवाच:
गौतमस्य तु तद्वाक्यात् प्रागाद् गङ्गां स भार्गवः । स्नात्वा भूत्वा शुचिः सम्यक् स्तुतिं चक्रे स बालकः
॥१७॥शुक्र उवाच:
बालोऽहं बालबुद्धिश् च बालचन्द्रधर प्रभो । नाहं जानामि ते किञ्चित् स्तुतिं कर्तुं नमोऽस्तु ते
॥१८॥परित्यक्तस्य गुरुणा न ममास्ति सुहृत् सखा । त्वं प्रभुः सर्वभावेन जगन्नाथ नमोऽस्तु ते
॥१९॥गुरुर् गुरुमतां देव महतां च महान् असि । अहम् अल्पतरो बालो जगन्मय नमोऽस्तु ते
॥२०॥विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम् । मां त्वं च कृपया पश्य लोकसाक्षिन् नमोऽस्तु ते
॥२१॥ब्रह्मोवाच:
एवं तु स्तुवतस् तस्य प्रसन्नोऽभूत् सुरेश्वरः
॥२२॥शिव उवाच:
कामं वरय भद्रं ते यच् चापि सुरदुर्लभम्
॥२३॥ब्रह्मोवाच:
कविर् अप्य् आह देवेशं कृताञ्जलिर् उदारधीः
॥२४॥शुक्र उवाच:
ब्रह्मादिभिश् च ऋषिभिर् या विद्या नैव गोचरा । तां विद्यां नाथ याचिष्ये त्वं गुरुर् मम दैवतम्
॥२५॥ब्रह्मोवाच:
मृतसञ्जीविनीं विद्याम् अज्ञातां त्रिदशैर् अपि । तां दत्तवान् सुरश्रेष्ठस् तस्मै शुक्राय याचते
॥२६॥इतरा लौकिकी विद्या वैदिकी चान्यगोचरा । किं पुनः शङ्करे तुष्टे विचार्यम् अवशिष्यते
॥२७॥स तु लब्ध्वा महाविद्यां प्रायात् स्वपितरं गुरुम् । दैत्यानां च गुरुश् चासीद् विद्यया पूजितः कविः
॥२८॥ततः कदाचित् तां विद्यां कस्मिंश्चित् कारणान्तरे । कचो बृहस्पतिसुतो विद्यां प्राप्तः कवेस् तु ताम्
॥२९॥कचाद् बृहस्पतिश् चापि ततो देवाः पृथक् पृथक् । अवापुर् महतीं विद्यां याम् आहुर् मृतजीविनीम्
॥३०॥यत्र सा कविना प्राप्ता विद्यापूज्य महेश्वरम् । गौतम्या उत्तरे पारे शुक्रतीर्थं तद् उच्यते
॥३१॥मृतसञ्जीविनीतीर्थम् आयुरारोग्यवर्धनम् । स्नानं दानं च यत् किञ्चित् सर्वम् अक्षयपुण्यदम्
॥३२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).