अध्यायः १७८
व्यास उवाच:
तस्मिन् क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे । धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे
॥१॥कण्डुर् नाम महातेजा ऋषिः परमधार्मिकः । सत्यवादी शुचिर् दान्तः सर्वभूतहिते रतः
॥२॥जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः । अवाप परमां सिद्धिम् आराध्य पुरुषोत्तमम्
॥३॥अन्येऽपि तत्र संसिद्धा मुनयः संशितव्रताः । सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः
॥४॥मुनय ऊचुः:
कोऽसौ कण्डुः कथं तत्र जगाम परमां गतिम् । श्रोतुम् इच्छामहे तस्य चरितं ब्रूहि सत्तम
॥५॥व्यास उवाच:
शृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम् । प्रवक्ष्यामि समासेन मुनेस् तस्य विचेष्टितम्
॥६॥पवित्रे गोमतीतीरे विजने सुमनोहरे । कन्दमूलफलैः पूर्णे समित्पुष्पकुशान्वितैः
॥७॥नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते । नानापक्षिरुते रम्ये नानामृगगणान्विते
॥८॥तत्राश्रमपदं कण्डोर् बभूव मुनिसत्तमाः । सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम्
॥९॥तपस् तेपे मुनिस् तत्र सुमहत् परमाद्भुतम् । व्रतोपवासैर् नियमैः स्नानमौनसुसंयमैः
॥१०॥ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः । आर्द्रवासास् तु हेमन्ते स तेपे सुमहत् तपः
॥११॥दृष्ट्वा तु तपसो वीर्यं मुनेस् तस्य सुविस्मिताः । बभूवुर् देवगन्धर्वाः सिद्धविद्याधरास् तथा
॥१२॥भूमिं तथान्तरिक्षं च दिवं च मुनिसत्तमाः । कण्डुः सन्तापयाम् आस त्रैलोक्यं तपसो बलात्
॥१३॥अहोऽस्य परमं धैर्यम् अहोऽस्य परमं तपः । इत्य् अब्रुवंस् तदा दृष्ट्वा देवास् तं तपसि स्थितम्
॥१४॥मन्त्रयाम् आसुर् अव्यग्राः शक्रेण सहितास् तदा । भयात् तस्य समुद्विग्नास् तपोविघ्नम् अभीप्सवः
॥१५॥ज्ञात्वा तेषाम् अभिप्रायं शक्रस् त्रिभुवनेश्वरः । प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम्
॥१६॥सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम् । सर्वलक्षणसम्पन्नां प्रोवाच फलसूदनः
॥१७॥शक्र उवाच:
प्रम्लोचे गच्छ शीघ्रं त्वं यदासौ तप्यते मुनिः । विघ्नार्थं तस्य तपसः क्षोभयस्वांशु सुप्रभे
॥१८॥प्रम्लोचोवाच:
तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो । किन्तु शङ्का ममैवात्र जीवितस्य च संशयः
॥१९॥बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम् । अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम्
॥२०॥ज्ञात्वा मां स मुनिः क्रोधाद् विघ्नार्थं समुपागताम् । कण्डुः परमतेजस्वी शापं दास्यति दुःसहम्
॥२१॥उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला । विश्वाची सहजन्या च पूर्वचित्तिस् तिलोत्तमा
॥२२॥अलम्बुषा मिश्रकेशी शशिलेखा च वामना । अन्याश् चाप्सरसः सन्ति रूपयौवनगर्विताः
॥२३॥सुमध्याश् चारुवदनाः पीनोन्नतपयोधराः । कामप्रधानकुशलास् तास् तत्र सन्नियोजय
॥२४॥ब्रह्मोवाच:
तस्यास् तद् वचनं श्रुत्वा पुनः प्राह शचीपतिः । तिष्ठन्तु नाम चान्यास् तास् त्वं चात्र कुशला शुभे
॥२५॥कामं वसन्तं वायुं च सहायार्थे ददामि ते । तैः सार्धं गच्छ सुश्रोणि यत्रास्ते स महामुनिः
॥२६॥शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना । जगामाकाशमार्गेण तैः सार्धं चाश्रमं मुनेः
॥२७॥गत्वा सा तत्र रुचिरं ददर्श वनम् उत्तमम् । मुनिं च दीप्ततपसम् आश्रमस्थम् अकल्मषम्
॥२८॥अपश्यत् सा वनं रम्यं तैः सार्धं नन्दनोपमम् । सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम्
॥२९॥पुण्यं पद्मबलोपेतं सपल्लवमहाबलम् । श्रोत्ररम्यान् सुमधुराञ् शब्दान् खगमुखेरितान्
॥३०॥सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् । अपश्यत् पादपांश् चैव विहङ्गैर् अनुनादितान्
॥३१॥आम्रान् आम्रातकान् भव्यान् नारिकेरान् सतिन्दुकान् । अथ बिल्वांस् तथा जीवान् दाडिमान् बीजपूरकान्
॥३२॥पनसांल् लकुचान् नीपाञ् शिरीषान् सुमनोहरान् । पारावतांस् तथा कोलान् अरिमेदाम्लवेतसान्
॥३३॥भल्लातकान् आमलकाञ् शतपर्णांश् च किंशुकान् । इङ्गुदान् करवीरांश् च हरीतकीविभीतकान्
॥३४॥एतान् अन्यांश् च सा वृक्षान् ददर्श पृथुलोचना । तथैवाशोकपुन्नागकेतकीबकुलान् अथ
॥३५॥पारिजातान् कोविदारान् मन्दारेन्दीवरांस् तथा । पाटलाः पुष्पिता रम्या देवदारुद्रुमांस् तथा
॥३६॥शालांस् तालांस् तमालांश् च निचुलांल् लोमकांस् तथा । अन्यांश् च पादपश्रेष्ठान् अपश्यत् फलपुष्पितान्
॥३७॥चकोरैः शतपत्त्रैश् च भृङ्गराजैस् तथा शुकैः । कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः
॥३८॥प्रियपुत्रैश् चातकैश् च तथान्यैर् विविधैः खगैः । श्रोत्ररम्यं सुमधुरं कूजद्भिश् चाप्य् अधिष्ठितम्
॥३९॥सरांसि च मनोज्ञानि प्रसन्नसलिलानि च । कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः
॥४०॥कह्लारैः कमलैश् चैव आचितानि समन्ततः । कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः
॥४१॥कारण्डवैर् बकैर् हंसैः कूर्मैर् मद्गुभिर् एव च । एतैश् चान्यैश् च कीर्णानि समन्ताज् जलचारिभिः
॥४२॥क्रमेणैव तथा सा तु वनं बभ्राम तैः सह । एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्भुतम्
॥४३॥विस्मयोत्फुल्लनयना सा बभूव वराङ्गना । प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः
॥४४॥प्रम्लोचोवाच:
कुरुध्वं मम साहाय्यं यूयं सर्वे पृथक् पृथक्
॥४५॥ब्रह्मोवाच:
एवम् उक्त्वा तदा सा तु तथेत्य् उक्ता सुरैर् द्विजाः । प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः
॥४६॥अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् । स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम्
॥४७॥ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः । तथाप्य् अद्य करिष्यामि कामबाणक्षतान्तरम्
॥४८॥इत्य् उक्त्वा प्रययौ साथ यत्रासौ तिष्ठते मुनिः । मुनेस् तपःप्रभावेण प्रशान्तश्वापदाश्रमम्
॥४९॥सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता । स्तोकमात्रं स्थिता तस्माद् अगायत वराप्सराः
॥५०॥ततो वसन्तः सहसा बलं समकरोत् तदा । कोकिलारावमधुरम् अकालिकमनोहरम्
॥५१॥ववौ गन्धवहश् चैव मलयाद्रिनिकेतनः । पुष्पान् उच्चावचान् मेध्यान् पातयंश् च शनैः शनैः
॥५२॥पुष्पबाणधरश् चैव गत्वा तस्य समीपतः । मुनेश् च क्षोभयाम् आस कामस् तस्यापि मानसम्
॥५३॥ततो गीतध्वनिं श्रुत्वा मुनिर् विस्मितमानसः । जगाम यत्र सा सुभ्रूः कामबाणप्रपीडितः
॥५४॥दृष्ट्वा ताम् आह सन्दृष्टो विस्मयोत्फुल्ललोचनः । भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः
॥५५॥ऋषिर् उवाच:
कासि कस्यासि सुश्रोणि सुभगे चारुहासिनि । मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे
॥५६॥प्रम्लोचोवाच:
तव कर्मकरा चाहं पुष्पार्थम् अहम् आगता । आदेशं देहि मे क्षिप्रं किं करोमि तवाज्ञया
॥५७॥व्यास उवाच:
श्रुत्वैवं वचनं तस्यास् त्यक्त्वा धैर्यं विमोहितः । आदाय हस्ते तां बालां प्रविवेश स्वम् आश्रमम्
॥५८॥ततः कामश् च वायुश् च वसन्तश् च द्विजोत्तमाः । जग्मुर् यथागतं सर्वे कृतकृत्यास् त्रिविष्टपम्
॥५९॥शशंसुश् च हरिं गत्वा तस्यास् तस्य च चेष्टितम् । श्रुत्वा शक्रस् तदा देवाः प्रीताः सुमनसोऽभवन्
॥६०॥स च कण्डुस् तया सार्धं प्रविशन्न् एव चाश्रमम् । आत्मनः परमं रूपं चकार मदनाकृति
॥६१॥रूपयौवनसम्पन्नम् अतीव सुमनोहरम् । दिव्यालङ्कारसंयुक्तं षोडशवत्सराकृति
॥६२॥दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम् । सर्वोपभोगसम्पन्नं सहसा तपसो बलात्
॥६३॥दृष्ट्वा सा तस्य तद् वीर्यं परं विस्मयम् आगता । अहोऽस्य तपसो वीर्यम् इत्य् उक्त्वा मुदिताभवत्
॥६४॥स्नानं सन्ध्यां जपं होमं स्वाध्यायं देवतार्चनम् । व्रतोपवासनियमं ध्यानं च मुनिसत्तमाः
॥६५॥त्यक्त्वा स रेमे मुदितस् तया सार्धम् अहर्निशम् । मन्मथाविष्टहृदयो न बुबोध तपःक्षयम्
॥६६॥सन्ध्यारात्रिदिवापक्षमासर्त्वयनहायनम् । न बुबोध गतं कालं विषयासक्तमानसः
॥६७॥सा च तं कामजैर् भावैर् विदग्धा रहसि द्विजाः । वरयाम् आस सुश्रोणिः प्रलापकुशला तदा
॥६८॥एवं कण्डुस् तया सार्धं वर्षाणाम् अधिकं शतम् । अतिष्ठन् मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः
॥६९॥सा तं प्राह महाभागं गन्तुम् इच्छाम्य् अहं दिवम् । प्रसादसुमुखो ब्रह्मन्न् अनुज्ञातुं त्वम् अर्हसि
॥७०॥तयैवम् उक्तः स मुनिस् तस्याम् आसक्तमानसः । दिनानि कतिचिद् भद्रे स्थीयताम् इत्य् अभाषत
॥७१॥एवम् उक्ता ततस् तेन साग्रं वर्षशतं पुनः । बुभुजे विषयांस् तन्वी तेन सार्धं महात्मना
॥७२॥अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् । उक्तस् तयेति स पुनः स्थीयताम् इत्य् अभाषत
॥७३॥पुनर् गते वर्षशते साधिके सा शुभानना । याम्य् अहं त्रिदिवं ब्रह्मन् प्रणयस्मितशोभनम्
॥७४॥उक्तस् तयैवं स मुनिः पुनर् आहायतेक्षणाम् । इहास्यतां मया सुभ्रु चिरं कालं गमिष्यसि
॥७५॥तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः । शतद्वयं किञ्चिद् ऊनं वर्षाणां समतिष्ठत
॥७६॥गमनाय महाभागो देवराजनिवेशनम् । प्रोक्तः प्रोक्तस् तया तन्व्या स्थीयताम् इत्य् अभाषत
॥७७॥तस्य शापभयाद् भीरुर् दाक्षिण्येन च दक्षिणा । प्रोक्ता प्रणयभङ्गार्तिवेदिनी न जहौ मुनिम्
॥७८॥तया च रमतस् तस्य परमर्षेर् अहर्निशम् । नवं नवम् अभूत् प्रेम मन्मथासक्तचेतसः
॥७९॥एकदा तु त्वरायुक्तो निश्चक्रामोटजान् मुनिः । निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा
॥८०॥इत्य् उक्तः स तया प्राह परिवृत्तम् अहः शुभे । सन्ध्योपास्तिं करिष्यामि क्रियालोपोऽन्यथा भवेत्
॥८१॥ततः प्रहस्य मुदिता सा तं प्राह महामुनिम् । किम् अद्य सर्वधर्मज्ञ परिवृत्तम् अहस् तव । गतम् एतन् न कुरुते विस्मयं कस्य कथ्यते
॥८२॥मुनिर् उवाच:
प्रातस् त्वम् आगता भद्रे नदीतीरम् इदं शुभम् । मया दृष्टासि सुश्रोणि प्रविष्टा च ममाश्रमम्
॥८३॥इयं च वर्तते सन्ध्या परिणामम् अहो गतम् । अवहासः किमर्थोऽयं सद्भावः कथ्यतां मम
॥८४॥प्रम्लोचोवाच:
प्रत्यूषस्य् आगता ब्रह्मन् सत्यम् एतन् न मे मृषा । किन्त्व् अद्य तस्य कालस्य गतान्य् अब्दशतानि ते
॥८५॥ततः ससाध्वसो विप्रस् तां पप्रच्छायतेक्षणाम् । कथ्यतां भीरु कः कालस् त्वया मे रमतः सदा
॥८६॥प्रम्लोचोवाच:
सप्तोत्तराण्य् अतीतानि नववर्षशतानि च । मासाश् च षट् तथैवान्यत् समतीतं दिनत्रयम्
॥८७॥ऋषिर् उवाच:
सत्यं भीरु वदस्य् एतत् परिहासोऽथवा शुभे । दिनम् एकम् अहं मन्ये त्वया सार्धम् इहोषितम्
॥८८॥प्रम्लोचोवाच:
वदिष्याम्य् अनृतं ब्रह्मन् कथम् अत्र तवान्तिके । विशेषाद् अद्य भवता पृष्टा मार्गानुगामिना
॥८९॥व्यास उवाच:
निशम्य तद् वचस् तस्याः स मुनिर् द्विजसत्तमाः । धिग् धिङ् माम् इत्य् अनाचारं विनिन्द्यात्मानम् आत्मना
॥९०॥मुनिर् उवाच:
तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् । हृतो विवेकः केनापि योषिन् मोहाय निर्मिता
॥९१॥ऊर्मिषट्कातिगं ब्रह्म ज्ञेयम् आत्मजयेन मे । गतिर् एषा कृता येन धिक् तं काममहाग्रहम्
॥९२॥व्रतानि सर्ववेदाश् च कारणान्य् अखिलानि च । नरकग्राममार्गेण कामेनाद्य हतानि मे
॥९३॥विनिन्द्येत्थं स धर्मज्ञः स्वयम् आत्मानम् आत्मना । ताम् अप्सरसम् आसीनाम् इदं वचनम् अब्रवीत् ।
॥९४॥ऋषिर् उवाच:
गच्छ पापे यथाकामं यत् कार्यं तत् त्वया कृतम् । देवराजस्य यत् क्षोभं कुर्वन्त्या भावचेष्टितैः
॥९४॥न त्वां करोम्य् अहं भस्म क्रोधतीव्रेण वह्निना । सतां साप्तपदं मैत्र्यम् उषितोऽहं त्वया सह
॥९५॥अथवा तव दोषः कः किं वा कुर्याम् अहं तव । ममैव दोषो नितरां येनाहम् अजितेन्द्रियः
॥९६॥यथा शक्रप्रियार्थिन्या कृतो मत्तपसो व्ययः । त्वया दृष्टिमहामोहमनुनाहं जुगुप्सितः
॥९७॥व्यास उवाच:
यावद् इत्थं स विप्रर्षिस् तां ब्रवीति सुमध्यमाम् । तावत् स्खलत्स्वेदजला सा बभूवातिवेपथुः
॥९८॥प्रवेपमानां स च तां स्विन्नगात्रलतां सतीम् । गच्छ गच्छेति सक्रोधम् उवाच मुनिसत्तमः
॥९९॥सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् । आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः
॥१००॥वृक्षाद् वृक्षं ययौ बाला उदग्रारुणपल्लवैः । निर्ममार्ज च गात्राणि गलत्स्वेदजलानि वै
॥१०१॥ऋषिणा यस् तदा गर्भस् तस्या देहे समाहितः । निर्जगाम सरोमाञ्चस्वेदरूपी तदङ्गतः
॥१०२॥तं वृक्षा जगृहुर् गर्भम् एकं चक्रे च मारुतः । सोमेनाप्यायितो गोभिः स तदा ववृद्धे शनैः
॥१०३॥मारिषा नाम कन्याभूद् वृक्षाणां चारुलोचना । प्राचेतसानां सा भार्या दक्षस्य जननी द्विजाः
॥१०४॥स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः । पुरुषोत्तमाख्यं भो विप्रा विष्णोर् आयतनं ययौ
॥१०५॥ददर्श परमं क्षेत्रं मुक्तिदं भुवि दुर्लभम् । दक्षिणस्योदधेस् तीरे सर्वकामफलप्रदम्
॥१०६॥सुरम्यं वालुकाकीर्णं केतकीवनशोभितम् । नानाद्रुमलताकीर्णं नानापक्षिरुतं शिवम्
॥१०७॥सर्वत्र सुखसञ्चारं सर्वर्तुकुसुमान्वितम् । सर्वसौख्यप्रदं नॄणां धन्यं सर्वगुणाकरम्
॥१०८॥भृग्वाद्यैः सेवितं पूर्वं मुनिसिद्धवरैस् तथा । गन्धर्वैः किन्नरैर् यक्षैस् तथान्यैर् मोक्षकाङ्क्षिभिः
॥१०९॥ददर्श च हरिं तत्र देवैः सर्वैर् अलङ्कृतम् । ब्राह्मणाद्यैस् तथा वर्णैर् आश्रमस्थैर् निषेवितम्
॥११०॥दृष्ट्वैव स तदा क्षेत्रं देवं च पुरुषोत्तमम् । कृतकृत्यम् इवात्मानं मेने स मुनिसत्तमः
॥१११॥तत्रैकाग्रमना भूत्वा चकाराराधनं हरेः । ब्रह्मपारमयं कुर्वञ् जपम् एकाग्रमानसः । ऊर्ध्वबाहुर् महायोगी स्थित्वासौ मुनिसत्तमः
॥११२॥मुनय ऊचुः:
ब्रह्मपारं मुने श्रोतुम् इच्छामः परमं शुभम् । जपता कण्डुना देवो येनाराध्यत केशवः
॥११३॥व्यास उवाच:
पारं परं विष्णुर् अपारपारः । परः परेभ्यः परमात्मरूपः । स ब्रह्मपारः परपारभूतः । परः पराणाम् अपि पारपारः
॥११४॥स कारणं कारणसंश्रितोऽपि । तस्यापि हेतुः परहेतुहेतुः । रूपैर् अनेकैर् अवतीह सर्वम्
॥११५॥ब्रह्म प्रभुर् ब्रह्म स सर्वभूतो । ब्रह्म प्रजानां पतिर् अच्युतोऽसौ । ब्रह्माव्ययं नित्यम् अजं स विष्णुर् । अपक्षयाद्यैर् अखिलैर् असङ्गः
॥११६॥ब्रह्माक्षरम् अजं नित्यं यथासौ पुरुषोत्तमः । तथा रागादयो दोषाः प्रयान्तु प्रशमं मम
॥११७॥व्यास उवाच:
श्रुत्वा तस्य मुनेर् जाप्यं ब्रह्मपारं द्विजोत्तमाः । भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः
॥११८॥प्रीत्या स परया देवस् तदासौ भक्तवत्सलः । गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः
॥११९॥मेघगम्भीरया वाचा दिशः सन्नादयन्न् इव । आरुह्य गरुडं विप्रा विनताकुलनन्दनम्
॥१२०॥श्रीभगवान् उवाच:
मुने ब्रूहि परं कार्यं यत् ते मनसि वर्तते । वरदोऽहम् अनुप्राप्तो वरं वरय सुव्रत
॥१२१॥श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः । चक्षुर् उन्मील्य सहसा ददर्श पुरतो हरिम्
॥१२२॥अतसीपुष्पसङ्काशं पद्मपत्त्रायतेक्षणम् । शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम्
॥१२३॥चतुर्बाहुम् उदाराङ्गं पीतवस्त्रधरं शुभम् । श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम्
॥१२४॥सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम् । दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम्
॥१२५॥ततः स विस्मयाविष्टो रोमाञ्चिततनूरुहः । दण्डवत् प्रणिपत्योर्व्यां प्रणामम् अकरोत् तदा
॥१२६॥अद्य मे सफलं जन्म अद्य मे सफलं तपः । इत्य् उक्त्वा मुनिशार्दूलास् तं स्तोतुम् उपचक्रमे
॥१२७॥कण्डुर् उवाच:
नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते । जगद्बीज जगद्धाम जगत्साक्षिन् नमोऽस्तु ते
॥१२८॥अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम । पुण्डरीकाक्ष गोविन्द लोकनाथ नमोऽस्तु ते
॥१२९॥हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन । भूगर्भ ध्रुव ईशान हृषीकेश नमोऽस्तु ते
॥१३०॥अनाद्यन्तामृताजेय जय त्वं जयतां वर । अजिताखण्ड श्रीकृष्ण श्रीनिवास नमोऽस्तु ते
॥१३१॥पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित । दुःखार्तिनाशन हरे जलशायिन् नमोऽस्तु ते
॥१३२॥भूतपाव्यक्त भूतेश भूततत्त्वैर् अनाकुल । भूताधिवास भूतात्मन् भूतगर्भ नमोऽस्तु ते
॥१३३॥यज्ञयज्वन् यज्ञधर यज्ञधाताभयप्रद । यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमोऽस्तु ते
॥१३४॥क्षेत्रज्ञः क्षेत्रभृत् क्षेत्री क्षेत्रहा क्षेत्रकृद् वशी । क्षेत्रात्मन् क्षेत्ररहित क्षेत्रस्रष्ट्रे नमोऽस्तु ते
॥१३५॥गुणालय गुणावास गुणाश्रय गुणावह । गुणभोक्तृ गुणाराम गुणत्यागिन् नमोऽस्तु ते
॥१३६॥त्वं विष्णुस् त्वं हरिश् चक्री त्वं जिष्णुस् त्वं जनार्दनः । त्वं भूतस् त्वं वषट्कारस् त्वं भव्यस् त्वं भवत्प्रभुः
॥१३७॥त्वं भूतकृत् त्वम् अव्यक्तस् त्वं भवो भूतभृद् भवान् । त्वं भूतभावनो देवस् त्वाम् आहुर् अजम् ईश्वरम्
॥१३८॥त्वम् अनन्तः कृतज्ञस् त्वं प्रकृतिस् त्वं वृषाकपिः । त्वं रुद्रस् त्वं दुराधर्षस् त्वम् अमोघस् त्वम् ईश्वरः
॥१३९॥त्वं विश्वकर्मा जिष्णुस् त्वं त्वं शम्भुस् त्वं वृषाकृतिः । त्वं शङ्करस् त्वम् उशना त्वं सत्यं त्वं तपो जनः
॥१४०॥त्वं विश्वजेता त्वं शर्म त्वं शरण्यस् त्वम् अक्षरम् । त्वं शम्भुस् त्वं स्वयम्भूश् च त्वं ज्येष्ठस् त्वं परायणः
॥१४१॥त्वम् आदित्यस् त्वम् ओङ्कारस् त्वं प्राणस् त्वं तमिस्रहा । त्वं पर्जन्यस् त्वं प्रथितस् त्वं वेधास् त्वं सुरेश्वरः
॥१४२॥त्वम् ऋग् यजुः साम चैव त्वम् आत्मा सम्मतो भवान् । त्वम् अग्निस् त्वं च पवनस् त्वम् आपो वसुधा भवान्
॥१४३॥त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः । त्वं प्रभुस् त्वं विभुः श्रेष्ठस् त्वं लोकपतिर् अच्युतः
॥१४४॥त्वं सर्वदर्शनः श्रीमांस् त्वं सर्वदमनोऽरिहा । त्वम् अहस् त्वं तथा रात्रिस् त्वाम् आहुर् वत्सरं बुधाः
॥१४५॥त्वं कालस् त्वं कला काष्ठा त्वं मुहूर्तः क्षणा लवाः । त्वं बालस् त्वं तथा वृद्धस् त्वं पुमान् स्त्री नपुंसकः
॥१४६॥त्वं विश्वयोनिस् त्वं चक्षुस् त्वं स्थाणुस् त्वं शुचिश्रवाः । त्वं शाश्वतस् त्वम् अजितस् त्वम् उपेन्द्रस् त्वम् उत्तमः
॥१४७॥त्वं सर्वविश्वसुखदस् त्वं वेदाङ्गं त्वम् अव्ययः । त्वं वेदवेदस् त्वं धाता विधाता त्वं समाहितः
॥१४८॥त्वं जलनिधिर् आमूलं त्वं धाता त्वं पुनर् वसुः । त्वं वैद्यस् त्वं धृतात्मा च त्वम् अतीन्द्रियगोचरः
॥१४९॥त्वम् अग्रणीर् ग्रामणीस् त्वं त्वं सुपर्णस् त्वम् आदिमान् । त्वं सङ्ग्रहस् त्वं सुमहत् त्वं धृतात्मा त्वम् अच्युतः
॥१५०॥त्वं यमस् त्वं च नियमस् त्वं प्रांशुस् त्वं चतुर्भुजः । त्वम् एवान्नान्तरात्मा त्वं परमात्मा त्वम् उच्यते
॥१५१॥त्वं गुरुस् त्वं गुरुतमस् त्वं वामस् त्वं प्रदक्षिणः । त्वं पिप्पलस् त्वम् अगमस् त्वं व्यक्तस् त्वं प्रजापतिः
॥१५२॥हिरण्यनाभस् त्वं देवस् त्वं शशी त्वं प्रजापतिः । अनिर्देश्यवपुस् त्वं वै त्वं यमस् त्वं सुरारिहा
॥१५३॥त्वं च सङ्कर्षणो देवस् त्वं कर्ता त्वं सनातनः । त्वं वासुदेवोऽमेयात्मा त्वम् एव गुणवर्जितः
॥१५४॥त्वं ज्येष्ठस् त्वं वरिष्ठस् त्वं त्वं सहिष्णुश् च माधवः । सहस्रशीर्षा त्वं देवस् त्वम् अव्यक्तः सहस्रदृक्
॥१५५॥सहस्रपादस् त्वं देवस् त्वं विराट् त्वं सुरप्रभुः । त्वम् एव तिष्ठसे भूयो देवदेव दशाङ्गुलः
॥१५६॥यद् भूतं तत् त्वम् एवोक्तः पुरुषः शक्र उत्तमः । यद् भाव्यं तत् त्वम् ईशानस् त्वम् ऋतस् त्वं तथामृतः
॥१५७॥त्वत्तो रोहत्य् अयं लोको महीयांस् त्वम् अनुत्तमः । त्वं ज्यायान् पुरुषस् त्वं च त्वं देव दशधा स्थितः
॥१५८॥विश्वभूतश् चतुर्भागो नवभागोऽमृतो दिवि । नवभागोऽन्तरिक्षस्थः पौरुषेयः सनातनः
॥१५९॥भागद्वयं च भूसंस्थं चतुर्भागोऽप्य् अभूद् इह । त्वत्तो यज्ञाः सम्भवन्ति जगतो वृष्टिकारणम्
॥१६०॥त्वत्तो विराट् समुत्पन्नो जगतो हृदि यः पुमान् । सोऽतिरिच्यत भूतेभ्यस् तेजसा यशसा श्रिया
॥१६१॥त्वत्तः सुराणाम् आहारः पृषदाज्यम् अजायत । ग्राम्यारण्याश् चौषधयस् त्वत्तः पशुमृगादयः
॥१६२॥ध्येयध्यानपरस् त्वं च कृतवान् असि चौषधीः । त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः
॥१६३॥जङ्गमाजङ्गमं सर्वं जगद् एतच् चराचरम् । त्वत्तः सर्वम् इदं जातं त्वयि सर्वं प्रतिष्ठितम्
॥१६४॥अनिरुद्धस् त्वं माधवस् त्वं प्रद्युम्नः सुरारिहा । देव सर्वसुरश्रेष्ठ सर्वलोकपरायण
॥१६५॥त्राहि माम् अरविन्दाक्ष नारायण नमोऽस्तु ते । नमस् ते भगवन् विष्णो नमस् ते पुरुषोत्तम
॥१६६॥नमस् ते सर्वलोकेश नमस् ते कमलालय । गुणालय नमस् तेऽस्तु नमस् तेऽस्तु गुणाकर
॥१६७॥वासुदेव नमस् तेऽस्तु नमस् तेऽस्तु सुरोत्तम । जनार्दन नमस् तेऽस्तु नमस् तेऽस्तु सनातन
॥१६८॥नमस् ते योगिनां गम्य योगावास नमोऽस्तु ते । गोपते श्रीपते विष्णो नमस् तेऽस्तु मरुत्पते
॥१६९॥जगत्पते जगत्सूते नमस् ते ज्ञानिनां पते । दिवस्पते नमस् तेऽस्तु नमस् तेऽस्तु महीपते
॥१७०॥नमस् ते मधुहन्त्रे च नमस् ते पुष्करेक्षण । कैटभघ्न नमस् तेऽस्तु सुब्रह्मण्य नमोऽस्तु ते
॥१७१॥नमोऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत । समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे
॥१७२॥अश्वशीर्ष महाघोण महापुरुषविग्रह । मधुकैटभहन्त्रे च नमस् ते तुरगानन
॥१७३॥महाकमठभोगाय पृथिव्युद्धरणाय च । विधृताद्रिस्वरूपाय महाकूर्माय ते नमः
॥१७४॥नमो महावराहाय पृथिव्युद्धारकारिणे । नमश् चादिवराहाय विश्वरूपाय वेधसे
॥१७५॥नमोऽनन्ताय सूक्ष्माय मुख्याय च वराय च । परमाणुस्वरूपाय योगिगम्याय ते नमः
॥१७६॥तस्मै नमः कारणकारणाय । योगीन्द्रवृत्तनिलयाय सुदुर्विदाय । क्षीरार्णवाश्रितमहाहिसुतल्पगाय । तुभ्यं नमः कनकरत्नसुकुण्डलाय
॥१७७॥व्यास उवाच:
इत्थं स्तुतस् तदा तेन प्रीतः प्रोवाच माधवः । क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यद् अभिवाञ्छसि
॥१७८॥कण्डुर् उवाच:
संसारेऽस्मिञ् जगन्नाथ दुस्तरे लोमहर्षणे । अनित्ये दुःखबहुले कदलीदलसन्निभे
॥१७९॥निराश्रये निरालम्बे जलबुद्बुदचञ्चले । सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे
॥१८०॥भ्रमामि सुचिरं कालं मायया मोहितस् तव । न चान्तम् अभिगच्छामि विषयासक्तमानसः
॥१८१॥त्वाम् अहं चाद्य देवेश संसारभयपीडितः । गतोऽस्मि शरणं कृष्ण माम् उद्धर भवार्णवात्
॥१८२॥गन्तुम् इच्छामि परमं पदं यत् ते सनातनम् । प्रसादात् तव देवेश पुनरावृत्तिदुर्लभम्
॥१८३॥श्रीभगवान् उवाच:
भक्तोऽसि मे मुनिश्रेष्ठ माम् आराधय नित्यशः । मत्प्रसादाद् ध्रुवं मोक्षं प्राप्यसि त्वं समीहितम्
॥१८४॥मद्भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः । प्राप्नुवन्ति परां सिद्धिं किं पुनस् त्वं द्विजोत्तम
॥१८५॥श्वपाकोऽपि च मद्भक्तः सम्यक् श्रद्धासमन्वितः । प्राप्नोत्य् अभिमतां सिद्धिम् अन्येषां तत्र का कथा
॥१८६॥व्यास उवाच:
एवम् उक्त्वा तु तं विप्राः स देवो भक्तवत्सलः । दुर्विज्ञेयगतिर् विष्णुस् तत्रैवान्तरधीयत
॥१८७॥गते तस्मिन् मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः । सर्वान् कामान् परित्यज्य स्वस्थचित्तो भवत् पुनः
॥१८८॥सर्वेन्द्रियाणि संयम्य निर्ममो निरहङ्कृतिः । एकाग्रमानसः सम्यग् ध्यात्वा तं पुरुषोत्तमम्
॥१८९॥निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम् । अवाप परमं मोक्षं सुराणाम् अपि दुर्लभम्
॥१९०॥यः पठेच् छृणुयाद् वापि कथां कण्डोर् महात्मनः । विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति
॥१९१॥एवं मया मुनिश्रेष्ठाः कर्मभूमिर् उदाहृता । मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम्
॥१९२॥ये पश्यन्ति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदं । भक्त्या श्रीपुरुषोत्तमाख्यम् अजरं संसारदुःखापहम्
॥१९३॥ते भुक्त्वा मनुजेन्द्रभोगम् अमलाः स्वर्गे च दिव्यं सुखं । पश्चाद् यान्ति समस्तदोषरहिताः स्थानं हरेर् अव्ययम्
॥१९४॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).