अध्यायः ११३
ब्रह्मोवाच:
इदम् अप्य् अपरं तीर्थं देवानाम् अपि दुर्लभम् । ब्रह्मतीर्थम् इति ख्यातं भुक्तिमुक्तिप्रदं नृणाम्
॥१॥स्थितेषु देवसैन्येषु प्रविष्टेषु रसातलम् । दैत्येषु च मुनिश्रेष्ठ तथा मातृषु तान् अनु
॥२॥मदीयं पञ्चमं वक्त्रं गर्दभाकृति भीषणम् । तद् वक्त्रं देवसैन्येषु मयि तिष्ठत्य् उवाच ह
॥३॥हे दैत्याः किं पलायन्ते न भयं वोऽस्तु सत्वरम् । आगच्छन्तु सुरान् सर्वान् भक्षयिष्ये क्षणाद् इति
॥४॥निवारयन्तं माम् एवं भक्षणायोद्यतं तथा । तं दृष्ट्वा विबुधाः सर्वे वित्रस्ता विष्णुम् अब्रुवन्
॥५॥त्राहि विष्णो जगन्नाथ ब्रह्मणोऽस्य मुखं लुन । चक्रधृग् विबुधान् आह च्छेद्मि चक्रेण वै शिरः
॥६॥किं तु तच् छिन्नम् एवेदं संहरेत् सचराचरम् । मन्त्रं ब्रूमोऽत्र विबुधाः श्रूयतां सर्वम् एव हि
॥७॥त्रिनेत्रः कशिरश् छेत्ता स च धत्ते न संशयः । मया च शम्भुः सर्वैश् च स्तुतः प्रोक्तस् तथैव च
॥८॥यागः क्षणी दृष्टफलेऽसमर्थः । स नैव कर्तुः फलतीति मत्वा । फलस्य दाने प्रतिभूर् जटीति । निश्चित्य लोकः प्रतिकर्म यातः
॥९॥ततः सुरेशः सन्तुष्टो देवानां कार्यसिद्धये । लोकानाम् उपकारार्थं तथेत्य् आह सुरान् प्रति
॥१०॥तद्वक्त्रं पापरूपं यद् भीषणं लोमहर्षणम् । निकृत्य नखशस्त्रैश् च क्व स्थाप्यं चेत्य् अथाब्रवीत्
॥११॥तत्रेला विबुधान् आह नाहं वोढुं शिरः क्षमा । रसातलम् अथो यास्ये उदधिश् चाप्य् अथाब्रवीत्
॥१२॥शोषं यास्ये क्षणाद् एव पुनश् चोचुः शिवं सुराः । त्वयैवैतद् ब्रह्मशिरो धार्यं लोकानुकम्पया
॥१३॥अच्छेदे जगतां नाशश् छेदे दोषश् च तादृशः । एवं विमृश्य सोमेशो दधार कशिरस् तदा
॥१४॥तद् दृष्ट्वा दुष्करं कर्म गौतमीं प्राप्य पावनीम् । अस्तुवञ् जगताम् ईशं प्रणयाद् भक्तितः सुराः
॥१५॥देवेष्व् अमित्रं कशिरोऽतिभीमं । तान् भक्षणायोपगतं निकृत्य । नखाग्रसूच्या शकलेन्दुमौलिस् । त्यागेऽपि दोषात् कृपयानुधत्ते
॥१६॥तत्र ते विबुधाः सर्वे स्थिता ये ब्रह्मणोऽन्तिके । तुष्टुवुर् विबुधेशानं कर्म दृष्ट्वातिदैवतम्
॥१७॥ततः प्रभृति तत् तीर्थं ब्रह्मतीर्थम् इति श्रुतम् । अद्यापि ब्रह्मणो रूपं चतुर्मुखम् अवस्थितम्
॥१८॥शिरोमात्रं तु यः पश्येत् स गच्छेद् ब्रह्मणः पदम् । यत्र स्थित्वा स्वयं रुद्रो लूनवान् ब्रह्मणः शिरः
॥१९॥रुद्रतीर्थं तद् एव स्यात् तत्र साक्षाद् दिवाकरः । देवानां च स्वरूपेण स्थितो यस्मात् तद् उत्तमम्
॥२०॥सौर्यं तीर्थं तद् आख्यातं सर्वक्रतुफलप्रदम् । तत्र स्नात्वा रविं दृष्ट्वा पुनर्जन्म न विद्यते
॥२१॥महादेवेन यच् छिन्नं ब्रह्मणः पञ्चमं शिरः । क्षेत्रेऽविमुक्ते संस्थाप्य देवतानां हितं कृतम्
॥२२॥ब्रह्मतीर्थे शिरोमात्रं यो दृष्ट्वा गौतमीतटे । क्षेत्रेऽविमुक्ते तस्यैव स्थापितं योऽनुपश्यति । कपालं ब्रह्मणः पुण्यं ब्रह्महा पूततां व्रजेत्
॥२३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).