अध्यायः २३१
मुनय ऊचुः:
आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे । ततो द्वापरविध्वंसं युगान्तं स्पृहयामहे
॥१॥प्राप्ता वयं हि तत् कालम् अनया धर्मतृष्णया । आदद्याम परं धर्मं सुखम् अल्पेन कर्मणा
॥२॥सन्त्रासोद्वेगजननं युगान्तं समुपस्थितम् । प्रनष्टधर्मं धर्मज्ञ निमित्तैर् वक्तुम् अर्हसि
॥३॥व्यास उवाच:
अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः । युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः
॥४॥अक्षत्रियाश् च राजानो विप्राः शूद्रोपजीविनः । शूद्राश् च ब्राह्मणाचारा भविष्यन्ति युगक्षये
॥५॥श्रोत्रियाः काण्डपृष्ठाश् च निष्कर्माणि हवींषि च । एकपङ्क्त्याम् अशिष्यन्ति युगान्ते मुनिसत्तमाः
॥६॥अशिष्टवन्तोऽर्थपरा नरा मद्यामिषप्रियाः । मित्रभार्यां भजिष्यन्ति युगान्ते पुरुषाधमाः
॥७॥राजवृत्तिस्थिताश् चौरा राजानश् चौरशीलिनः । भृत्या ह्य् अनिर्दिष्टभुजो भविष्यन्ति युगक्षये
॥८॥धनानि श्लाघनीयानि सतां वृत्तम् अपूजितम् । अकुत्सना च पतिते भविष्यति युगक्षये
॥९॥प्रनष्टनासाः पुरुषा मुक्तकेशा विरूपिणः । ऊनषोडशवर्षाश् च प्रसोष्यन्ति तथा स्त्रियः
॥१०॥अट्टशूला जनपदाः शिवशूलाश् चतुष्पथाः । प्रमदाः केशशूलाश् च भविष्यन्ति युगक्षये
॥११॥सर्वे ब्रह्म वदिष्यन्ति द्विजा वाजसनेयिकाः । शूद्राभा वादिनश् चैव ब्राह्मणाश् चान्त्यवासिनः
॥१२॥शुक्लदन्ता जिताक्षाश् च मुण्डाः काषायवाससः । शूद्रा धर्मं वदिष्यन्ति शाठ्यबुद्ध्योपजीविनः
॥१३॥श्वापदप्रचुरत्वं च गवां चैव परिक्षयः । साधूनां परिवृत्तिश् च विद्याद् अन्तगते युगे
॥१४॥अन्त्या मध्ये निवत्स्यन्ति मध्याश् चान्तनिवासिनः । निर्ह्रीकाश् च प्रजाः सर्वा नष्टास् तत्र युगक्षये
॥१५॥तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः । ऋतवो विपरीताश् च भविष्यन्ति युगक्षये
॥१६॥तथा द्विहायना दम्याः कलौ लाङ्गलधारिणः । चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति
॥१७॥सर्वे शूरकुले जाताः क्षमानाथा भवन्ति हि । यथा निम्नाः प्रजाः सर्वा भविष्यन्ति युगक्षये
॥१८॥पितृदेयानि दत्तानि भविष्यन्ति तथा सुताः । न च धर्मं चरिष्यन्ति मानवा निर्गते युगे
॥१९॥ऊषरा बहुला भूमिः पन्थानस् तस्करावृताः । सर्वे वाणिकाश् चैव भविष्यन्ति युगक्षये
॥२०॥पितृदायाददत्तानि विभजन्ति तथा सुताः । हरणे यत्नवन्तोऽपि लोभादिभिर् विरोधिनः
॥२१॥सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते । भविष्यन्ति युगस्यान्ते नार्यः केशैर् अलङ्कृताः
॥२२॥निर्वीर्यस्य रतिस् तत्र गृहस्थस्य भविष्यति । युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः
॥२३॥कुशीलानार्यभूयिष्ठा वृथारूपसमन्विताः । पुरुषाल्पं बहुस्त्रीकं तद् युगान्तस्य लक्षणम्
॥२४॥बहुयाचनको लोको न दास्यति परस्परम् । राजचौराग्निदण्डादिक्षीणः क्षयम् उपैष्यति
॥२५॥अफलानि च सस्यानि तरुणा वृद्धशीलिनः । अशीलाः सुखिनो लोके भविष्यन्ति युगक्षये
॥२६॥वर्षासु परुषा वाता नीचाः शर्करवर्षिणः । सन्दिग्धः परलोकश् च भविष्यति युगक्षये
॥२७॥वैश्या इव च राजन्या धनधान्योपजीविनः । युगापक्रमणे पूर्वं भविष्यन्ति न बान्धवाः
॥२८॥अप्रवृत्ताः प्रपश्यन्ति समयाः शपथास् तथा । ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति
॥२९॥भविष्यत्य् अफलो हर्षः क्रोधश् च सफलो नृणाम् । अजाश् चापि निरोत्स्यन्ति पयसोऽर्थे युगक्षये
॥३०॥अशास्त्रविहितो यज्ञ एवम् एव भविष्यति । अप्रमाणं करिष्यन्ति नराः पण्डितमानिनः
॥३१॥शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति न संशयः । सर्वः सर्वं विजानाति वृद्धान् अनुपसेव्य वै
॥३२॥न कश्चिद् अकविर् नाम युगान्ते समुपस्थिते । नक्षत्राणि वियोगानि न कर्मस्था द्विजातयः
॥३३॥चौरप्रायाश् च राजानो युगान्ते समुपस्थिते । कुण्डीवृषा नैकृतिकाः सुरापा ब्रह्मवादिनः
॥३४॥अश्वमेधेन यक्ष्यन्ते युगान्ते द्विजसत्तमाः । याजयिष्यन्त्य् अयाज्यांस् तु तथाभक्ष्यस्य भक्षिणः
॥३५॥ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते । भोःशब्दम् अभिधास्यन्ति न च कश्चित् पठिष्यति
॥३६॥एकशङ्खास् तथा नार्यो गवेधुकपिनद्धकाः । नक्षत्राणि विवर्णानि विपरिता दिशो दश
॥३७॥सन्ध्यारागो विदग्धाङ्गो भविष्यति युगक्षये । प्रेषयन्ति पितॄन् पुत्रा वधूः श्वश्रूः स्वकर्मसु
॥३८॥युगेष्व् एवं निवत्स्यन्ति प्रमदाश् च नरास् तथा । अकृत्वाग्राणि भोक्ष्यन्ति द्विजाश् चैवाहुताग्नयः
॥३९॥भिक्षां बलिम् अदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् । वञ्चयित्वा पतीन् सुप्तान् गमिष्यन्ति स्त्रियोऽन्यतः
॥४०॥न व्याधितान् नाप्य् अरूपान् नोद्यतान् नाप्य् असूयकान् । कृते न प्रतिकर्ता च युगे क्षीणे भविष्यति
॥४१॥मुनय ऊचुः:
एवं विलम्बिते धर्मे मानुषाः करपीडिताः । कुत्र देशे निवत्स्यन्ति किमाहारविहारिणः
॥४२॥किङ्कर्माणः किमीहन्तः किम्प्रमाणाः किमायुषः । कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम्
॥४३॥व्यास उवाच:
अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास् तथा । शीलव्यसनम् आसाद्य प्राप्स्यन्ति ह्रासम् आयुषः
॥४४॥आयुर्हान्या बलग्नानिर् बलग्नान्या विवर्णता । वैवर्ण्याद् व्याधिसम्पीडा निर्वेदो व्याधिपीडनात्
॥४५॥निर्वेदाद् आत्मसम्बोधः सम्बोधाद् धर्मशीलता । एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम्
॥४६॥उद्देशतो धर्मशीलाः केचिन् मध्यस्थतां गताः । किन्धर्मशीलाः केचित् तु केचिद् अत्र कुतूहलाः
॥४७॥प्रत्यक्षम् अनुमानं च प्रमाणम् इति निश्चिताः । अप्रमाणं करिष्यन्ति सर्वम् इत्य् अपरे जनाः
॥४८॥नास्तिक्यपरताश् चापि केचिद् धर्मविलोपकाः । भविष्यन्ति नरा मूढा द्विजाः पण्डितमानिनः
॥४९॥तदात्वमात्रश्रद्धेया शास्त्रज्ञानबहिष्कृताः । दाम्भिकास् ते भविष्यन्ति नरा ज्ञानविलोपिताः
॥५०॥तथा विलुलिते धर्मे जनाः श्रेष्ठपुरस्कृताः । शुभान् समाचरिष्यन्ति दानशीलपरायणाः
॥५१॥सर्वभक्षाः स्वयङ्गुप्ता निर्घृणा निरपत्रपाः । भविष्यन्ति तदा लोके तत् कषायस्य लक्षणम्
॥५२॥कषायोपप्लवे काले ज्ञाननिष्ठाप्रणाशने । सिद्धिम् अल्पेन कालेन प्राप्स्यन्ति निरुपस्कृताः
॥५३॥विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरे जनाः । संश्रयिष्यन्ति भो विप्रास् तत् कषायस्य लक्षणम्
॥५४॥महायुद्धं महावर्षं महावातं महातपः । भविष्यति युगे क्षीणे तत् कषायस्य लक्षणम्
॥५५॥विप्ररूपेण यक्षांसि राजानः कर्णवेदिनः । पृथिवीम् उपभोक्ष्यन्ति युगान्ते समुपस्थिते
॥५६॥निःस्वाध्यायवषट्काराः कुनेतारोऽभिमानिनः । क्रव्यादा ब्रह्मरूपेण सर्वभक्ष्या वृथाव्रताः
॥५७॥मूर्खाश् चार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः । व्यवहारोपवृत्ताश् च च्युता धर्माश् च शाश्वतात्
॥५८॥हर्तारः पररत्नानां परदारप्रधर्षकाः । कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः
॥५९॥तेषु प्रभवमाणेषु जनेष्व् अपि च सर्वशः । अभाविनो भविष्यन्ति मुनयो बहुरूपिणः
॥६०॥कलौ युगे समुत्पन्नाः प्रधानपुरुषाश् च ये । कथायोगेन तान् सर्वान् पूजयिष्यन्ति मानवाः
॥६१॥सस्यचौरा भविष्यन्ति तथा चैलापहारिणः । भोक्ष्यभोज्यहराश् चैव करण्डानां च हारिणः
॥६२॥चौराश् चौरस्य हर्तारो हन्ता हन्तुर् भविष्यति । चौरैश् चौरक्षये चापि कृते क्षेमं भविष्यति
॥६३॥निःसारे क्षुभिते काले निष्क्रिये संव्यवस्थिते । नरा वनं श्रयिष्यन्ति करभारप्रपीडिताः
॥६४॥यज्ञकर्मण्य् उपरते रक्षांसि श्वापदानि च । कीटमूषिकसर्पाश् च धर्षयिष्यन्ति मानवान्
॥६५॥क्षेमं सुभिक्षम् आरोग्यं सामग्र्यं चैव बन्धुषु । उद्देशेषु नराः श्रेष्ठा भविष्यन्ति युगक्षये
॥६६॥स्वयम्पालाः स्वयं चौराः प्लवसम्भारसम्भृताः । मण्डलैः सम्भविष्यन्ति देशे देशे पृथक् पृथक्
॥६७॥स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः । नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात्
॥६८॥ततः सर्वे समादाय कुमारान् प्रद्रुता भयात् । कौशिकीं सन्तरिष्यन्ति नराः क्षुद्भयपीडिताः
॥६९॥अङ्गान् वङ्गान् कलिङ्गांश् च काश्मीरान् अथ कोशलान् । ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः
॥७०॥कृत्स्नं च हिमवत्पार्श्वं कूलं च लवणाम्भसः । विविधं जीर्णपत्त्रं च वल्कलान्य् अजिनानि च
॥७१॥स्वयं कृत्वा निवत्स्यन्ति तस्मिन् भूते युगक्षये । अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सह
॥७२॥नैव शून्या नवारण्या भविष्यति वसुन्धरा । अगोप्तारश् च गोप्तारो भविष्यन्ति नराधिपाः
॥७३॥मृगैर् मत्स्यैर् विहङ्गैश् च श्वापदैः सर्पकीटकैः । मधुशाकफलैर् मूलैर् वर्तयिष्यन्ति मानवाः
॥७४॥शीर्णपर्णफलाहारा वल्कलान्य् अजिनानि च । स्वयं कृत्वा निवत्स्यन्ति यथा मुनिजनस् तथा
॥७५॥बीजानाम् अकृतस्नेहा आहताः काष्ठशङ्कुभिः । अजैडकं खरोष्ट्रं च पालयिष्यन्ति नित्यशः
॥७६॥नदीस्रोतांसि रोत्स्यन्ति तोयार्थं कूलम् आश्रिताः । पक्वान्नव्यवहारेण विपणन्तः परस्परम्
॥७७॥तनूरुहैर् यथाजातैः समलान्तरसम्भृतैः । बह्वपत्याः प्रजाहीनाः कुलशीलविवर्जिताः
॥७८॥एवं भविष्यन्ति तदा नराश् चाधर्मजीविनः । हीना हीनं तथा धर्मं प्रजा समनुवत्स्यति
॥७९॥आयुस् तत्र च मर्त्यानां परं त्रिंशद् भविष्यति । दुर्बला विषयग्लाना जराशोकैर् अभिप्लुताः
॥८०॥भविष्यन्ति तदा तेषां रोगैर् इन्द्रियसङ्क्षयः । आयुःप्रत्ययसंरोधाद् विषयाद् उपरंस्यते
॥८१॥शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः । सत्यं च प्रतिपत्स्यन्ति व्यवहारोपसङ्क्षयात्
॥८२॥भविष्यन्ति च कामानाम् अलाभाद् धर्मशीलिनः । करिष्यन्ति च संस्कारं स्वयं च क्षयपीडिताः
॥८३॥एवं शुश्रूषवो दाने सत्ये प्राण्यभिरक्षणे । ततः पादप्रवृत्ते तु धर्मे श्रेयो निपत्स्यते
॥८४॥तेषां लब्धानुमानानां गुणेषु परिवर्तताम् । स्वादु किं त्व् इति विज्ञाय धर्म एव च दृश्यते
॥८५॥यथा हानिक्रमं प्राप्तास् तथा ऋद्धिक्रमं गताः । प्रगृहीते ततो धर्मे प्रपश्यन्ति कृतं युगम्
॥८६॥साधुवृत्तिः कृतयुगे कषाये हानिर् उच्यते । एक एव तु कालोऽयं हीनवर्णो यथा शशी
॥८७॥छन्नश् च तमसा सोमो यथा कलियुगं तथा । मुक्तश् च तमसा सोम एवं कृतयुगं च तत्
॥८८॥अर्थवादः परं ब्रह्म वेदार्थ इति तं विदुः । अविविक्तम् अविज्ञातं दायाद्यम् इह धार्यते
॥८९॥इष्टवादस् तपो नाम तपो हि स्थविरीकृतः । गुणैः कर्माभिनिर्वृत्तिर् गुणाः शुध्यन्ति कर्मणा
॥९०॥आशीस् तु पुरुषं दृष्ट्वा देशकालानुवर्तिनी । युगे युगे यथाकालम् ऋषिभिः समुदाहृता
॥९१॥धर्मार्थकाममोक्षाणां देवानां च प्रतिक्रिया । आशिषश् च शिवाः पुण्यास् तथैवायुर् युगे युगे
॥९२॥तथा युगानां परिवर्तनानि । चिरप्रवृत्तानि विधिस्वभावात् । क्षणं न सन्तिष्ठति जीवलोकः । क्षयोदयाभ्यां परिवर्तमानः
॥९३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).