अध्यायः १२१
ब्रह्मोवाच:
विदर्भासङ्गमं पुण्यं रेवतीसङ्गमं तथा । तत्र यद् वृत्तम् आख्यास्ये यत् पुराणविदो विदुः
॥१॥भरद्वाज इति ख्यात ऋषिर् आसीत् तपोधिकः । तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा
॥२॥तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान् । चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे
॥३॥कस्मै दद्याम् इमां कन्यां स्वसारं भीषणाकृतिम् । न कश्चित् प्रतिगृह्णाति दातव्या च स्वसा तथा
॥४॥अहो भूयान् न कस्यापि कन्या दुःखैककारणम् । मरणं जीवतोऽप्य् अस्य प्राणिनस् तु पदे पदे
॥५॥एवं विमृशतस् तस्य स्वाश्रमे चातिशोभने । द्रष्टुं मुनिवरः प्रायाद् भरद्वाजं यतव्रतम्
॥६॥द्व्यष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः । नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः
॥७॥विधिवत् पूज्य तं विप्रं भरद्वाजः कठं तदा । तस्यागमनकार्यं च पप्रच्छ पुरतः स्थितः
॥८॥कठोऽप्य् आह भरद्वाजं विद्यार्थ्य् अहम् उपागतः । तथा च दर्शनाकाङ्क्षी यद् युक्तं तद् विधीयताम्
॥९॥भरद्वाजः कठं प्राह अधीष्व यद् अभीप्सितम् । पुराणं स्मृतयो वेदा धर्मस्थानान्य् अनेकशः
॥१०॥सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम् । कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः । अभिमानी श्रुतधरः शिष्यः पुण्यैर् अवाप्यते
॥११॥कठ उवाच:
अध्यापयस्व भो ब्रह्मञ् शिष्यं मां वीतकल्मषम् । शुश्रूषणरतं भक्तं कुलीनं सत्यवादिनम्
॥१२॥ब्रह्मोवाच:
तथेत्य् उक्त्वा भरद्वाजः प्रादाद् विद्याम् अशेषतः । प्राप्तविद्यः कठः प्रीतो भरद्वाजम् अथाब्रवीत्
॥१३॥कठ उवाच:
इच्छेयं दक्षिणां दातुं गुरो तव मनःप्रियाम् । वदस्व दुर्लभं वापि गुरो तुभ्यं नमोऽस्तु ते
॥१४॥विद्यां प्राप्यापि ये मोहात् स्वगुरोः पारितोषिकम् । न प्रयच्छन्ति निरयं ते यान्त्य् आचन्द्रतारकम्
॥१५॥भरद्वाज उवाच:
गृहाण कन्यां विधिवद् भार्यां कुरु मम स्वसाम् । अस्यां प्रीत्या वर्तितव्यं याचेयं दक्षिणाम् इमाम्
॥१६॥कठ उवाच:
भ्रातृवत् पुत्रवच् चापि शिष्यः स्यात् तु गुरोः सदा । गुरुश् च पितृवच् च स्यात् सम्बन्धोऽत्र कथं भवेत्
॥१७॥भरद्वाज उवाच:
मद्वाक्यं कुरु सत्यं त्वं ममाज्ञा तव दक्षिणा । सर्वं स्मृत्वा कठाद्य त्वं रेवतीं भर तन्मनाः
॥१८॥ब्रह्मोवाच:
तथेत्य् उक्त्वा गुरोर् वाक्यात् कठो जग्राह पाणिना । रेवतीं विधिवद् दत्तां तां समीक्ष्य कठस् त्व् अथ
॥१९॥तत्रैव पूजयाम् आस देवेशं शङ्करं तदा । रेवत्या रूपसम्पत्त्यै शिवप्रीत्यै च रेवती
॥२०॥सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते । अभिषेकोदकं तत्र रेवत्या यद् विनिःसृतम्
॥२१॥साभवत् तत्र गङ्गायां तस्मात् तन्नामतो नदी । रेवतीति समाख्याता रूपसौभाग्यदायिनी
॥२२॥पुनर् दर्भैश् च विविधैर् अभिषेकं चकार सः । पुण्यरूपत्वसंसिद्ध्यै विदर्भा तद् अभून् नदी
॥२३॥श्रद्धया सङ्गमे स्नात्वा रेवतीगङ्गयोर् नरः । सर्वपापविनिर्मुक्तो विष्णुलोके महीयते
॥२४॥तथा विदर्भागौतम्योः सङ्गमे श्रद्धया मुने । स्नानं करोत्य् असौ याति भुक्तिं मुक्तिं च तत्क्षणात्
॥२५॥उभयोस् तीरयोस् तत्र तीर्थानां शतम् उत्तमम् । सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम्
॥२६॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).