अध्यायः १०५
ब्रह्मोवाच:
सोमतीर्थम् इति ख्यातं पितॄणां प्रीतिवर्धनम् । तत्र वृत्तं महापुण्यं शृणु यत्नेन नारद
॥१॥सोमो राजामृतमयो गन्धर्वाणां पुराभवत् । न देवानां तदा देवा माम् अभ्येत्येदम् अब्रुवन्
॥२॥देवा ऊचुः:
गन्धर्वैर् आहृतः सोमो देवानां प्राणदः पुरा । तम् अध्यायन् सुरगणा ऋषयस् त्व् अतिदुःखिताः । यथा स्यात् सोमो ह्य् अस्माकं तथा नीतिर् विधीयताम्
॥३॥ब्रह्मोवाच:
तत्र वाग् विबुधान् आह गन्धर्वाः स्त्रीषु कामुकाः । तेभ्यो दत्त्वाथ मां देवाः सोमम् आहर्तुम् अर्हथ
॥४॥वाचं प्रत्यूचुर् अमरास् त्वां दातुं न क्षमा वयम् । विना तेनापि न स्थातुं शक्यं नैव त्वया विना
॥५॥पुनर् वाग् अब्रवीद् देवान् पुनर् एष्याम्य् अहं त्व् इह । अत्र बुद्धिर् विधातव्या क्रियतां क्रतुर् उत्तमः
॥६॥गौतम्या दक्षिणे तीरे भवेद् देवागमो यदि । मखं तु विषयं कृत्वा आयान्तु सुरसत्तमाः
॥७॥गन्धर्वाः स्त्रीप्रिया नित्यं पणध्वं तं मया सह । तथेत्य् उक्त्वा सुरगणाः सरस्वत्या वचःस्थिताः
॥८॥देवदूतैः पृथग् देवान् यक्षान् गन्धर्वपन्नगान् । आह्वानं चक्रिरे तत्र पुण्ये देवगिरौ तदा
॥९॥ततो देवगिरिर् नाम पर्वतस्याभवन् मुने । तत्रागमन् सुरगणा गन्धर्वा यक्षकिन्नराः
॥१०॥देवाः सिद्धाश् च ऋषयस् तथाष्टौ देवयोनयः । ऋषिभिर् गौतमीतीरे क्रियमाणे महाध्वरे
॥११॥तत्र देवैः परिवृतः सहस्राक्षोऽभ्यभाषत
॥१२॥इन्द्र उवाच:
गन्धर्वान् अथ सम्पूज्य सरस्वत्याः समीपतः । सरस्वत्या पणध्वं नो युष्माकम् अमृतात्मना
॥१३॥ब्रह्मोवाच:
तच् छक्रवचनात् ते वै गन्धर्वाः स्त्रीषु कामुकाः । सोमं दत्त्वा सुरेभ्यस् तु जगृहुस् तां सरस्वतीम्
॥१४॥सोमोऽभवच् चामराणां गन्धर्वाणां सरस्वती । अवसत् तत्र वागीशा तथापि च सुरान्तिके
॥१५॥आयाति च रहो नित्यम् उपांशु क्रियताम् इति । अत एव हि सोमस्य क्रयो भवति नारद
॥१६॥उपांशुना वर्तितव्यं सोमक्रयण एव हि । ततोऽभवद् देवतानां सोमश् चापि सरस्वती
॥१७॥गन्धर्वाणां नैव सोमो नैवासीच् च सरस्वती । तत्रागमन् सर्व एव सोमार्थं गौतमीतटम्
॥१८॥गावो देवाः पर्वता यक्षरक्षाः । सिद्धाः साध्या मुनयो गुह्यकाश् च । गन्धर्वास् ते मरुतः पन्नगाश् च । सर्वौषध्यो मातरो लोकपालाः । रुद्रादित्या वसवश् चाश्विनौ च । येऽन्ये देवा यज्ञभागस्य योग्याः
॥१९॥पञ्चविंशतिनद्यस् तु गङ्गायां सङ्गता मुने । पूर्णाहुतिर् यत्र दत्ता पूर्णाख्यानं तद् उच्यते
॥२०॥गौतम्यां सङ्गता यास् तु सर्वाश् चापि यथोदिताः । तन्नामधेयतीर्थानि सङ्क्षेपाच् छृणु नारद
॥२१॥सोमतीर्थं च गान्धर्वं देवतीर्थम् अतः परम् । पूर्णातीर्थं ततः शालं श्रीपर्णासङ्गमं तथा
॥२२॥स्वागतासङ्गमं पुण्यं कुसुमायाश् च सङ्गमम् । पुष्टिसङ्गमम् आख्यातं कर्णिकासङ्गमं शुभम्
॥२३॥वैणवीसङ्गमश् चैव कृशरासङ्गमस् तथा । वासवीसङ्गमश् चैव शिवशर्या तथा शिखी
॥२४॥कुसुम्भिका उपारथ्या शान्तिजा देवजा तदा । अजो वृद्धः सुरो भद्रो गौतम्या सह सङ्गताः
॥२५॥एते चान्ये च बहवो नदीनदसहायगाः । पृथिव्यां यानि तीर्थानि ह्य् अगमन् देवपर्वते
॥२६॥सोमार्थं वै तथा चान्येऽप्य् आगमन् मखमण्डपम् । तानि तीर्थानि गङ्गायां सङ्गतानि यथाक्रमम्
॥२७॥नदीरूपेण कान्य् एव नदरूपेण कानिचित् । सरोरूपेण कान्य् अत्र स्तवरूपेण कानिचित्
॥२८॥तान्य् एव सर्वतीर्थानि विख्यातानि पृथक् पृथक् । तेषु स्नानं जपो होमः पितृतर्पणम् एव च
॥२९॥सर्वकामप्रदं पुंसां भुक्तिदं मुक्तिभाजनम् । एतेषां पठनं चापि स्मरणं वा करोति यः । सर्वपापविनिर्मुक्तो याति विष्णुपुरं जनः
॥३०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).