मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १३०

3
ब्रह्मपुराणम् · 130

अध्यायः १३०

ब्रह्मोवाच:

आपस्तम्बम् इति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् । स्मरणाद् अप्य् अशेषाघसङ्घविध्वंसनक्षमम्

॥१॥

आपस्तम्बो महाप्राज्ञो मुनिर् आसीन् महायशाः । तस्य भार्याक्षसूत्रेति पतिधर्मपरायणा

॥२॥

तस्य पुत्रो महाप्राज्ञः कर्किनामाथ तत्त्ववित् । तस्याश्रमम् अनुप्राप्तो ह्य् अगस्त्यो मुनिसत्तमः

॥३॥

तम् अगस्त्यं पूजयित्वा आपस्तम्बो मुनीश्वरः । शिष्यैर् अनुगतो धीमांस् तं प्रष्टुम् उपचक्रमे

॥४॥

आपस्तम्ब उवाच:

त्रयाणां को नु पूज्यः स्याद् देवानां मुनिसत्तम । भुक्तिर् मुक्तिश् च कस्माद् वा स्याद् अनादिश् च को भवेत्

॥५॥

अनन्तश् चापि को विप्र देवानाम् अपि दैवतम् । यज्ञैः क इज्यते देवः को वेदेष्व् अनुगीयते । एतं मे संशयं छेत्तुं वदागस्त्य महामुने

॥६॥

अगस्त्य उवाच:

धर्मार्थकाममोक्षाणां प्रमाणं शब्द उच्यते । तत्रापि वैदिकः शब्दः प्रमाणं परमं मतः

॥७॥

वेदेन गीयते यस् तु पुरुषः स परात् परः । मृतोऽपरः स विज्ञेयो ह्य् अमृतः पर उच्यते

॥८॥

योऽमूर्तः स परो ज्ञेयो ह्य् अपरो मूर्त उच्यते । गुणाभिव्याप्तिभेदेन मूर्तोऽसौ त्रिविधो भवेत्

॥९॥

ब्रह्मा विष्णुः शिवश् चेति एक एव त्रिधोच्यते । त्रयाणाम् अपि देवानां वेद्यम् एकं परं हि तत्

॥१०॥

एकस्य बहुधा व्याप्तिर् गुणकर्मविभेदतः । लोकानाम् उपकारार्थम् आकृतित्रितयं भवेत्

॥११॥

यस् तत्त्वं वेत्ति परमं स च विद्वान् न चेतरः । तत्र यो भेदम् आचष्टे लिङ्गभेदी स उच्यते

॥१२॥

प्रायश्चित्तं न तस्यास्ति यश् चैषां व्याहरेद् भिदम् । त्रयाणाम् अपि देवानां मूर्तिभेदः पृथक् पृथक्

॥१३॥

वेदाः प्रमाणं सर्वत्र साकारेषु पृथक् पृथक् । निराकारं च यत् त्व् एकं तत् तेभ्यः परमं मतम्

॥१४॥

आपस्तम्ब उवाच:

नानेन निर्णयः कश्चिन् मयात्र विदितो भवेत् । तत्राप्य् अत्र रहस्यं यत् तद् विमृश्याशु कीर्त्यताम् । निःसंशयं निर्विकल्पं भाजनं सर्वसम्पदाम्

॥१५॥

ब्रह्मोवाच:

एतद् आकर्ण्य भगवान् अगस्त्यो वाक्यम् अब्रवीत्

॥१६॥

अगस्त्य उवाच:

यद्यप्य् एषां न भेदोऽस्ति देवानां तु परस्परम् । तथापि सर्वसिद्धिः स्याच् छिवाद् एव सुखात्मनः

॥१७॥

प्रपञ्चस्य निमित्तं यत् तज् ज्योतिश् च परं शिवः । तम् एव साधय हरं भक्त्या परमया मुने । गौतम्यां सकलाघौघसंहर्ता दण्डके वने

॥१८॥

ब्रह्मोवाच:

एतच् छ्रुत्वा मुनेर् वाक्यं परां प्रीतिम् उपागतः । भुक्तिदो मुक्तिदः पुंसां साकारोऽथ निराकृतिः

॥१९॥

सृष्ट्याकारस् ततः शक्तः पालनाकार एव च । दाता च हन्ति सर्वं यो यस्माद् एतत् समाप्यते

॥२०॥

अगस्त्य उवाच:

ब्रह्माकृतिः कर्तृरूपा वैष्णवी पालनी तथा । रुद्राकृतिर् निहन्त्री सा सर्ववेदेषु पठ्यते

॥२१॥

ब्रह्मोवाच:

आपस्तम्बस् तदा गङ्गां गत्वा स्नात्वा यतव्रतः । तुष्टाव शङ्करं देवं स्तोत्रेणानेन नारद

॥२२॥

आपस्तम्ब उवाच:

काष्ठेषु वह्निः कुसुमेषु गन्धो । बीजेषु वृक्षादि दृषत्सु हेम । भूतेषु सर्वेषु तथास्ति यो वै । तं सोमनाथं शरणं व्रजामि

॥२३॥

यो लीलया विश्वम् इदं चकार । धाता विधाता भुवनत्रयस्य । यो विश्वरूपः सदसत्परो यः । सोमेश्वरं तं शरणं व्रजामि

॥२४॥

रोगादिभिर् न स्पृश्यते शरीरी । यम् आश्रिताश् चेप्सितम् आप्नुवन्ति । सोमेश्वरं तं शरणं व्रजामि

॥२५॥

येन त्रयीधर्मम् अवेक्ष्य पूर्वं । ब्रह्मादयस् तत्र समीहिताश् च । एवं द्विधा येन कृतं शरीरं । सोमेश्वरं तं शरणं व्रजामि

॥२६॥

यस्मै नमो गच्छति मन्त्रपूतं । हुतं हविर् या च कृता च पूजा । दत्तं हविर् येन सुरा भजन्ते । सोमेश्वरं तं शरणं व्रजामि

॥२७॥

यस्मात् परं नान्यद् अस्ति प्रशस्तं । यस्मात् परं नैव सुसूक्ष्मम् अन्यत् । यस्मात् परं नो महतां महच् च । सोमेश्वरं तं शरणं व्रजामि

॥२८॥

यस्याज्ञया विश्वम् इदं विचित्रम् । अचिन्त्यरूपं विविधं महच् च । एकक्रियं यद्वद् अनुप्रयाति । सोमेश्वरं तं शरणं व्रजामि

॥२९॥

यस्मिन् विभूतिः सकलाधिपत्यं । कर्तृत्वदातृत्वमहत्त्वम् एव । प्रीतिर् यशः सौख्यम् अनादिधर्मः । सोमेश्वरं तं शरणं व्रजामि

॥३०॥

नित्यं शरण्यः सकलस्य पूज्यो । नित्यं प्रियो यः शरणागतस्य । नित्यं शिवो यः सकलस्य रूपं । सोमेश्वरं तं शरणं व्रजामि

॥३१॥

ब्रह्मोवाच:

ततः प्रसन्नो भगवान् आह नारद तं मुनिम् । आत्मार्थं च परार्थं च आपस्तम्बोऽब्रवीच् छिवम्

॥३२॥

सर्वान् कामान् आप्नुयुस् ते ये स्नात्वा देवम् ईश्वरम् । पश्येयुर् जगताम् ईशम् अस्त्व् इत्य् आह शिवो मुनिम्

॥३३॥

ततः प्रभृति तत् तीर्थम् आपस्तम्बम् उदाहृतम् । अनाद्य् अविद्यातिमिरव्रातनिर्मूलनक्षमम्

॥३४॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).