अध्यायः २३९
मुनय ऊचुः:
साङ्ख्यं योगस्य नो विप्र विशेषं वक्तुम् अर्हसि । तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम
॥१॥व्यास उवाच:
साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगान् योगविदुत्तमाः । वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै
॥२॥अनीश्वरः कथं मुच्येद् इत्य् एवं मुनिसत्तमाः । वदन्ति कारणैः श्रेष्ठं योगं सम्यङ् मनीषिणः
॥३॥वदन्ति कारणं वेदं साङ्ख्यं सम्यग् द्विजातयः । विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः
॥४॥ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा । एतद् आहुर् महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम्
॥५॥स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् । शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसम्मतैः
॥६॥प्रत्यक्षं हेतवो योगाः साङ्ख्याः शास्त्रविनिश्चयाः । उभे चैते मते तत्त्वे समवेते द्विजोत्तमाः
॥७॥उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसम्मते । अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम्
॥८॥तुल्यं शौचं तयोर् युक्तं दया भूतेषु चानघाः । व्रतानां धारणं तुल्यं दर्शनं त्व् असमं तयोः
॥९॥मुनय ऊचुः:
यदि तुल्यं व्रतं शौचं दया चात्र महामुने । तुल्यं तद्दर्शनं कस्मात् तन् नो ब्रूहि द्विजोत्तम
॥१०॥व्यास उवाच:
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् । योगास्थिरोदितान् दोषान् पञ्चैतान् प्राप्नुवन्ति तान्
॥११॥यथा वानिमिषाः स्थूलं जालं छित्त्वा पुनर् जलम् । प्राप्नुवन्ति तथा योगात् तत् पदं वीतकल्मषाः
॥१२॥तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः । प्राप्नुयुर् विमलं मार्गं विमुक्ताः सर्वबन्धनैः
॥१३॥लोभजानि तथा विप्रा बन्धनानि बलान्वितः । छित्त्वा योगात् परं मार्गं गच्छन्ति विमलं शुभम्
॥१४॥अचलास् त्व् आविला विप्रा वागुरासु तथापरे । विनश्यन्ति न सन्देहस् तद्वद् योगबलाद् ऋते
॥१५॥बलहीनाश् च विप्रेन्द्रा यथा जालं गता द्विजाः । बन्धं न गच्छन्त्य् अनघा योगास् ते तु सुदुर्लभाः
॥१६॥यथा च शकुनाः सूक्ष्मं प्राप्य जालम् अरिन्दमाः । तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः
॥१७॥कर्मजैर् बन्धनैर् बद्धास् तद्वद् योगपरा द्विजाः । अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः
॥१८॥अल्पकश् च यथा विप्रा वह्निः शाम्यति दुर्बलः । आक्रान्त इन्धनैः स्थूलैस् तद्वद् योगबलः स्मृतः
॥१९॥स एव च तदा विप्रा वह्निर् जातबलः पुनः । समीरणगतः कृत्स्नां दहेत् क्षिप्रं महीम् इमाम्
॥२०॥तत्त्वज्ञानबलो योगी दीप्ततेजा महाबलः । अन्तकाल इवादित्यः कृत्स्नं संशोषयेज् जगत्
॥२१॥दुर्बलश् च यथा विप्राः स्रोतसा ह्रियते नरः । बलहीनस् तथा योगी विषयैर् ह्रियते च सः
॥२२॥तद् एव तु यथा स्रोतो विष्कम्भयति वारणः । तद्वद् योगबलं लब्ध्वा न भवेद् विषयैर् हृतः
॥२३॥विशन्ति वा वशाद् वाथ योगाद् योगबलान्विताः । प्रजापतीन् मनून् सर्वान् महाभूतानि चेश्वराः
॥२४॥न यमो नान्तकः क्रुद्धो न मृत्युर् भीमविक्रमः । विशन्ते तद् द्विजाः सर्वे योगस्यामिततेजसः
॥२५॥आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः । योगं कुर्याद् बलं प्राप्य तैश् च सर्वैर् महीं चरेत्
॥२६॥प्राप्नुयाद् विषयान् कश्चित् पुनश् चोग्रं तपश् चरेत् । सङ्क्षिप्येच् च पुनर् विप्राः सूर्यस् तेजोगुणान् इव
॥२७॥बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः । विमोक्षप्रभवं विष्णुम् उपपन्नम् असंशयम्
॥२८॥बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः । निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर् द्विजाः
॥२९॥आत्मनश् च समाधाने धारणां प्रति वा द्विजाः । निदर्शनानि सूक्ष्माणि शृणुध्वं मुनिसत्तमाः
॥३०॥अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः । युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्य् असंशयम्
॥३१॥स्नेहपात्रे यथा पूर्णे मन आधाय निश्चलम् । पुरुषो युक्त आरोहेत् सोपानं युक्तमानसः
॥३२॥मुक्तस् तथायम् आत्मानं योगं तद्वत् सुनिश्चलम् । करोत्य् अमलम् आत्मानं भास्करोपमदर्शने
॥३३॥यथा च नावं विप्रेन्द्राः कर्णधारः समाहितः । महार्णवगतां शीघ्रं नयेद् विप्रांस् तु पत्तनम्
॥३४॥तद्वद् आत्मसमाधानं युक्तो योगेन योगवित् । दुर्गमं स्थानम् आप्नोति हित्वा देहम् इमं द्विजाः
॥३५॥सारथिश् च यथा युक्तः सदश्वान् सुसमाहितः । देशम् इष्टं नयत्य् आशु धन्विनं पुरुषर्षभम्
॥३६॥तथैव च द्विजा योगी धारणासु समाहितः । प्राप्नोत्य् आशु परं स्थानं लक्ष्यमुक्त इवाशुगः
॥३७॥आविश्यात्मनि चात्मानं योऽवतिष्ठति सोऽचलः । पाशं हत्वेव मीनानां पदम् आप्नोति सोऽजरम्
॥३८॥नाभ्यां शीर्षे च कुक्षौ च हृदि वक्षसि पार्श्वयोः । दर्शने श्रवणे वापि घ्राणे चामितविक्रमः
॥३९॥स्थानेष्व् एतेषु यो योगी महाव्रतसमाहितः । आत्मना सूक्ष्मम् आत्मानं युङ्क्ते सम्यग् द्विजोत्तमाः
॥४०॥सुशीघ्रम् अचलप्रख्यं कर्म दग्ध्वा शुभाशुभम् । उत्तमं योगम् आस्थाय यदीच्छति विमुच्यते
॥४१॥मुनय ऊचुः:
आहारान् कीदृशान् कृत्वा कानि जित्वा च सत्तम । योगी बलम् अवाप्नोति तद् भवान् वक्तुम् अर्हति
॥४२॥व्यास उवाच:
कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः । स्नेहानां वर्जने युक्तो योगी बलम् अवाप्नुयात्
॥४३॥भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः । एकाहारी विशुद्धात्मा योगी बलम् अवाप्नुयात्
॥४४॥पक्षान् मासान् ऋतूंश् चित्रान् सञ्चरंश् च गुहास् तथा । अपः पीत्वा पयोमिश्रा योगी बलम् अवाप्नुयात्
॥४५॥अखण्डम् अपि वा मासं सततं मुनिसत्तमाः । उपोष्य सम्यक् शुद्धात्मा योगी बलम् अवाप्नुयात्
॥४६॥कामं जित्वा तथा क्रोधं शीतोष्णं वर्षम् एव च । भयं शोकं तथा स्वापं पौरुषान् विषयांस् तथा
॥४७॥अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः । स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः
॥४८॥दीपयन्ति महात्मानं सूक्ष्मम् आत्मानम् आत्मना । वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा
॥४९॥दुर्गस् त्व् एष मतः पन्था ब्राह्मणानां विपश्चिताम् । यः कश्चिद् व्रजति क्षिप्रं क्षेमेण मुनिपुङ्गवाः
॥५०॥यथा कश्चिद् वनं घोरं बहुसर्पसरीसृपम् । श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम्
॥५१॥अभक्तम् अटवीप्रायं दावदग्धमहीरुहम् । पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेत् तथा
॥५२॥योगमार्गं समासाद्य यः कश्चिद् व्रजते द्विजः । क्षेमेणोपरमेन् मार्गाद् बहुदोषोऽपि सम्मतः
॥५३॥आस्थेयं क्षुरधारासु निशितासु द्विजोत्तमाः । धारणा सा तु योगस्य दुर्गेयम् अकृतात्मभिः
॥५४॥विषमा धारणा विप्रा यान्ति वै न शुभां गतिम् । नेतृहीना यथा नावः पुरुषाणां तु वै द्विजाः
॥५५॥यस् तु तिष्ठति योगाधौ धारणासु यथाविधि । मरणं जन्मदुःखित्वं सुखित्वं स विशिष्यते
॥५६॥नानाशास्त्रेषु नियतं नानामुनिनिषेवितम् । परं योगस्य पन्थानं निश्चितं तं द्विजातिषु
॥५७॥परं हि तद् ब्रह्ममयं मुनीन्द्रा । ब्रह्माणम् ईशं वरदं च विष्णुम् । भवं च धर्मं च महानुभावं । यद् ब्रह्मपुत्रान् सुमहानुभावान्
॥५८॥तमश् च कष्टं सुमहद् रजश् च । सत्त्वं च शुद्धं प्रकृतिं परां च । सिद्धिं च देवीं वरुणस्य पत्नीं । तेजश् च कृत्स्नं सुमहच् च धैर्यम्
॥५९॥ताराधिपं खे विमलं सुतारं । विश्वांश् च देवान् उरगान् पितॄंश् च । शैलांश् च कृत्स्नान् उदधींश् च वाचलान् । नदीश् च सर्वाः सनगांश् च नागान्
॥६०॥साध्यांस् तथा यक्षगणान् दिशश् च । गन्धर्वसिद्धान् पुरुषान् स्त्रियश् च । परस्परं प्राप्य महान् महात्मा । विशेत योगी नचिराद् विमुक्तः
॥६१॥कथा च या विप्रवराः प्रसक्ता । दैवे महावीर्यमतौ शुभेयम् । योगान् स सर्वान् अनुभूय मर्त्या । नारायणं तं द्रुतम् आप्नुवन्ति
॥६२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).