अध्यायः ७०
ब्रह्मोवाच:
सर्वेषां चैव तीर्थानां क्षेत्राणां च द्विजोत्तमाः । जपहोमव्रतानां च तपोदानफलानि च
॥१॥न तत् पश्यामि भो विप्रा यत् तेन सदृशं भुवि । किं चात्र बहुनोक्तेन भाषितेन पुनः पुनः
॥२॥सत्यं सत्यं पुनः सत्यं क्षेत्रं तत् परमं महत् । पुरुषाख्यं सकृद् दृष्ट्वा सागराम्भःसमाप्लुतम्
॥३॥ब्रह्मविद्यां सकृज् ज्ञात्वा गर्भवासो न विद्यते । हरेः सन्निहिते स्थान उत्तमे पुरुषोत्तमे
॥४॥संवत्सरम् उपासीत मासमात्रम् अथापि वा । तेन जप्तं हुतं तेन तेन तप्तं तपो महत्
॥५॥स याति परमं स्थानं यत्र योगेश्वरो हरिः । भुक्त्वा भोगान् विचित्रांश् च देवयोषित्समन्वितः
॥६॥कल्पान्ते पुनर् आगत्य मर्त्यलोके नरोत्तमः । जायते योगिनां विप्रा ज्ञानज्ञेयोद्यतो गृहे
॥७॥सम्प्राप्य वैष्णवं योगं हरेः स्वच्छन्दतां व्रजेत् । कल्पवृक्षस्य रामस्य कृष्णस्य भद्रया सह
॥८॥मार्कण्डेयेन्द्रद्युम्नस्य माहात्म्यं माधवस्य च । स्वर्गद्वारस्य माहात्म्यं सागरस्य विधिः क्रमात्
॥९॥मार्जनस्य यथाकाले भागीरथ्याः समागमम् । सर्वम् एतन् मया ख्यातं यत् परं श्रोतुम् इच्छथ
॥१०॥इन्द्रद्युम्नस्य माहात्म्यम् एतच् च कथितं मया । सर्वाश्चर्यं समाख्यातं रहस्यं पुरुषोत्तमम् । पुराणं परमं गुह्यं धन्यं संसारमोचनम्
॥११॥मुनय ऊचुः:
नहि नस् तृप्तिर् अस्तीह शृण्वतां तीर्थविस्तरम् । पुनर् एव परं गुह्यं वक्तुम् अर्हस्य् अशेषतः । परं तीर्थस्य माहात्म्यं सर्वतीर्थोत्तमोत्तमम्
॥१२॥ब्रह्मोवाच:
इमम् एव पुरा प्रश्नं पृष्टोऽस्मि द्विजसत्तमाः । नारदेन प्रयत्नेन तदा तं प्रोक्तवान् अहम्
॥१३॥नारद उवाच:
तपसो यज्ञदानानां तीर्थानां पावनं स्मृतम् । सर्वं श्रुतं मया त्वत्तो जगद्योने जगत्पते
॥१४॥कियन्ति सन्ति तीर्थानि स्वर्गमर्त्यरसातले । सर्वेषाम् एव तीर्थानां सर्वदा किं विशिष्यते
॥१५॥ब्रह्मोवाच:
चतुर्विधानि तीर्थानि स्वर्गे मर्त्ये रसातले । दैवानि मुनिशार्दूल आसुराण्य् आर्षाणि च
॥१६॥मानुषाणि त्रिलोकेषु विख्यातानि सुरादिभिः । मानुषेभ्यश् च तीर्थेभ्य आर्षं तीर्थम् अनुत्तमम्
॥१७॥आर्षेभ्यश् चैव तीर्थेभ्य आसुरं बहुपुण्यदम् । आसुरेभ्यस् तथा पुण्यं दैवं तत् सार्वकामिकम्
॥१८॥ब्रह्मविष्णुशिवैश् चैव निर्मितं दैवम् उच्यते । त्रिभ्यो यद् एकं जायेत तस्मान् नातः परं विदुः
॥१९॥त्रयाणाम् अपि लोकानां तीर्थं मेध्यम् उदाहृतम् । तत्रापि जाम्बवं द्वीपं तीर्थं बहुगुणोदयम्
॥२०॥जाम्बवे भारतं वर्षं तीर्थं त्रैलोक्यविश्रुतम् । कर्मभूमिर् यतः पुत्र तस्मात् तीर्थं तद् उच्यते
॥२१॥तत्रैव यानि तीर्थानि यान्य् उक्तानि मया तव । हिमवद्विन्ध्ययोर् मध्ये षण्नद्यो देवसम्भवाः
॥२२॥तथैव देवजा ब्रह्मन् दक्षिणार्णवविन्ध्ययोः । एता द्वादश नद्यस् तु प्राधान्येन प्रकीर्तिताः
॥२३॥अभिसम्पूजितं यस्माद् भारतं बहुपुण्यदम् । कर्मभूमिर् अतो देवैर् वर्षं तस्मात् प्रकीर्तितम्
॥२४॥आर्षाणि चैव तीर्थानि देवजानि क्वचित् क्वचित् । आसुरैर् आवृतान्य् आसंस् तद् एवासुरम् उच्यते
॥२५॥दैवेष्व् एव प्रदेशेषु तपस् तप्त्वा महर्षयः । दैवप्रभावात् तपस आर्षाण्य् अपि च तान्य् अपि
॥२६॥आत्मनः श्रेयसे मुक्त्यै पूजायै भूतयेऽथवा । आत्मनः फलभूत्यर्थं यशसोऽवाप्तये पुनः
॥२७॥मानुषैः कारितान्य् आहुर् मानुषाणीति नारद । एवं चतुर्विधो भेदस् तीर्थानां मुनिसत्तम
॥२८॥भेदं न कश्चिज् जानाति श्रोतुं युक्तोऽसि नारद । बहवः पण्डितम्मन्याः शृण्वन्ति कथयन्ति च । सुकृती कोऽपि जानाति वक्तुं श्रोतुं निजैर् गुणैः
॥२९॥नारद उवाच:
तेषां स्वरूपं भेदं च श्रोतुम् इच्छामि तत्त्वतः । यच् छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
॥३०॥ब्रह्मन् कृतयुगादौ तु उपायोऽन्यो न विद्यते । तीर्थसेवां विना स्वल्पआयासेनाभीष्टदायिनीम्
॥३१॥न त्वया सदृशो धातर् वक्ता ज्ञाताथवा क्वचित् । त्वं नाभिकमले विष्णोः सञ्जातोऽखिलपूर्वजः
॥३२॥ब्रह्मोवाच:
गोदावरी भीमरथी तुङ्गभद्रा च वेणिका । तापी पयोउष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः
॥३३॥भागीरथी नर्मदा तु यमुना च सरस्वती । विशोका च वितस्ता च हिमवत्पर्वताश्रिताः
॥३४॥एता नद्यः पुण्यतमा देवतीर्थान्य् उदाहृताः । गयः कोल्लासुरो वृत्रस् त्रिपुरो ह्य् अन्धकस् तथा
॥३५॥हयमूर्धा च लवणो नमुचिः शृङ्गकस् तथा । यमः पातालकेतुश् च मयः पुष्कर एव च
॥३६॥एतैर् आवृततीर्थानि आसुराणि शुभानि च । प्रभासो भार्गवोऽगस्तिर् नरनारायणौ तथा
॥३७॥वसिष्ठश् च भरद्वाजो गोतमः कश्यपो मनुः । इत्यादिमुनिजुष्टानि ऋषितीर्थानि नारद
॥३८॥अम्बरीषो हरिश्चन्द्रो मान्धाता मनुर् एव च । कुरुः कनखलश् चैव भद्राश्वः सगरस् तथा
॥३९॥अश्वयूपो नाचिकेता वृषाकपिर् अरिन्दमः । इत्यादिमानुषैर् विप्र निर्मितानि शुभानि च
॥४०॥यशसः फलभूत्यर्थं निर्मितानीह नारद । स्वतोउद्भूतानि दैवानि यत्र क्वापि जगत्त्रये । पुण्यतीर्थानि तान्य् आहुस् तीर्थभेदो मयोदितः
॥४१॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).