अध्यायः ९२
ब्रह्मोवाच:
पापप्रणाशनं नाम तीर्थं पापभयापहम् । नामधेयं प्रवक्ष्यामि शृणु नारद यत्नतः
॥१॥धृतव्रत इति ख्यातो ब्राह्मणो लोकविश्रुतः । तस्य भार्या मही नाम तरुणी लोकसुन्दरी
॥२॥तस्य पुत्रः सूर्यनिभः सनाज्जात इति श्रुतः । धृतव्रतं तथाकर्षन् मृत्युः कालेरितो मुने
॥३॥ततः सा बालविधवा बालपुत्रा सुरूपिणी । त्रातारं नैव पश्यन्ती गालवाश्रमम् अभ्यगात्
॥४॥तस्मै पुत्रं निवेद्याथ स्वैरिणी पापमोहिता । सा बभ्राम बहून् देशान् पुंस्कामा कामचारिणी
॥५॥तत्पुत्रो गालवगृहे वेदवेदाङ्गपारगः । जातोऽपि मातृदोषेण वेश्येरितमतिस् त्व् अभूत्
॥६॥जनस्थानम् इति ख्यातं नानाजातिसमावृतम् । तत्रासौ पण्यवेषेण अध्यास्ते च मही तथा
॥७॥तत्सुतोऽपि बहून् देशान् परिबभ्राम कामुकः । सोऽपि कालवशात् तत्र जनस्थानेऽवसत् तदा
॥८॥स्त्रियम् आकाङ्क्षते वेश्यां धृतव्रतसुतो द्विजः । मही चापि धनं दातॄन् पुरुषान् समपेक्षते
॥९॥मेने न पुत्रम् आत्मीयं स चापि न तु मातरम् । तयोः समागमश् चासीद् विधिना मातृपुत्रयोः
॥१०॥एवं बहुतिथे काले पुत्रे मातरि गच्छति । तयोः परस्परं ज्ञानं नैवासीन् मातृपुत्रयोः
॥११॥एवं प्रवर्तमानस्य पितृधर्मेण सन्मतिः । आसीत् तस्याप्य् असद्वृत्तेः शृणु नारद चित्रवत्
॥१२॥स्वैरस्थित्या वर्तमानो नेदं स परिहातवान् । ब्राह्मीं सन्ध्याम् अनुष्ठाय तद् ऊर्ध्वं तु धनार्जनम्
॥१३॥विद्याबलेन वित्तानि बहून्य् आर्ज्य ददात्य् असौ । तथा स प्रातर् उत्थाय गङ्गां गत्वा यथाविधि
॥१४॥शौचादि स्नानसन्ध्यादि सर्वं कार्यं यथाक्रमम् । कृत्वा तु ब्राह्मणान् नत्वा ततोऽभ्येति स्वकर्मसु
॥१५॥प्रातःकाले गौतमीं तु यदा याति विरूपवान् । कुष्ठसर्वाङ्गशिथिलः पूयशोणितनिःस्रवः
॥१६॥स्नात्वा तु गौतमीं गङ्गां यदा याति सुरूपधृक् । शान्तः सूर्याग्निसदृशो मूर्तिमान् इव भास्करः
॥१७॥एतद् रूपद्वयं स्वस्य नैव पश्यति स द्विजः । गालवो यत्र भगवांस् तपोज्ञानपरायणः
॥१८॥आश्रित्य गौतमीं देवीं आस्ते च मुनिभिर् वृतः । ब्राह्मणोऽपि च तत्रैव नित्यं तीर्थं समेत्य च
॥१९॥गालवं च नमस्याथ ततो याति स्वमन्दिरम् । गङ्गायाः सेवनात् पूर्वं सनाज्जातस्य यद् वपुः
॥२०॥स्नानसन्ध्योत्तरे काले पुनर् यद् अपि तद् द्विजे । उभयं तस्य तद् रूपं गालवो नित्यम् एव च
॥२१॥दृष्ट्वा सविस्मयो मेने किञ्चिद् अस्त्य् अत्र कारणम् । एवं सविस्मयो भूत्वा गालवः प्राह तं द्विजम्
॥२२॥गच्छन्तं तु नमस्याथ सनाज्जातं गुरुर् गृहम् । आहूय यत्नतो धीमान् कृपया विस्मयेन च
॥२३॥गालव उवाच:
को भवान् क्व च गन्तासि किं करोषि क्व भोक्ष्यसि । किन्नामा त्वं क्व शय्या ते का ते भार्या वदस्व मे
॥२४॥ब्रह्मोवाच:
गालवस्य वचः श्रुत्वा ब्राह्मणोऽप्य् आह तं मुनिम्
॥२५॥ब्राह्मण उवाच:
श्वः कथ्यते मया सर्वं ज्ञात्वा कार्यविनिर्णयम्
॥२६॥ब्रह्मोवाच:
एवम् उक्त्वा गालवं तं सनाज्जातो गृहं ययौ । भुक्त्वा रात्रौ तया सम्यक् शय्याम् आसाद्य बन्धकीम् । उवाच चकितः स्मृत्वा गालवस्य तु यद् वचः
॥२७॥ब्राह्मण उवाच:
त्वं तु सर्वगुणोपेता बन्धक्य् अपि पतिव्रता । आवयोः सदृशी प्रीतिर् यावज्जीवं प्रवर्तताम्
॥२८॥तथापि किञ्चित् पृच्छामि किन्नाम्नी त्वं क्व वा कुलम् । किं नु स्थानं क्व वा बन्धुर् मम सर्वं निवेद्यताम्
॥२९॥बन्धक्य् उवाच:
धृतव्रत इति ख्यातो ब्राह्मणो दीक्षितः शुचिः । तस्य भार्या मही चाहं मत्पुत्रो गालवाश्रमे
॥३०॥उत्सृष्टो मतिमान् बालः सनाज्जात इति श्रुतः । अहं तु पूर्वदोषेण त्यक्त्वा धर्मं कुलागतम् । स्वैरिणी त्व् इह वर्तेऽहं विद्धि मां ब्राह्मणीं द्विज
॥३१॥ब्रह्मोवाच:
तस्यास् तद् वचनं श्रुत्वा मर्मविद्ध इवाभवत् । पपात सहसा भूमौ वेश्या तं वाक्यम् अब्रवीत्
॥३२॥वेश्योवाच:
किं तु जातं द्विजश्रेष्ठ क्व च प्रीतिर् गता तव । किं तु वाक्यं मया चोक्तं तव चित्तविरोधकृत्
॥३३॥आत्मानम् आत्मनाश्वास्य ब्राह्मणो वाक्यम् अब्रवीत्
॥३४॥ब्राह्मण उवाच:
धृतव्रतः पिता विप्रस् तत्पुत्रोऽहं सनाद्यतः । माता मही मम इयं मम दैवाद् उपागता
॥३५॥ब्रह्मोवाच:
एतच् छ्रुत्वा तस्य वाक्यं साप्य् अभूद् अतिदुःखिता । तयोस् तु शोचतोः पश्चात् प्रभाते विमले रवौ । गालवं मुनिशार्दूलं गत्वा विप्रो न्यवेदयत्
॥३६॥ब्राह्मण उवाच:
धृतव्रतसुतो ब्रह्मंस् त्वया पूर्वं तु पालितः । उपनीतस् त्वया चैव मही माता मम प्रभो
॥३७॥किं करोमि च किं कृत्वा निष्कृतिर् मम वै भवेत्
॥३८॥ब्रह्मोवाच:
तद् विप्रवचनं श्रुत्वा गालवः प्राह मा शुचः । तवेदं द्विविधं रूपं नित्यं पश्याम्य् अपूर्ववत्
॥३९॥ततः पृष्टोऽसि वृत्तान्तं श्रुतं ज्ञातं मया यथा । यत् कृत्यं तव तत् सर्वं गङ्गायां प्रत्यगात् क्षयम्
॥४०॥अस्य तीर्थस्य माहात्म्याद् अस्या देव्याः प्रसादतः । पूतोऽसि प्रत्यहं वत्स नात्र कार्या विचारणा
॥४१॥प्रभाते तव रूपाणि सपापानि त्व् अहर्निशम् । पश्येऽहं पुनर् अप्य् एव रूपं तव गुणोत्तमम्
॥४२॥आगच्छन्तं त्व् आगोयुक्तं गच्छन्तं त्वाम् अनागसम् । पश्यामि नित्यं तस्मात् त्वं पूतो देव्या कृतोऽधुना
॥४३॥तस्मान् न कार्यं ते किञ्चिद् अवशिष्टं भविष्यति । इयं च माता ते विप्र ज्ञाता या चैव बन्धकी
॥४४॥पश्चात्तापं गतात्यन्तं निवृत्ता त्व् अथ पातकात् । भूतानां विषये प्रीतिर् वत्स स्वाभाविकी यतः
॥४५॥सत्सङ्गतो महापुण्यान् निवृत्तिर् दैवतो भवेत् । अत्यर्थम् अनुतप्तेयं प्रागाचरितपुण्यतः
॥४६॥स्नानं कृत्वा चात्र तीर्थे ततः पूता भविष्यति । तथा तौ चक्रतुर् उभौ मातापुत्रौ च नारद
॥४७॥स्नानाद् बभूवतुर् उभौ गतपापाव् असंशयम् । ततः प्रभृति तत् तीर्थं धौतपापं प्रचक्षते
॥४८॥पापप्रणाशनं नाम गालवं चेति विश्रुतम् । महापातकम् अल्पं वा तथा यच् चोपपातकम् । तत् सर्वं नाशयेद् एतद् धौतपापं सुपुण्यदम्
॥४९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).