मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २३२

3
ब्रह्मपुराणम् · 232

अध्यायः २३२

व्यास उवाच:

सर्वेषाम् एव भूतानां त्रिविधः प्रतिसञ्चरः । नैमित्तिकः प्राकृतिकस् तथैवात्यन्तिको मतः

॥१॥

ब्राह्मो नैमित्तिकस् तेषां कल्पान्ते प्रतिसञ्चरः । आत्यन्तिको वै मोक्षश् च प्राकृतो द्विपरार्धिकः

॥२॥

मुनय ऊचुः:

परार्धसङ्ख्यां भगवंस् त्वम् आचक्ष्व यथोदिताम् । द्विगुणीकृतयज्ज्ञेयः प्राकृतः प्रतिसञ्चरः

॥३॥

व्यास उवाच:

स्थानात् स्थानं दशगुणम् एकैकं गण्यते द्विजाः । ततोऽष्टादशमे भागे परार्धम् अभिधीयते

॥४॥

परार्धं द्विगुणं यत् तु प्राकृतः स लयो द्विजाः । तदाव्यक्तेऽखिलं व्यक्तं सहेतौ लयम् एति वै

॥५॥

निमेषो मानुषो योऽयं मात्रामात्रप्रमाणतः । तैः पञ्चदशभिः काष्ठा त्रिंशत् काष्ठास् तथा कला

॥६॥

नाडिका तु प्रमाणेन कला च दश पञ्च च । उन्मानेनाम्भसः सा तु पलान्य् अर्धत्रयोदश

॥७॥

हेममाषैः कृतच्छिद्रा चतुर्भिश् चतुरङ्गुलैः । मागधेन प्रमाणेन जलप्रस्थस् तु स स्मृतः

॥८॥

नाडिकाभ्याम् अथ द्वाभ्यां मुहूर्तो द्विजसत्तमाः । अहोरात्रं मुहूर्तास् तु त्रिंशन् मासो दिनैस् तथा

॥९॥

मासैर् द्वादशभिर् वर्षम् अहोरात्रं तु तद् दिवि । त्रिभिर् वर्षशतैर् वर्षं षष्ट्या चैवासुरद्विषाम्

॥१०॥

तैस् तु द्वादशसाहस्रैश् चतुर्युगम् उदाहृतम् । चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम्

॥११॥

स कल्पस् तत्र मनवश् चतुर्दश द्विजोत्तमाः । तदन्ते चैव भो विप्रा ब्रह्मनैमित्तिको लयः

॥१२॥

तस्य स्वरूपम् अत्युग्रं द्विजेन्द्रा गदतो मम । शृणुध्वं प्राकृतं भूयस् ततो वक्ष्याम्य् अहं लयम्

॥१३॥

चतुर्युगसहस्रान्ते क्षीणप्राये महीतले । अनावृष्टिर् अतीवोग्रा जायते शतवार्षिकी

॥१४॥

ततो यान्य् अल्पसाराणि तानि सत्त्वान्य् अनेकशः । क्षयं यान्ति मुनिश्रेष्ठाः पार्थिवान्य् अतिपीडनात्

॥१५॥

ततः स भगवान् कृष्णो रुद्ररूपी तथाव्ययः । क्षयाय यतते कर्तुम् आत्मस्थाः सकलाः प्रजाः

॥१६॥

ततः स भगवान् विष्णुर् भानोः सप्तसु रश्मिषु । स्थितः पिबत्य् अशेषाणि जलानि मुनिसत्तमाः

॥१७॥

पीत्वाम्भांसि समस्तानि प्राणिभूतगतानि वै । शोषं नयति भो विप्राः समस्तं पृथिवीतलम्

॥१८॥

समुद्रान् सरितः शैलाञ् शैलप्रस्रवणानि च । पातालेषु च यत् तोयं तत् सर्वं नयति क्षयम्

॥१९॥

ततस् तस्याप्य् अभावेन तोयाहारोपबृंहिताः । सहस्ररश्मयः सप्त जायन्ते तत्र भास्कराः

॥२०॥

अधश् चोर्ध्वं च ते दीप्तास् ततः सप्त दिवाकराः । दहन्त्य् अशेषं त्रैलोक्यं सपातालतलं द्विजाः

॥२१॥

दह्यमानं तु तैर् दीप्तैस् त्रैलोक्यं दीप्तभास्करैः । साद्रिनगार्णवाभोगं निःस्नेहम् अभिजायते

॥२२॥

ततो निर्दग्धवृक्षाम्बु त्रैलोक्यम् अखिलं द्विजाः । भवत्य् एषा च वसुधा कूर्मपृष्ठोपमाकृतिः

॥२३॥

ततः कालाग्निरुद्रोऽसौ भूतसर्गहरो हरः । शेषाहिश्वाससन्तापात् पातालानि दहत्य् अधः

॥२४॥

पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् । भूमिम् अभ्येत्य सकलं दग्ध्वा तु वसुधातलम्

॥२५॥

भुवो लोकं ततः सर्वं स्वर्गलोकं च दारुणः । ज्वालामालामहावर्तस् तत्रैव परिवर्तते

॥२६॥

अम्बरीषम् इवाभाति त्रैलोक्यम् अखिलं तदा । ज्वालावर्तपरीवारम् उपक्षीणबलास् ततः

॥२७॥

ततस् तापपरीतास् तु लोकद्वयनिवासिनः । हृतावकाशा गच्छन्ति महर्लोकं द्विजास् तदा

॥२८॥

तस्माद् अपि महातापतप्ता लोकास् ततः परम् । गच्छन्ति जनलोकं ते दशावृत्या परैषिणः

॥२९॥

ततो दग्ध्वा जगत् सर्वं रुद्ररूपी जनार्दनः । मुखनिःश्वासजान् मेघान् करोति मुनिसत्तमाः

॥३०॥

ततो गजकुलप्रख्यास् तडिद्वन्तो निनादिनः । उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः

॥३१॥

केचिद् अञ्जनसङ्काशाः केचित् कुमुदसन्निभाः । धूमवर्णा घनाः केचित् केचित् पीताः पयोधराः

॥३२॥

केचिद् धरिद्रावर्णाभा लाक्षारसनिभास् तथा । केचिद् वैदूर्यसङ्काशा इन्द्रनीलनिभास् तथा

॥३३॥

शङ्खकुन्दनिभाश् चान्ये जातीकुन्दनिभास् तथा । इन्द्रगोपनिभाः केचिन् मनःशिलानिभास् तथा

॥३४॥

पद्मपत्त्रनिभाः केचिद् उत्तिष्ठन्ति घनाघनाः । केचित् पुरवराकाराः केचित् पर्वतसन्निभाः

॥३५॥

कूटागारनिभाश् चान्ये केचित् स्थलनिभा घनाः । महाकाया महारावा पूरयन्ति नभस्तलम्

॥३६॥

वर्षन्तस् ते महासारास् तम् अग्निम् अतिभैरवम् । शमयन्त्य् अखिलं विप्रास् त्रैलोक्यान्तरविस्तृतम्

॥३७॥

नष्टे चाग्नौ शतं तेऽपि वर्षाणाम् अधिकं घनाः । प्लावयन्तो जगत् सर्वं वर्षन्ति मुनिसत्तमाः

॥३८॥

धाराभिर् अक्षमात्राभिः प्लावयित्वाखिलां भुवम् । भुवो लोकं तथैवोर्ध्वं प्लावयन्ति दिवं द्विजाः

॥३९॥

अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे । वर्षन्ति ते महामेघा वर्षाणाम् अधिकं शतम्

॥४०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).