मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ४९

3
ब्रह्मपुराणम् · 49

अध्यायः ४९

वासुदेव नमस् तेऽस्तु नमस् ते मोक्षकारण । त्राहि मां सर्वलोकेश जन्मसंसारसागरात्

॥१॥

निर्मलाम्बरसङ्काश नमस् ते पुरुषोत्तम । सङ्कर्षण नमस् तेऽस्तु त्राहि मां धरणीधर

॥२॥

नमस् ते हेमगर्भाभ नमस् ते मकरध्वज । रतिकान्त नमस् तेऽस्तु त्राहि मां संवरान्तक

॥३॥

नमस् तेऽञ्जनसङ्काश नमस् ते भक्तवत्सल । अनिरुद्ध नमस् तेऽस्तु त्राहि मां वरदो भव

॥४॥

नमस् ते विबुधावास नमस् ते विबुधप्रिय । नारायण नमस् तेऽस्तु त्राहि मां शरणागतम्

॥५॥

नमस् ते बलिनां श्रेष्ठ नमस् ते लाङ्गलायुध । चतुर्मुख जगद्धाम त्राहि मां प्रपितामह

॥६॥

नमस् ते नीलमेघाभ नमस् ते त्रिदशार्चित । त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे

॥७॥

प्रलयानलसङ्काश नमस् ते दितिजान्तक । नरसिंह महावीर्य त्राहि मां दीप्तलोचन

॥८॥

यथा रसातलाद् उर्वी त्वया दंष्ट्रोद्धृता पुरा । तथा महावराहस् त्वं त्राहि मां दुःखसागरात्

॥९॥

तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया । तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः

॥१०॥

अङ्गानि तव देवेश गरुत्माद्यास् तथा प्रभो । दिक्पालाः सायुधाश् चैव केशवाद्यास् तथाच्युत

॥११॥

ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः । तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन

॥१२॥

मयार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः । प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम्

॥१३॥

भेदास् ते कीर्तिता ये तु हरे सङ्कर्षणादयः । तव पूजार्थसम्भूतास् ततस् त्वयि समाश्रिताः

॥१४॥

न भेदस् तव देवेश विद्यते परमार्थतः । विविधं तव यद् रूपम् उक्तं तद् उपचारतः

॥१५॥

अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः । एकस् त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः

॥१६॥

परमं तव यद् रूपं भावाभावविवर्जितम् । निर्लेपं निर्गुणं श्रेष्ठं कूटस्थम् अचलं ध्रुवम्

॥१७॥

सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् । तद् देवाश् च न जानन्ति कथं जानाम्य् अहं प्रभो

॥१८॥

अपरं तव यद् रूपं पीतवस्त्रं चतुर्भुजम् । शङ्खचक्रगदापाणिमुकुटाङ्गदधारिणम्

॥१९॥

श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् । तद् अर्चयन्ति विबुधा ये चान्ये तव संश्रयाः

॥२०॥

देवदेव सुरश्रेष्ठ भक्तानाम् अभयप्रद । त्राहि मां पद्मपत्त्राक्ष मग्नं विषयसागरे

॥२१॥

नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे । त्वाम् ऋते कमलाकान्त प्रसीद मधुसूदन

॥२२॥

जराव्याधिशतैर् युक्तो नानादुःखैर् निपीडितः । हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः

॥२३॥

पतितोऽहं महारौद्रे घोरे संसारसागरे । विषमोदकदुष्पारे रागद्वेषझषाकुले

॥२४॥

इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसङ्कुले । निराश्रये निरालम्बे निःसारेऽत्यन्तचञ्चले

॥२५॥

मायया मोहितस् तत्र भ्रमामि सुचिरं प्रभो । नानाजातिसहस्रेषु जायमानः पुनः पुनः

॥२६॥

मया जन्मान्य् अनेकानि सहस्राण्य् अयुतानि च । विविधान्य् अनुभूतानि संसारेऽस्मिञ् जनार्दन

॥२७॥

वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च । इतिहासपुराणानि तथा शिल्पान्य् अनेकशः

॥२८॥

असन्तोषाश् च सन्तोषाः सञ्चयापचया व्ययाः । मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः

॥२९॥

भार्यारिमित्रबन्धूनां वियोगाः सङ्गमास् तथा । पितरो विविधा दृष्टा मातरश् च तथा मया

॥३०॥

दुःखानि चानुभूतानि यानि सौख्यान्य् अनेकशः । प्राप्ताश् च बान्धवाः पुत्रा भ्रातरो ज्ञातयस् तथा

॥३१॥

मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले । गर्भवासे महादुःखम् अनुभूतं तथा प्रभो

॥३२॥

दुःखानि यान्य् अनेकानि बाल्ययौवनगोचरे । वार्धके च हृषीकेश तानि प्राप्तानि वै मया

॥३३॥

मरणे यानि दुःखानि यममार्गे यमालये । मया तान्य् अनुभूतानि नरके यातनास् तथा

॥३४॥

कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् । महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम्

॥३५॥

द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु । धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम्

॥३६॥

नृपाणां नृपभृत्यानां तथान्येषां च देहिनाम् । गृहेषु तेषाम् उत्पन्नो देव चाहं पुनः पुनः

॥३७॥

गतोऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् । दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः

॥३८॥

हतो मया हताश् चान्ये घातितो घातितास् तथा । दत्तं ममान्यैर् अन्येभ्यो मया दत्तम् अनेकशः

॥३९॥

पितृमातृसुहृद्भ्रातृकलत्राणां कृतेन च । धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम्

॥४०॥

उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन । देवतिर्यङ्मनुष्येषु स्थावरेषु चरेषु च

॥४१॥

न विद्यते तथा स्थानं यत्राहं न गतः प्रभो । कदा मे नरके वासः कदा स्वर्गे जगत्पते

॥४२॥

कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च । जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना

॥४३॥

याति चोर्ध्वम् अधश् चैव कदा मध्ये च तिष्ठति । तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः

॥४४॥

अधश् चोर्ध्वं तथा मध्ये भ्रमन् गच्छामि योगतः । एवं संसारचक्रेऽस्मिन् भैरवे रोमहर्षणे

॥४५॥

भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् । न जाने किं करोम्य् अद्य हरे व्याकुलितेन्द्रियः

॥४६॥

शोकतृष्णाभिभूतोऽहं कान्दिशीको विचेतनः । इदानीं त्वाम् अहं देव विह्वलः शरणं गतः

॥४७॥

त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे । कृपां कुरु जगन्नाथ भक्तं मां यदि मन्यसे

॥४८॥

त्वदृते नास्ति मे बन्धुर् योऽसौ चिन्तां करिष्यति । देव त्वां नाथम् आसाद्य न भयं मेऽस्ति कुत्रचित्

॥४९॥

जीविते मरणे चैव योगक्षेमेऽथवा प्रभो । ये तु त्वां विधिवद् देव नार्चयन्ति नराधमाः

॥५०॥

सुगतिस् तु कथं तेषां भवेत् संसारबन्धनात् । किं तेषां कुलशीलेन विद्यया जीवितेन च

॥५१॥

येषां न जायते भक्तिर् जगद्धातरि केशवे । प्रकृतिं त्व् आसुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः

॥५२॥

पतन्ति नरके घोरे जायमानाः पुनः पुनः । न तेषां निष्कृतिस् तस्माद् विद्यते नरकार्णवात्

॥५३॥

ये दूषयन्ति दुर्वृत्तास् त्वां देव पुरुषाधमाः । यत्र यत्र भवेज् जन्म मम कर्मनिबन्धनात्

॥५४॥

तत्र तत्र हरे भक्तिस् त्वयि चास्तु दृढा सदा । आराध्य त्वां सुरा दैत्या नराश् चान्येऽपि संयताः

॥५५॥

अवापुः परमां सिद्धिं कस् त्वां देव न पूजयेत् । न शक्नुवन्ति ब्रह्माद्याः स्तोतुं त्वां त्रिदशा हरे

॥५६॥

कथं मानुषबुद्ध्याहं स्तौमि त्वां प्रकृतेः परम् । तथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो

॥५७॥

तत् क्षमस्वापराधं मे यदि तेऽस्ति दया मयि । कृतापराधेऽपि हरे क्षमां कुर्वन्ति साधवः

॥५८॥

तस्मात् प्रसीद देवेश भक्तस्नेहं समाश्रितः । स्तुतोऽसि यन् मया देव भक्तिभावेन चेतसा । साङ्गं भवतु तत् सर्वं वासुदेव नमोऽस्तु ते

॥५९॥

ब्रह्मोवाच:

इत्थं स्तुतस् तदा तेन प्रसन्नो गरुडध्वजः । ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम्

॥६०॥

यः सम्पूज्य जगन्नाथं प्रत्यहं स्तौति मानवः । स्तोत्रेणानेन मतिमान् स मोक्षं लभते ध्रुवम्

॥६१॥

त्रिसन्ध्यं यो जपेद् विद्वान् इदं स्तोत्रवरं शुचिः । धर्मं चार्थं च कामं च मोक्षं च लभते नरः

॥६२॥

यः पठेच् छृणुयाद् वापि श्रावयेद् वा समाहितः । स लोकं शाश्वतं विष्णोर् याति निर्धूतकल्मषः

॥६३॥

धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् । गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित्

॥६४॥

न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने । न दुष्टमतये दद्यान् नाभक्ताय कदाचन

॥६५॥

दातव्यं भक्तियुक्ताय गुणशीलान्विताय च । विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने

॥६६॥

इदं समस्ताघविनाशहेतुः । कारुण्यसञ्ज्ञं सुखमोक्षदं च । अशेषवाञ्छाफलदं वरिष्ठं । स्तोत्रं मयोक्तं पुरुषोत्तमस्य

॥६७॥

ये तं सुसूक्ष्मं विमला मुरारिं । ध्यायन्ति नित्यं पुरुषं पुराणम् । ते मुक्तिभाजः प्रविशन्ति विष्णुं । मन्त्रैर् यथाज्यं हुतम् अध्वराग्नौ

॥६८॥

एकः स देवो भवदुःखहन्ता । परः परेषां न ततोऽस्ति चान्यत् । द्रष्टा स पाता स तु नाशकर्ता । विष्णुः समस्ताखिलसारभूतः

॥६९॥

किं विद्यया किं स्वगुणैश् च तेषां । यज्ञैश् च दानैश् च तपोभिर् उग्रैः । येषां न भक्तिर् भवतीह कृष्णे । जगद्गुरौ मोक्षसुखप्रदे च

॥७०॥

लोके स धन्यः स शुचिः स विद्वान् । मखैस् तपोभिः स गुणैर् वरिष्ठः । ज्ञाता स दाता स तु सत्यवक्ता । यस्यास्ति भक्तिः पुरुषोत्तमाख्ये

॥७१॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).