मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १८०

3
ब्रह्मपुराणम् · 180

अध्यायः १८०

व्यास उवाच:

नमस्कृत्वा सुरेशाय विष्णवे प्रभविष्णवे । पुरुषाय पुराणाय शाश्वतायाव्ययाय च

॥१॥

चतुर्व्यूहात्मने तस्मै निर्गुणाय गुणाय च । वरिष्ठाय गरिष्ठाय वरेण्यायामिताय च

॥२॥

यज्ञाङ्गायाखिलाङ्गाय देवाद्यैर् ईप्सिताय च । यस्माद् अणुतरं नास्ति यस्मान् नास्ति बृहत्तरम्

॥३॥

येन विश्वम् इदं व्याप्तम् अजेन सचराचरम् । आविर्भावतिरोभावदृष्टादृष्टविलक्षणम्

॥४॥

वदन्ति यत् सृष्टम् इति तथैवाप्य् उपसंहृतम् । ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना

॥५॥

अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय जिष्णवे विष्णवे नमः

॥६॥

नमो हिरण्यगर्भाय हरये शङ्कराय च । वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे

॥७॥

एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे

॥८॥

सर्गस्थितिविनाशानां जगतो यो जगन्मयः । मूलभूतो नमस् तस्मै विष्णवे परमात्मने

॥९॥

आधारभूतं विश्वस्याप्य् अणीयांसम् अणीयसाम् । प्रणम्य सर्वभूतस्थम् अच्युतं पुरुषोत्तमम्

॥१०॥

ज्ञानस्वरूपम् अत्यन्तं निर्मलं परमार्थतः । तम् एवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्

॥११॥

विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम् । अनादिं जगताम् ईशम् अजम् अक्षयम् अव्ययम्

॥१२॥

कथयामि यथा पूर्वं यक्षाद्यैर् मुनिसत्तमैः । पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः

॥१३॥

ऋक्सामान्य् उद्गिरन् वक्त्रैर् यः पुनाति जगत्त्रयम् । प्रणिपत्य तथेशानम् एकार्णवविनिर्गतम्

॥१४॥

यस्यासुरगणा यज्ञान् विलुम्पन्ति न याजिनाम् । प्रवक्ष्यामि मतं कृत्स्नं ब्रह्मणोऽव्यक्तजन्मनः

॥१५॥

येन सृष्टिं समुद्दिश्य धर्माद्याः प्रकटीकृताः । आपो नारा इति प्रोक्ता मुनिभिस् तत्त्वदर्शिभिः

॥१६॥

अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । स देवो भगवान् सर्वं व्याप्य नारायणो विभुः

॥१७॥

चतुर्धा संस्थितो ब्रह्मा सगुणो निर्गुणस् तथा । एका मूर्तिर् अनुद्देश्या शुक्लां पश्यन्ति तां बुधाः

॥१८॥

ज्वालामालावनद्धाङ्गी निष्ठा सा योगिनां परा । दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा

॥१९॥

वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते । रूपवर्णादयस् तस्या न भावाः कल्पनामयाः

॥२०॥

आस्ते च सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी । द्वितीया पृथिवीं मूर्ध्ना शेषाख्या धारयत्य् अधः

॥२१॥

तामसी सा समाख्याता तिर्यक्त्वं समुपागता । तृतीया कर्म कुरुते प्रजापालनतत्परा

॥२२॥

सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी । चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा

॥२३॥

रजस् तस्या गुणः सर्गं सा करोति सदैव हि । या तृतीया हरेर् मूर्तिः प्रजापालनतत्परा

॥२४॥

सा तु धर्मव्यवस्थानं करोति नियतं भुवि । प्रोद्धतान् असुरान् हन्ति धर्मव्युच्छित्तिकारिणः

॥२५॥

पाति देवान् सगन्धर्वान् धर्मरक्षापरायणान् । यदा यदा च धर्मस्य ग्लानिः समुपजायते

॥२६॥

अभ्युत्थानम् अधर्मस्य तदात्मानं सृजत्य् असौ । भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च

॥२७॥

एकया दंष्ट्रयोत्खाता नलिनीव वसुन्धरा । कृत्वा नृसिंहरूपं च हिरण्यकशिपुर् हतः

॥२८॥

विप्रचित्तिमुखाश् चान्ये दानवा विनिपातिताः । वामनं रूपम् आस्थाय बलिं संयम्य मायया

॥२९॥

त्रैलोक्यं क्रान्तवान् एव विनिर्जित्य दितेः सुतान् । भृगोर् वंशे समुत्पन्नो जामदग्न्यः प्रतापवान्

॥३०॥

जघान क्षत्रियान् रामः पितुर् वधम् अनुस्मरन् । तथात्रितनयो भूत्वा दत्तात्रेयः प्रतापवान्

॥३१॥

योगम् अष्टाङ्गम् आचख्याव् अलर्काय महात्मने । रामो दाशरथिर् भूत्वा स तु देवः प्रतापवान्

॥३२॥

जघान रावणं सङ्ख्ये त्रैलोक्यस्य भयङ्करम् । यदा चैकार्णवे सुप्तो देवदेवो जगत्पतिः

॥३३॥

सहस्रयुगपर्यन्तं नागपर्यङ्कगो विभुः । योगनिद्रां समास्थाय स्वे महिम्नि व्यवस्थितः

॥३४॥

त्रैलोक्यम् उदरे कृत्वा जगत् स्थावरजङ्गमम् । जनलोकगतैः सिद्धैः स्तूयमानो महर्षिभिः

॥३५॥

तस्य नाभौ समुत्पन्नं पद्मं दिक्पत्त्रमण्डितम् । मरुत्किञ्जल्कसंयुक्तं गृहं पैतामहं वरम्

॥३६॥

यत्र ब्रह्मा समुत्पन्नो देवदेवश् चतुर्मुखः । तदा कर्णमलोद्भूतौ दानवौ मधुकैटभौ

॥३७॥

महाबलौ महावीर्यौ ब्रह्माणं हन्तुम् उद्यतौ । जघान तौ दुराधर्षौ उत्थाय शयनोदधेः

॥३८॥

एवमादींस् तथैवान्यान् असङ्ख्यातुम् इहोत्सहे । अवतारो ह्य् अजस्येह माथुरः साम्प्रतस् त्व् अयम्

॥३९॥

इति सा सात्त्विकी मूर्तिर् अवतारं करोति च । प्रद्युम्नेति समाख्याता रक्षाकर्मण्य् अवस्थिता

॥४०॥

देवत्वेऽथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता । गृह्णाति तत्स्वभावश् च वासुदेवेच्छया सदा

॥४१॥

ददात्य् अभिमतान् कामान् पूजिता सा द्विजोत्तमाः । एवं मया समाख्यातः कृतकृत्योऽपि यः प्रभुः । मानुषत्वं गतो विष्णुः शृणुध्वं चोत्तरं पुनः

॥४२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).