अध्यायः १५१
ब्रह्मोवाच:
निम्नभेदम् इति ख्यातं सर्वपापप्रणाशनम् । गङ्गाया उत्तरे पारे तीर्थं त्रैलोक्यविश्रुतम्
॥१॥यस्य संस्मरणेनापि सर्वपापक्षयो भवेत् । वेदद्वीपश् च तत्रैव दर्शनाद् वेदविद् भवेत्
॥२॥उर्वशीं चकमे राजा ऐलः परमधार्मिकः । को न मोहम् उपायाति विलोक्य मदिरेक्षणाम्
॥३॥सा प्रायाद् यत्र राजासौ घृतं स्तोकं समश्नुते । आनग्नदर्शनात् कृत्वा तस्याः कालावधिं नृपः
॥४॥तां स्वीचकार ललनां यूनां रम्यां नवां नवाम् । सुप्तायां शयने तस्यां समुत्तस्थौ पुरूरवाः
॥५॥विलोक्य तं विवसनं तदैवासौ विनिर्गता । विद्युच्चञ्चलचित्तानां क्व स्थैर्यं ननु योषिताम्
॥६॥ईक्षां चक्रे स शर्वर्यां विवस्त्रो विस्मितो महान् । एतस्मिन्न् अन्तरे राजा युद्धायागाद् रिपून् प्रति
॥७॥ताञ् जित्वा पुनर् अप्य् आगाद् देवलोकं सुपूजितम् । स चागत्य महाराजो वसिष्ठाच् च पुरोधसः
॥८॥उर्वश्या गमनं श्रुत्वा ततो दुःखसमन्वितः । न जुहोति न चाश्नाति न शृणोति न पश्यति
॥९॥एतस्मिन्न् अन्तरे तत्र मृतावस्थं नृपोत्तमम् । बोधयाम् आस वाक्यैश् च हेतुभूतैः पुरोहितः
॥१०॥वसिष्ठ उवाच:
सा मृताद्य महाराज मा व्यथस्व महामते । एवं स्थितं तु मा त्वां वै अशिवाः स्पृश्युर् आशुगाः
॥११॥न वै स्त्रैणानि जानीषे हृदयानि महामते । शालावृकाणां यादॄंशि तस्मात् त्वं भूप मा शुचः
॥१२॥को नाम लोके राजेन्द्र कामिनीभिर् न वञ्चितः । वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता
॥१३॥इति स्वाभाविकं यासां ताः कथं सुखहेतवः । कालेन को न निहतः कोऽर्थी गौरवम् आगतः
॥१४॥श्रिया न भ्रामितः को वा योषिद्भिः को न खण्डितः । स्वप्नमायोपमा राजन् मदविप्लुतचेतसः
॥१५॥सुखाय योषितः कस्य ज्ञात्वैतद् विज्वरो भव । विहाय शङ्करं विष्णुं गौतमीं वा महामते । दुःखिनां शरणं नान्यद् विद्यते भुवनत्रये
॥१६॥ब्रह्मोवाच:
एतच् छ्रुत्वा ततो राजा दुःखं संहृत्य यत्नतः । गौतम्या मध्यसंस्थोऽसाव् ऐलः परमधार्मिकः
॥१७॥तत्र चाराधयाम् आस शिवं देवं जनार्दनम् । ब्रह्माणं भास्करं गङ्गां देवान् अन्यांश् च यत्नतः
॥१८॥यो विपन्नो न तीर्थानि देवताश् च न सेवते । स कालवशगो जन्तुः कां दशाम् अनुयास्यति
॥१९॥तदीश्वरैकशरणो गौतमीसेवनोत्सुकः । परां श्रद्धाम् उपगतः संसारास्थापराङ्मुखः
॥२०॥ईजे यज्ञांश् च बहुलान् ऋत्विग्भिर् बहुदक्षिणान् । वेदद्वीपोऽभवत् तेन यज्ञद्वीपः स उच्यते
॥२१॥पौर्णमास्यां तु शर्वर्यां तत्रायाति सदोर्वशी । तस्य दीपस्य यः कुर्यात् प्रदक्षिणम् अथो नरः
॥२२॥प्रदक्षिणीकृता तेन पृथिवी सागराम्बरा । वेदानां स्मरणं तत्र यज्ञानां स्मरणं तथा
॥२३॥सुकृती तत्र यः कुर्याद् वेदयज्ञफलं लभेत् । ऐलतीर्थं तु तज् ज्ञेयं तद् एव च पुरूरवम्
॥२४॥वासिष्ठं चापि तत् तु स्यान् निम्नभेदं तद् उच्यते । ऐले राज्ञि न किञ्चित् स्यान् निम्नं सर्वेषु कर्मसु
॥२५॥यद् एतन् निम्नम् उर्वश्यां सर्वभावेन वर्तनम् । तच् चापि भेदितं निम्नं वसिष्ठेन च गङ्गया
॥२६॥निम्नभेदम् अभूत् तेन दृष्टादृष्टेष्टसिद्धिदम् । तत्र सप्त शतान्य् आहुस् तीर्थानि गुणवन्ति च
॥२७॥तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् । स्नानं कृत्वा निम्नभेदे यः पश्यति सुरान् इमान्
॥२८॥इह चामुत्र वा निम्नं न किञ्चित् तस्य विद्यते । सर्वोन्नतिम् अवाप्यासौ मोदते दिवि शक्रवत्
॥२९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).