मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १८५

3
ब्रह्मपुराणम् · 185

अध्यायः १८५

व्यास उवाच:

एकदा तु विना रामं कृष्णो वृन्दावनं ययौ । विचचार वृतो गोपैर् वन्यपुष्पस्रगुज्ज्वलः

॥१॥

स जगामाथ कालिन्दीं लोलकल्लोलशालिनीम् । तीरसंलग्नफेनौघैर् हसन्तीम् इव सर्वतः

॥२॥

तस्यां चातिमहाभीमं विषाग्निकणदूषितम् । ह्रदं कालीयनागस्य ददर्शातिविभीषणम्

॥३॥

विषाग्निना विसरता दग्धतीरमहातरुम् । वाताहताम्बुविक्षेपस्पर्शदग्धविहङ्गमम्

॥४॥

तम् अतीव महारौद्रं मृत्युवक्त्रम् इवापरम् । विलोक्य चिन्तयाम् आस भगवान् मधुसूदनः

॥५॥

अस्मिन् वसति दुष्टात्मा कालीयोऽसौ विषायुधः । यो मया निर्जितस् त्यक्त्वा दुष्टो नष्टः पयोनिधौ

॥६॥

तेनेयं दूषिता सर्वा यमुना सागरङ्गमा । न नरैर् गोधनैर् वापि तृषार्तैर् उपभुज्यते

॥७॥

तद् अस्य नागराजस्य कर्तव्यो निग्रहो मया । नित्यत्रस्ताः सुखं येन चरेयुर् व्रजवासिनः

॥८॥

एतदर्थं नृलोकेऽस्मिन्न् अवतारो मया कृतः । यद् एषाम् उत्पथस्थानां कार्या शास्तिर् दुरात्मनाम्

॥९॥

तद् एतन् नातिदूरस्थं कदम्बम् उरुशाखिनम् । अधिरुह्योत्पतिष्यामि ह्रदेऽस्मिञ् जीवनाशिनः

॥१०॥

व्यास उवाच:

इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः । निपपात ह्रदे तत्र सर्पराजस्य वेगतः

॥११॥

तेनापि पतता तत्र क्षोभितः स महाह्रदः । अत्यर्थदूरजातांश् च तांश् चासिञ्चन् महीरुहान्

॥१२॥

तेऽहिदुष्टविषज्वालातप्ताम्बुतपनोक्षिताः । जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः

॥१३॥

आस्फोटयाम् आस तदा कृष्णो नागह्रदं भुजैः । तच्छब्दश्रवणाच् चाथ नागराजोऽभ्युपागमत्

॥१४॥

आताम्रनयनः कोपाद् विषज्वालाकुलैः फणैः । वृतो महाविषैश् चान्यैर् अरुणैर् अनिलाशनैः

॥१५॥

नागपत्न्यश् च शतशो हारिहारोपशोभिताः । प्रकम्पिततनूत्क्षेपचलत्कुण्डलकान्तयः

॥१६॥

ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः । ददंशुश् चापि ते कृष्णं विषज्वालाविलैर् मुखैः

॥१७॥

तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम् । गोपा व्रजम् उपागत्य चुक्रुशुः शोकलालसाः

॥१८॥

गोपा ऊचुः:

एष कृष्णो गतो मोहमग्नो वै कालिये ह्रदे । भक्ष्यते सर्पराजेन तद् आगच्छत मा चिरम्

॥१९॥

व्यास उवाच:

एतच् छ्रुत्वा ततो गोपा वज्रपातोपमं वचः । गोप्यश् च त्वरिता जग्मुर् यशोदाप्रमुखा ह्रदम्

॥२०॥

हा हा क्वासाव् इति जनो गोपीनाम् अतिविह्वलः । यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ

॥२१॥

नन्दगोपश् च गोपाश् च रामश् चाद्भुतविक्रमः । त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः

॥२२॥

ददृशुश् चापि ते तत्र सर्पराजवशङ्गतम् । निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम्

॥२३॥

नन्दगोपश् च निश्चेष्टः पश्यन् पुत्रमुखं भृशम् । यशोदा च महाभागा बभूव मुनिसत्तमाः

॥२४॥

गोप्यस् त्व् अन्या रुदत्यश् च ददृशुः शोककातराः । प्रोचुश् च केशवं प्रीत्या भयकातरगद्गदम्

॥२५॥

सर्वा यशोदया सार्धं विशामोऽत्र महाह्रदे । नागराजस्य नो गन्तुम् अस्माकं युज्यते व्रजे

॥२६॥

दिवसः को विना सूर्यं विना चन्द्रेण का निशा । विना दुग्धेन का गावो विना कृष्णेन को व्रजः । विनाकृता न यास्यामः कृष्णेनानेन गोकुलम्

॥२७॥

व्यास उवाच:

इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः । उवाच गोपान् विधुरान् विलोक्य स्तिमितेक्षणः

॥२८॥

नन्दं च दीनम् अत्यर्थं न्यस्तदृष्टिं सुतानने । मूर्छाकुलां यशोदां च कृष्णमाहात्म्यसञ्ज्ञया

॥२९॥

बलराम उवाच:

किम् अयं देवदेवेश भावोऽयं मानुषस् त्वया । व्यज्यते स्वं तम् आत्मानं किम् अन्यं त्वं न वेत्सि यत्

॥३०॥

त्वम् अस्य जगतो नाभिः सुराणाम् एव चाश्रयः । कर्तापहर्ता पाता च त्रैलोक्यं त्वं त्रयीमयः

॥३१॥

अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः । गोप्यश् च सीदतः कस्मात् त्वं बन्धून् समुपेक्षसे

॥३२॥

दर्शितो मानुषो भावो दर्शितं बालचेष्टितम् । तद् अयं दम्यतां कृष्ण दुरात्मा दशनायुधः

॥३३॥

व्यास उवाच:

इति संस्मारितः कृष्णः स्मितभिन्नौष्ठसम्पुटः । आस्फाल्य मोचयाम् आस स्वं देहं भोगबन्धनात्

॥३४॥

आनाम्य चापि हस्ताभ्याम् उभाभ्यां मध्यमं फणम् । आरुह्य भुग्नशिरसः प्रननर्तोरुविक्रमः

॥३५॥

व्रणाः फणेऽभवंस् तस्य कृष्णस्याङ्घ्रिविकुट्टनैः । यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः

॥३६॥

मूर्छाम् उपाययौ भ्रान्त्या नागः कृष्णस्य कुट्टनैः । दण्डपातनिपातेन ववाम रुधिरं बहु

॥३७॥

तं निर्भुग्नशिरोग्रीवम् आस्यप्रस्रुतशोणितम् । विलोक्य शरणं जग्मुस् तत्पत्न्यो मधुसूदनम्

॥३८॥

नागपत्न्य ऊचुः:

ज्ञातोऽसि देवदेवेश सर्वेशस् त्वम् अनुत्तम । परं ज्योतिर् अचिन्त्यं यत् तदंशः परमेश्वरः

॥३९॥

न समर्थाः सुर स्तोतुं यम् अनन्यभवं प्रभुम् । स्वरूपवर्णनं तस्य कथं योषित् करिष्यति

॥४०॥

यस्याखिलमहीव्योमजलाग्निपवनात्मकम् । ब्रह्माण्डम् अल्पकांशांशः स्तोष्यामस् तं कथं वयम्

॥४१॥

ततः कुरु जगत्स्वामिन् प्रसादम् अवसीदतः । प्राणांस् त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम्

॥४२॥

व्यास उवाच:

इत्य् उक्ते ताभिर् आश्वास्य क्लान्तदेहोऽपि पन्नगः । प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः

॥४३॥

कालीय उवाच:

तवाष्टगुणम् ऐश्वर्यं नाथ स्वाभाविकं परम् । निरस्तातिशयं यस्य तस्य स्तोष्यामि किं न्व् अहम्

॥४४॥

त्वं परस् त्वं परस्याद्यः परं त्वं तत्परात्मकम् । परस्मात् परमो यस् त्वं तस्य स्तोष्यामि किं न्व् अहम्

॥४५॥

यथाहं भवता सृष्टो जात्या रूपेण चेश्वरः । स्वभावेन च संयुक्तस् तथेदं चेष्टितं मया

॥४६॥

यद्य् अन्यथा प्रवर्तेय देवदेव ततो मयि । न्याय्यो दण्डनिपातस् ते तवैव वचनं यथा

॥४७॥

तथापि यं जगत्स्वामी दण्डं पातितवान् मयि । स सोढोऽयं वरो दण्डस् त्वत्तो नान्योऽस्तु मे वरः

॥४८॥

हतवीर्यो हतविषो दमितोऽहं त्वयाच्युत । जीवितं दीयताम् एकम् आज्ञापय करोमि किम्

॥४९॥

श्रीभगवान् उवाच:

नात्र स्थेयं त्वया सर्प कदाचिद् यमुनाजले । सभृत्यपरिवारस् त्वं समुद्रसलिलं व्रज

॥५०॥

मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे । गरुडः पन्नगरिपुस् त्वयि न प्रहरिष्यति

॥५१॥

व्यास उवाच:

इत्य् उक्त्वा सर्पराजानं मुमोच भगवान् हरिः । प्रणम्य सोऽपि कृष्णाय जगाम पयसां निधिम्

॥५२॥

पश्यतां सर्वभूतानां सभृत्यापत्यबन्धवः । समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम्

॥५३॥

गते सर्पे परिष्वज्य मृतं पुनर् इवागतम् । गोपा मूर्धनि गोविन्दं सिषिचुर् नेत्रजैर् जलैः

॥५४॥

कृष्णम् अक्लिष्टकर्माणम् अन्ये विस्मितचेतसः । तुष्टुवुर् मुदिता गोपा दृष्ट्वा शिवजलां नदीम्

॥५५॥

गीयमानोऽथ गोपीभिश् चरितैश् चारुचेष्टितैः । संस्तूयमानो गोपालैः कृष्णो व्रजम् उपागमत्

॥५६॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).