अध्यायः १०७
ब्रह्मोवाच:
वृद्धासङ्गमम् आख्यातं यत्र वृद्धेश्वरः शिवः । तस्याख्यानं प्रवक्ष्यामि शृणु पापप्रणाशनम्
॥१॥गौतमो वृद्ध इत्य् उक्तो मुनिर् आसीन् महातपाः । यदा पुराभवद् बालो गौतमस्य सुतो द्विजः
॥२॥अनासः स पुरोत्पन्नस् तस्माद् विकृतरूपधृक् । स वैराग्याज् जगामाथ देशं तीर्थम् इतस् ततः
॥३॥उपाध्यायेन नैवासील् लज्जितस्य समागमः । शिष्यैर् अन्यैः सहाध्यायो लज्जितस्य च नाभवत्
॥४॥उपनीतः कथञ्चिच् च पित्रा वै गौतमेन सः । एतावता गौतमोऽपि व्यगमच् चरितुं बहिः
॥५॥एवं बहुतिथे काले ब्रह्ममात्रा धृते द्विजे । नैव चाध्ययनं तस्य सञ्जातं गौतमस्य हि
॥६॥नैव शास्त्रस्य चाभ्यासो गौतमस्याभवत् तदा । अग्निकार्यं ततश् चक्रे नित्यम् एव यतव्रतः
॥७॥गायत्र्यभ्यासमात्रेण ब्राह्मणो नामधारकः । अग्न्युपासनमात्रं च गायत्र्यभ्यसनं तथा
॥८॥एतावता ब्राह्मणत्वं गौतमस्याभवन् मुने । उपासतोऽग्निं विधिवद् गायत्रीं च महात्मनः
॥९॥तस्यायुर् ववृधे पुत्र गौतमस्य चिरायुषः । न दारसङ्ग्रहं लेभे नैव दातास्ति कन्यकाम्
॥१०॥तथा चरंस् तीर्थदेशे वनेषु विविधेषु च । आश्रमेषु च पुण्येषु अटन्न् आस्ते स गौतमः
॥११॥एवं भ्रमञ् शीतगिरिम् आश्रित्यास्ते स गौतमः । तत्रापश्यद् गुहां रम्यां वल्लीविटपमालिनीम्
॥१२॥तत्रोपविश्य विप्रेन्द्रो वस्तुं समकरोन् मतिम् । चिन्तयंस् तु प्रविष्टोऽसाव् अपश्यत् स्त्रियम् उत्तमाम्
॥१३॥शिथिलाङ्गीम् अथ कृशां वृद्धां च तपसि स्थिताम् । ब्रह्मचर्येण वर्तन्तीं विरागां रहसि स्थिताम्
॥१४॥स तां दृष्ट्वा मुनिश्रेष्ठो नमस्काराय तस्थिवान् । नमस्यन्तं मुनिश्रेष्ठं तं गौतमम् अवारयत्
॥१५॥वृद्धोवाच:
गुरुस् त्वं भविता मह्यं न मां वन्दितुम् अर्हसि । आयुर् विद्या धनं कीर्तिर् धर्मः स्वर्गादिकं च यत् । तस्य नश्यति वै सर्वं यं नमस्यति वै गुरुः
॥१६॥ब्रह्मोवाच:
कृताञ्जलिपुटस् तां वै गौतमः प्राह विस्मितः
॥१७॥गौतम उवाच:
तपस्विनी त्वं वृद्धा च गुणज्येष्ठा च भामिनी । अल्पविद्यस् त्व् अल्पवया अहं तव गुरुः कथम्
॥१८॥वृद्धोवाच:
आर्ष्टिषेणप्रियपुत्र ऋतध्वज इति श्रुतः । गुणवान् मतिमाञ् शूरः क्षत्रधर्मपरायणः
॥१९॥स कदाचिद् वनं प्रायान् मृगयाकृष्टचेतनः । विश्रामम् अकरोद् अस्यां गुहायां स ऋतध्वजः
॥२०॥युवा स मतिमान् दक्षो बलेन महता वृतः । तं विश्रान्तं नृपवरम् अप्सरा ददृशे ततः
॥२१॥गन्धर्वराजस्य सुता सुश्यामा इति विश्रुता । तां दृष्ट्वा चकमे राजा राजानं चकमे च सा
॥२२॥इति क्रीडा समभवत् तया राज्ञो महामते । निवृत्तकामो राजेन्द्रस् ताम् आपृच्छ्यागमद् गृहम्
॥२३॥उत्पन्नाहं ततस् तस्यां सुश्यामायां महामते । गच्छन्ती मां तदा माता इदम् आह तपोधन
॥२४॥सुश्यामोवाच:
यस् त्व् अस्यां प्रविशेद् भद्रे स ते भर्ता भविष्यति
॥२५॥वृद्धोवाच:
इत्य् उक्त्वा सा जगमाथ माता मम महामते । तस्माद् अत्र प्रविष्टस् त्वं पुमान् नान्यः कदाचन
॥२६॥सहस्राणि तथाशीतिं कृत्वा राज्यं पिता मम । अत्रैव च तपस् तप्त्वा ततः स्वर्गम् उपेयिवान्
॥२७॥स्वर्गं यातेऽपि पितरि सहस्राणि तथा दश । वर्षाणि मुनिशार्दूल राज्यं कृत्वा तथा परः
॥२८॥स्वर्गे यातो मम भ्राता अहम् अत्रैव संस्थिता । अहं ब्रह्मन् नान्यवृत्ता न माता न पिता मम
॥२९॥अहम् आत्मेश्वरी ब्रह्मन् निविष्टा क्षत्रकन्यका । तस्माद् भजस्व मां ब्रह्मन् व्रतस्थां पुरुषार्थिनीम्
॥३०॥गौतम उवाच:
सहस्रायुर् अहं भद्रे मत्तस् त्वं वयसाधिका । अहं बालस् त्वं तु वृद्धा नैवायं घटते मिथः
॥३१॥वृद्धोवाच:
त्वं भर्ता मे पुरा दिष्टो नान्यो भर्ता मतो मम । धात्रा दत्तस् ततस् त्वं मां न निराकर्तुम् अर्हसि
॥३२॥अथवा नेच्छसि मां त्वम् अप्रदुष्टाम् अनुव्रताम् । ततस् त्यक्ष्यामि जीवं मे इदानीं तव पश्यतः
॥३३॥अपेक्षिताप्राप्तितो हि देहिनां मरणं वरम् । अनुरक्तजनत्यागे पातकान्तो न विद्यते
॥३४॥ब्रह्मोवाच:
वृद्धायास् तद् वचः श्रुत्वा गौतमो वाक्यम् अब्रवीत्
॥३५॥गौतम उवाच:
अहं तपोविरहितो विद्याहीनो ह्य् अकिञ्चनः । नाहं वरो हि योग्यस् ते कुरूपो भोगवर्जितः
॥३६॥अनासोऽहं किं करोमि अतपोविद्य एव च । तस्मात् सुरूपं सुविद्याम् आपाद्य प्रथमं शुभे । पश्चात् ते वचनं कार्यं ततो वृद्धाब्रवीद् द्विजम्
॥३७॥वृद्धोवाच:
मया सरस्वती देवी तोषिता तपसा द्विज । तथैवापो रूपवत्यो रूपदाताग्निर् एव च
॥३८॥तस्माद् वागीश्वरी देवी सा ते विद्यां प्रदास्यति । अग्निश् च रूपवान् देवस् तव रूपं प्रदास्यति
॥३९॥ब्रह्मोवाच:
एवम् उक्त्वा गौतमं तं वृद्धोवाच विभावसुम् । प्रार्थयित्वा सुविद्यं तं सुरूपं चाकरोन् मुनिम्
॥४०॥ततः सुविद्यः सुभगः सुकान्तो । वृद्धां स पत्नीम् अकरोत् प्रीतियुक्तः । तया स रेमे बहुला मनोज्ञया । समाः सुखं प्रीतमना गुहायाम्
॥४१॥कदाचित् तत्र वसतोर् दम्पत्योर् मुदतोर् गिरौ । गुहायां मुनिशार्दूल आजग्मुर् मुनयोऽमलाः
॥४२॥वसिष्ठवामदेवाद्या ये चान्ये च महर्षयः । भ्रमन्तः पुण्यतीर्थानि प्राप्नुवंस् तस्य तां गुहाम्
॥४३॥आगतांस् तान् ऋषीञ् ज्ञात्वा गौतमः सह भार्यया । सत्कारम् अकरोत् तेषां जहसुस् तं च केचन
॥४४॥ये बाला यौवनोन्मत्ता वयसा ये च मध्यमाः । वृद्धां च गौतमं प्रेक्ष्य जहसुस् तत्र केचन
॥४५॥ऋषय ऊचुः:
पुत्रोऽयं तव पौत्रो वा वृद्धे को गौतमोऽभवत् । सत्यं वदस्व कल्याणि इत्य् एवं जहसुर् द्विजाः
॥४६॥विषं वृद्धस्य युवती वृद्धाया अमृतं युवा । इष्टानिष्टसमायोगो दृष्टोऽस्माभिर् अहो चिरात्
॥४७॥ब्रह्मोवाच:
इत्य् एवम् ऊचिरे केचिद् दम्पत्योः शृण्वतोस् तदा । एवम् उक्त्वा कृतातिथ्या ययुः सर्वे महर्षयः
॥४८॥ऋषीणां वचनं श्रुत्वा उभाव् अपि सुदुःखितौ । लज्जितौ च महाप्राज्ञौ गौतमो भार्यया सह । पप्रच्छ मुनिशार्दूलम् अगस्त्यम् ऋषिसत्तमम्
॥४९॥गौतम उवाच:
को देशः किम् उ तीर्थं वा यत्र श्रेयः समाप्यते । शीघ्रम् एव महाप्राज्ञ भुक्तिमुक्तिप्रदायकम्
॥५०॥अगस्त्य उवाच:
वदद्भिर् मुनिभिर् ब्रह्मन् मया श्रुतम् इदं वचः । सर्वे कामास् तत्र पूर्णा गौतम्यां नात्र संशयः
॥५१॥तस्माद् गच्छ महाबुद्धे गौतमीं पापनाशिनीम् । अहं त्वाम् अनुयास्यामि यथेच्छसि तथा कुरु
॥५२॥ब्रह्मोवाच:
एतच् छ्रुत्वागस्त्यवाक्यं वृद्धया गौतमोऽभ्यगात् । तत्र तेपे तपस् तीव्रं पत्न्या स भगवान् ऋषिः
॥५३॥स्तुतिं चकार देवस्य शम्भोर् विष्णोस् तथैव च । गङ्गां च तोषयाम् आस भार्यार्थं भगवान् ऋषिः
॥५४॥गौतम उवाच:
खिन्नात्मनाम् अत्र भवे त्वम् एव शरणं शिवः । मरुभूमाव् अध्वगानां विटपीव प्रियायुतः
॥५५॥उच्चावचानां भूतानां सर्वथा पापनोदनः । सस्यानां घनवत् कृष्ण त्वम् अवग्रहशोषिणाम्
॥५६॥वैकुण्ठदुर्गनिःश्रेणिस् त्वं पीयूषतरङ्गिणी । अधोगतानां तप्तानां शरणं भव गौतमि
॥५७॥ब्रह्मोवाच:
ततस् तुष्टावदद् वाक्यं गौतमं वृद्धया युतम् । शरणागतदीनार्तं शरण्या गौतमी मुदा
॥५८॥गौतम्य् उवाच:
अभिषिञ्चस्व भार्यां त्वं मज्जलैर् मन्त्रसंयुतैः । कलशैर् उपचारैश् च ततः पत्नी तव प्रिया
॥५९॥सुरूपा चारुसर्वाङ्गी सुभगा चारुलोचना । सर्वलक्षणसम्पूर्णा रम्यरूपम् अवाप्स्यति
॥६०॥रूपवत्या पुनस् त्वं वै भार्यया चाभिषेचितः । सर्वलक्षणसम्पूर्णः कान्तं रूपम् अवाप्स्यसि
॥६१॥ब्रह्मोवाच:
तथेति गाङ्गवचनाद् यथोक्तं तौ च चक्रतुः । सुरूपताम् उभौ प्राप्तौ गौतम्याश् च प्रसादतः
॥६२॥अभिषेकोदकं यच् च सा नदी समजायत । तस्या नाम्ना तु विख्याता वृद्धाया मुनिसत्तम
॥६३॥वृद्धा नदीति विख्याता गौतमोऽपि तथोच्यते । वृद्धगौतम इत्य् उक्त ऋषिभिः समवासिभिः । वृद्धा तु गौतमीं प्राह गङ्गां प्रत्यक्षरूपिणीम्
॥६४॥वृद्धोवाच:
मन्नाम्नीयं नदी देवि वृद्धा चेत्य् अभिधीयताम् । त्वया च सङ्गमस् तस्यास् तस्यास् तीर्थम् अनुत्तमम्
॥६५॥रूपसौभाग्यसम्पत्तिपुत्रपौत्रप्रवर्धनम् । आयुरारोग्यकल्याणं जयप्रीतिविवर्धनम् । स्नानदानादिहोमैश् च पितॄणां पावनं परम्
॥६६॥ब्रह्मोवाच:
अस्त्व् इत्य् आह च तां गङ्गा सुवृद्धां गौतमप्रियाम् । गौतमस्थापितं लिङ्गं वृद्धानाम्नैव कीर्तितम्
॥६७॥तत्रैव च मुदं प्राप्तो वृद्धया मुनिसत्तमः । तत्र स्नानं च दानं च सर्वाभीष्टप्रदायकम्
॥६८॥ततः प्रभृति तत् तीर्थं वृद्धासङ्गमम् उच्यते
॥६९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).