अध्यायः २१९
मुनय ऊचुः:
परलोकगतानां तु स्वकर्मस्थानवासिनाम् । तेषां श्राद्धं कथं ज्ञेयं पुत्रैश् चान्यैश् च बन्धुभिः
॥१॥व्यास उवाच:
नमस्कृत्य जगन्नाथं वाराहं लोकभावनम् । शृणुध्वं सम्प्रवक्ष्यामि श्राद्धकल्पं यथोदितम्
॥२॥पुरा कोकाजले मग्नान् पितॄन् उद्धृतवान् विभुः । श्राद्धं कृत्वा तदा देवो यथा तत्र द्विजोत्तमाः
॥३॥मुनय ऊचुः:
किमर्थं ते तु कोकायां निमग्नाः पितरोऽम्भसि । कथं तेनोद्धृतास् ते वै वाराहेण द्विजोत्तम
॥४॥तस्मिन् कोकामुखे तीर्थे भुक्तिमुक्तिफलप्रदे । श्रोतुम् इच्छामहे ब्रूहि परं कौतूहलं हि नः
॥५॥व्यास उवाच:
त्रेताद्वापरयोः सन्धौ पितरो दिव्यमानुषाः । पुरा मेरुगिरेः पृष्ठे विश्वैर् देवैः सह स्थिताः
॥६॥तेषां समुपविष्टानां पितॄणां सोमसम्भवा । कन्या कान्तिमती दिव्या पुरतः प्राञ्जलिः स्थिता । ताम् ऊचुः पितरो दिव्या ये तत्रासन् समागताः
॥७॥पितर ऊचुः:
कासि भद्रे प्रभुः को वा भवत्या वक्तुम् अर्हसि
॥८॥व्यास उवाच:
सा प्रोवाच पितॄन् देवान् कला चान्द्रमसीति ह । प्रभुत्वे भवताम् एव वरयामि यदीच्छथ
॥९॥ऊर्जा नामास्ति प्रथमं स्वधा च तदनन्तरम् । भवद्भिश् चाद्यैव कृतं नाम कोकेति भावितम्
॥१०॥ते हि तस्या वचः श्रुत्वा पितरो दिव्यमानुषाः । तस्या मुखं निरीक्षन्तो न तृप्तिम् अधिजग्मिरे
॥११॥विश्वेदेवाश् च ताञ् ज्ञात्वा कन्यामुखनिरीक्षकान् । योगच्युतान् निरीक्ष्यैव विहाय त्रिदिवं गताः
॥१२॥भगवान् अपि शीतांशुर् ऊर्जां नापश्यद् आत्मजाम् । समाकुलमना दध्यौ क्व गतेति महायशाः
॥१३॥स विवेद तदा सोमः प्राप्तां पितॄंश् च कामतः । तैश् चावलोकितां हार्दात् स्वीकृतां च तपोबलात्
॥१४॥ततः क्रोधपरीतात्मा पितॄञ् शशधरो द्विजाः । शशाप निपतिष्यध्वं योगभ्रष्टा विचेतसः
॥१५॥यस्माद् अदत्तां मत्कन्यां कामयध्वं सुबालिशाः । यस्माद् धृतवती चेयं पतीन् पितृमती सती
॥१६॥स्वतन्त्रा धर्मम् उत्सृज्य तस्माद् भवतु निम्नगा । कोकेति प्रथिता लोके शिशिराद्रिसमाश्रिता
॥१७॥इत्थं शप्ताश् चन्द्रमसा पितरो दिव्यमानुषाः । योगभ्रष्टा निपतिता हिमवत्पादभूतले
॥१८॥ऊर्जा तत्रैव पतिता गिरिराजस्य विस्तृते । प्रस्थे तीर्थं समासाद्य सप्तसामुद्रम् उत्तमम्
॥१९॥कोका नाम ततो वेगान् नदी तीर्थशताकुला । प्लावयन्ती गिरेः शृङ्गं सर्पणात् तु सरित् स्मृता
॥२०॥अथ ते पितरो विप्रा योगहीना महानदीम् । ददृशुः शीतसलिलां न विदुस् तां सुलोचनाम्
॥२१॥ततस् तु गिरिराड् दृष्ट्वा पितॄंस् तांस् तु क्षुधार्दितान् । बदरीम् आदिदेशाथ धेनुं चैकां मधुस्रवाम्
॥२२॥क्षीरं मधु च तद् दिव्यं कोकाम्भो बदरीफलम् । इदं गिरिवरेणैषां पोषणाय निरूपितम्
॥२३॥तया वृत्त्या तु वसतां पितॄणां मुनिसत्तमाः । दश वर्षसहस्राणि ययुर् एकम् अहो यथा
॥२४॥एवं लोके विपितरि तथैव विगतस्वधे । दैत्या बभूवुर् बलिनो यातुधानाश् च राक्षसाः
॥२५॥ते तान् पितृगणान् दैत्या यातुधानाश् च वेगिताः । विश्वैर् देवैर् विरहितान् सर्वतः समुपाद्रवन्
॥२६॥दैतेयान् यातुधानांश् च दृष्ट्वैवापततो द्विजाः । कोकातटस्थाम् उत्तुङ्गां शिलां ते जगृहू रुषा
॥२७॥गृहीतायां शिलायां तु कोका वेगवती पितॄन् । छादयाम् आस तोयेन प्लावयन्ती हिमाचलम्
॥२८॥पितॄन् अन्तर्हितान् दृष्ट्वा दैतेया राक्षसास् तथा । विभीतकं समारुह्य निराहारास् तिरोहिताः
॥२९॥सलिलेन विषीदन्तः पितरः क्षुद्भ्रमातुराः । विषीदमानम् आत्मानं समीक्ष्य सलिलाशयाः । जगुर् जनार्दनं देवं पितरः शरणं हरिम्
॥३०॥पितर ऊचुः:
जयस्व गोविन्द जगन्निवास । जयोऽस्तु नः केशव ते प्रसादात् । जनार्दनास्मान् सलिलान्तरस्थान् । उद्धर्तुम् अर्हस्य् अनघप्रताप
॥३१॥निशाचरैर् दारुणदर्शनैः प्रभो । वरेण्य वैकुण्ठ वराह विष्णो । नारायणाशेषमहेश्वरेश । प्रयाहि भीताञ् जय पद्मनाभ
॥३२॥उपेन्द्र योगिन् मधुकैटभघ्न । विष्णो अनन्ताच्युत वासुदेव । श्रीशार्ङ्गचक्राम्बुजशङ्खपाणे । रक्षस्व देवेश्वर राक्षसेभ्यः
॥३३॥त्वं पिता जगतः शम्भो नान्यः शक्तः प्रबाधितुम् । निशाचरगणं भीमम् अतस् त्वां शरणं गताः
॥३४॥त्वन्नामसङ्कीर्तनतो निशाचरा । द्रवन्ति भूतान्य् अपयान्ति चारयः । नाशं तथा सम्प्रति यान्ति विष्णो । धर्मादि सत्यं भवतीह मुख्यम्
॥३५॥व्यास उवाच:
इत्थं स्तुतः स पितृभिर् धरणीधरस् तु । तुष्टस् तदाविष्कृतदिव्यमूर्तिः । कोकामुखे पितृगणं सलिले निमग्नं । देवो ददर्श शिरसाथ शिलां वहन्तम्
॥३६॥तं दृष्ट्वा सलिले मग्नं क्रोडरूपी जनार्दनः । भीतं पितृगणं विष्णुर् उद्धर्तुं मतिर् आदधे
॥३७॥दंष्ट्राग्रेण समाहत्य शिलां चिक्षेप शूकरः । पितॄन् आदाय च विभुर् उज्जहार शिलातलात्
॥३८॥वराहदंष्ट्रासंलग्नाः पितरः कनकोज्ज्वलाः । कोकामुखे गतभयाः कृता देवेन विष्णुना
॥३९॥उद्धृत्य च पितॄन् देवो विष्णुतीर्थे तु शूकरः । ददौ समाहितस् तेभ्यो विष्णुर् लोहार्गले जलम्
॥४०॥ततः स्वरोमसम्भूतान् कुशान् आदाय केशवः । स्वेदोद्भवांस् तिलांश् चैव चक्रे चोल्मुकम् उत्तमम्
॥४१॥ज्योतिः सूर्यप्रभं कृत्वा पात्रं तीर्थं च कामिकम् । स्थितः कोटिवटस्याधो वारि गङ्गाधरं शुचि
॥४२॥तुङ्गकूटात् समादाय यज्ञीयान् ओषधीरसान् । मधुक्षीररसान् गन्धान् पुष्पधूपानुलेपनान्
॥४३॥आदाय धेनुं सरसो रत्नान्य् आदाय चार्णवात् । दंष्ट्रयोल्लिख्य धरणीम् अभ्युक्ष्य सलिलेन च
॥४४॥घर्मोद्भवेनोपलिप्य कुशैर् उल्लिख्य तां पुनः । परिणीयोल्मुकेनैनाम् अभ्युक्ष्य च पुनः पुनः
॥४५॥कुशान् आदाय प्रागग्रांल् लोमकूपान्तरस्थितान् । ऋषीन् आहूय पप्रच्छ करिष्ये पितृतर्पणम्
॥४६॥तैर् अप्य् उक्ते कुरुष्वेति विश्वान् देवांस् ततो विभुः । आहूय मन्त्रतस् तेषां विष्टराणि ददौ प्रभुः
॥४७॥आहूय मन्त्रतस् तेषां वेदोक्तविधिना हरिः । अक्षतैर् दैवतारक्षां चक्रे चक्रगदाधरः
॥४८॥अक्षतास् तु यवौषध्यः सर्वदेवांशसम्भवाः । रक्षन्ति सर्वत्र दिशो रक्षार्थं निर्मिता हि ते
॥४९॥देवदानवदैत्येषु यक्षरक्षःसु चैव हि । नहि कश्चित् क्षयं तेषां कर्तुं शक्तश् चराचरे
॥५०॥न केनचित् कृतं यस्मात् तस्मात् ते ह्य् अक्षताः कृताः । देवानां ते हि रक्षार्थं नियुक्ता विष्णुना पुरा
॥५१॥कुशगन्धयवैः पुष्पैर् अर्घ्यं कृत्वा च शूकरः । विश्वेभ्यो देवेभ्य इति ततस् तान् पर्यपृच्छत
॥५२॥पितॄन् आवाहयिष्यामि ये दिव्या ये च मानुषाः । आवाहयस्वेति च तैर् उक्तस् त्व् आवाहयेच् छुचिः
॥५३॥श्लिष्टमूलाग्रदर्भांस् तु सतिलान् वेद वेदवित् । जानाव् आरोप्य हस्तं तु ददौ सव्येन चासनम्
॥५४॥तथैव जानुसंस्थेन करेणैकेन तान् पितॄन् । वाराहः पितृविप्राणाम् आयान्तु न इतीरयन्
॥५५॥अपहतेत्य् उवाचैव रक्षणं चापसव्यतः । कृत्वा चावाहनं चक्रे पितॄणां नामगोत्रतः
॥५६॥तत् पितरो मनोजरान् आगच्छत इतीरयन् । संवत्सरैर् इत्य् उदीर्य ततोऽर्घ्यं तेषु विन्यसेत्
॥५७॥यास् तिष्ठन्त्य् अमृता वाचो यन् मैति च पितुः पितुः । यन् मे पितामहाइत्य् एवं ददाव् अर्घ्यं पितामह
॥५८॥यन् मे प्रपितामहाइति ददौ च प्रपितामहे । कुशगन्धतिलोन्मिश्रं सपुष्पम् अपसव्यतः
॥५९॥तद्वन् मातामहेभ्यस् तु विधिं चक्रे जनार्दनः । तान् अर्च्य भूयो गन्धाद्यैर् धूपं दत्त्वा तु भक्तितः
॥६०॥आदित्या वसवो रुद्रा इत्य् उच्चार्य जगत्प्रभुः । ततश् चान्नं समादाय सर्पिस्तिलकुशाकुलम्
॥६१॥विधाय पात्रे तच् चैव पर्यपृच्छत् ततो मुनीन् । अग्नौ करिष्य इति तैः कुरुष्वेति च चोदितः
॥६२॥आहुतित्रितयं दद्यात् सोमायाग्नेर् यमाय च । ये मामकाइति च जपेद् यजुःसप्तकम् अच्युतम्
॥६३॥हुतावशिष्टं च ददौ नामगोत्रसमन्वितम् । त्रिर् आहुतिकम् एकैकं पितरं तु प्रति द्विजाः
॥६४॥अतोऽवशिष्टम् अन्नाद्यं पिण्डपात्रे तु निक्षिपेत् । ततोऽन्नं सरसं स्वादु ददौ पायसपूर्वकम्
॥६५॥प्रत्यग्रम् एकदा स्विन्नम् अपर्युषितम् उत्तमम् । अल्पशाकं बहुफलं षड्रसम् अमृतोपमम्
॥६६॥यद् ब्राह्मणेषु प्रददौ पिण्डपात्रे पितॄंस् तथा । वेदपूर्वं पितृस्वन्नम् आज्यप्लुतं मधूक्षितम्
॥६७॥मन्त्रितं पृथिवीत्य् एवं मधुवातातृचं जगौ । भुञ्जानेषु तु विप्रेषु जपन् वै मन्त्रपञ्चकम्
॥६८॥यत् ते प्रकारम् आरभ्य नाधिकं ते ततो जगौ । त्रिमधु त्रिसुपर्णं च बृहदारण्यकं तथा
॥६९॥जजाप वैषां जाप्यं तु सूक्तं सौरं सपौरुषम् । भुक्तवत्सु च विप्रेषु पृष्ट्वा तृप्ता स्थ इत्य् उत
॥७०॥तृप्ताः स्मेति सकृत् तोयं ददौ मौनविमोचनम् । पिण्डपात्रं समादाय च्छायायै प्रददौ ततः
॥७१॥सा तद् अन्नं द्विधा कृत्वा त्रिधैकैकम् अथाकरोत् । वाराहो भूम् अथोल्लिख्य समाच्छाद्य कुशैर् अपि
॥७२॥दक्षिणाग्रान् कुशान् कृत्वा तेषाम् उपरि चासनम् । सतिलेषु समूलेषु कुशेष्व् एव तु संश्रयः
॥७३॥गन्धपुष्पादिकं कृत्वा ततः पिण्डं तु भक्तितः । पृथिवी दधीर् इत्य् उक्त्वा ततः पिण्डं प्रदत्तवान्
॥७४॥पितामहाः प्रपितामहास् तथेति चान्तरिक्षतः । मातामहानाम् अप्य् एवं ददौ पिण्डान् स शूकरः
॥७५॥पिण्डनिर्वापणोच्छिष्टम् अन्नं लेपभुजेष्व् अदात् । एतद् वः पितर् इत्य् उक्त्वा ददौ वासांसि भक्तितः
॥७६॥द्व्यङ्गुलजानि शुक्लानि धौतान्य् अभिनवानि च । गन्धपुष्पादिकं दत्त्वा कृत्वा चैषां प्रदक्षिणाम्
॥७७॥आचम्याचामयेद् विप्रान् पैत्रान् आदौ ततः सुरान् । ततस् त्व् अभ्युक्ष्य तां भूमिं दत्त्वापः सुमनोक्षतान्
॥७८॥सतिलाम्बु पितृष्व् आदौ दत्त्वा देवेषु साक्षतम् । अक्षय्यं नस् त्व् इति पितॄन् प्रीयताम् इति देवताः
॥७९॥प्रीणयित्वा परावृत्य त्रिर् जपेच् चाघमर्षणम् । ततो निवृत्य तु जपेद् यन् मे नाम इतीरयन्
॥८०॥गृहान् नः पितरो दत्त धनधान्यप्रपूरितान् । अर्घ्यपात्राणि पिण्डानाम् अन्तरे स पवित्रकान्
॥८१॥निक्षिप्योर्जं वहन्तीति कोकातोयम् अथोऽजपत् । हिमक्षीरं मधुतिलान् पितॄणां तर्पणं ददौ
॥८२॥स्वस्तीत्य् उक्ते पैतृकैस् तु सोराह्ने प्नावतर्पयन् । रजतं दक्षिणां दत्त्वा विप्रान् देवो गदाधरः
॥८३॥संविभागं मनुष्येभ्यो ददौ स्वद् इति चाब्रुवन् । कश्चित् सम्पन्नम् इत्य् उक्त्वा प्रत्युक्तस् तैर् द्विजोत्तमाः
॥८४॥अभिरम्यताम् इत्य् उवाच प्रोचुस् तेऽभिरताः स्म वै । शिष्टम् अन्नं च पप्रच्छ तैर् इष्टैः सह चोदितः
॥८५॥पाणाव् आदाय तान् विप्रान् कुर्याद् अनुगतस् तदा । वाजे वाजे इति पठन् बहिर् वेदि विनिर्गतः
॥८६॥कोटितीर्थजलेनासाव् अपसव्यं समुत्क्षिपन् । अलग्नान् विपुलान् वालान् प्रार्थयाम् आस चाशिषम्
॥८७॥दातारो नोऽभिवर्धन्तां तैस् तथेति समीरितः । प्रदक्षिणम् उपावृत्य कृत्वा पादाभिवादनम्
॥८८॥आसनानि ददौ चैषां छादयाम् आस शूकरः । विश्राम्यतां प्रविश्याथ पिण्डं जग्राह मध्यमम्
॥८९॥छायामयी मही पत्नी तस्यै पिण्डम् अदात् प्रभुः । आधत्त पितरो गर्भम् इत्य् उक्त्वा सापि रूपिणी
॥९०॥पिण्डं गृहीत्वा विप्राणां चक्रे पादाभिवन्दनम् । विसर्जनं पितॄणां स कर्तुकामश् च शूकरः
॥९१॥कोका च पितरश् चैव प्रोचुः स्वार्थकरं वचः । शप्ताश् च भगवन् पूर्वं दिवस्था हिमभानुना
॥९२॥योगभ्रष्टा भविष्यध्वं सर्व एव दिवश् च्युताः । तद् एवं भवता त्राताः प्रविशन्तो रसातलम्
॥९३॥योगभ्रष्टांश् च विश्वेशास् तत्यजुर् योगरक्षिणः । तत् ते भूयोऽभिरक्षन्तु विश्वे देवा हि नः सदा
॥९४॥स्वर्गं यास्यामश् च विभो प्रसादात् तव शूकर । सोमोऽधिदेवोऽस्माकं च भवत्व् अच्युत योगधृक्
॥९५॥योगाधारस् तथा सोमस् त्रायते न कदाचन । दिवि भूमौ सदा वासो भवत्व् अस्मासु योगतः
॥९६॥अन्तरिक्षे च केषाञ्चिन् मासं पुष्टिस् तथास्तु नः । ऊर्जा चेयं हि नः पत्नी स्वधानाम्ना तु विश्रुता
॥९७॥भवत्व् एषैव योगाढ्या योगमाता च खेचरी । इत्य् एवम् उक्तः पितृभिर् वाराहो भूतभावनः
॥९८॥प्रोवाचाथ पितॄन् विष्णुस् तां च कोकां महानदीम् । यद् उक्तं तु भवद्भिर् मे सर्वम् एतद् भविष्यति
॥९९॥यमोऽधिदेवो भवतां सोमः स्वाध्याय ईरितः । अधियज्ञस् तथैवाग्निर् भवतां कल्पना त्व् इयम्
॥१००॥अग्निर् वायुश् च सूर्यश् च स्थानं हि भवताम् इति । ब्रह्मा विष्णुश् च रुद्रश् च भवताम् अधिपूरुषाः
॥१०१॥आदित्या वसवो रुद्रा भवतां मूर्तयस् त्व् इमाः । योगिनो योगदेहाश् च योगधाराश् च सुव्रताः
॥१०२॥कामतो विचरिष्यध्वं फलदाः सर्वजन्तुषु । स्वर्गस्थान् नरकस्थांश् च भूमिस्थांश् च चराचरान्
॥१०३॥निजयोगबलेनैव आप्याययिष्यध्वम् उत्तमाः । इयम् ऊर्जा शशिसुता कीलालमधुविग्रहा
॥१०४॥भविष्यति महाभागा दक्षस्य दुहिता स्वधा । तत्रेयं भवतां पत्नी भविष्यति वरानना
॥१०५॥कोकानदीति विख्याता गिरिराजसमाश्रिता । तीर्थकोटिमहापुण्या मद्रूपपरिपालिता
॥१०६॥अस्याम् अद्य प्रभृति वै निवत्स्याम्य् अघनाशकृत् । वराहदर्शनं पुण्यं पूजनं भुक्तिमुक्तिदम्
॥१०७॥कोकासलिलपानं च महापातकनाशनम् । तीर्थेष्व् आप्लवनं पुण्यम् उपवासश् च स्वर्गदः
॥१०८॥दानम् अक्षय्यम् उदितं जन्ममृत्युजरापहम् । माघे मास्य् असिते पक्षे भवद्भिर् उडुपक्षये
॥१०९॥कोकामुखम् उपागम्य स्थातव्यं दिनपञ्चकम् । तस्मिन् काले तु यः श्राद्धं पितॄणां निर्वपिष्यति
॥११०॥प्रागुक्तफलभागी स भविष्यति न संशयः । एकादशीं द्वादशीं च स्थेयम् अत्र मया सदा
॥१११॥यस् तत्रोपवसेद् धीमान् स प्रागुक्तफलं लभेत् । तद् व्रजध्वं महाभागाः स्थानम् इष्टं यथेष्टतः
॥११२॥अहम् अप्य् अत्र वत्स्यामीत्य् उक्त्वा सोऽन्तरधीयत । गते वराहे पितरः कोकाम् आमन्त्र्य ते ययुः
॥११३॥कोकापि तीर्थसहिता संस्थिता गिरिराजनि । छाया महीमयी क्रोडी पिण्डप्राशनबृंहिता
॥११४॥गर्भम् आदाय सश्रद्धा वाराहस्यैव सुन्दरी । ततोऽस्याः प्राभवत् पुत्रो भौमस् तु नरकासुरः । प्राग्ज्योतिषं च नगरम् अस्य दत्तं च विष्णुना
॥११५॥एवं मयोक्तं वरदस्य विष्णोः । कोकामुखे दिव्यवराहरूपम् । श्रुत्वा नरस् त्यक्तमलो विपाप्मा । दशाश्वमेधेष्टिफलं लभेत
॥११६॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).