मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ९७

3
ब्रह्मपुराणम् · 97

अध्यायः ९७

ब्रह्मोवाच:

पौलस्त्यं तीर्थम् आख्यातं सर्वसिद्धिप्रदं नृणाम् । प्रभावं तस्य वक्ष्यामि भ्रष्टराज्यप्रदायकम्

॥१॥

उत्तराशापतिः पूर्वम् ऋद्धिसिद्धिसमन्वितः । पुरा लङ्कापतिश् चासीज् ज्येष्ठो विश्रवसः सुतः

॥२॥

तस्यैते भ्रातरश् चासन् बलवन्तोऽमितप्रभाः । सापत्ना रावणश् चैव कुम्भकर्णो विभीषणः

॥३॥

तेऽपि विश्रवसः पुत्रा राक्षस्यां राक्षसास् तु ते । मद्दत्तेन विमानेन धनदो भ्रातृभिः सह

॥४॥

ममान्तिकं भक्तियुक्तो नित्यम् एति तु याति च । रावणस्य तु या माता कुपिता साब्रवीत् सुतान्

॥५॥

रावणमातोवाच:

मरिष्ये न च जीविष्ये पुत्रा वैरूप्यकारणात् । देवाश् च दानवाश् चासन् सापत्ना भ्रातरो मिथः

॥६॥

अन्योन्यवधम् ईप्सन्ते जयैश्वर्यवशानुगाः । तद्भवन्तो न पुरुषा न शक्ता न जयैषिणः । सापत्न्यं योऽनुमन्यते तस्य जीवो निरर्थकः

॥७॥

ब्रह्मोवाच:

तन् मातृवचनं श्रुत्वा भ्रातरस् ते त्रयो मुने । जग्मुस् ते तपसेऽरण्यं कृतवन्तस् तपो महत्

॥८॥

मत्तो वरान् अवापुश् च त्रय एते च राक्षसाः । मातुलेन मरीचेन तथा मातामहेन तु

॥९॥

तन्मातृवचनाच् चापि ततो लङ्काम् अयाचत । रक्षोभावान् मातृदोषाद् भ्रात्रोर् वैरम् अभून् महत्

॥१०॥

ततस् तद् अभवद् युद्धं देवदानवयोर् इव । युद्धे जित्वाग्रजं शान्तं धनदं भ्रातरं तथा

॥११॥

पुष्पकं च पुरीं लङ्कां सर्वं चैव व्यपाहरत् । रावणो घोषयाम् आस त्रैलोक्ये सचराचरे

॥१२॥

यो दद्याद् आश्रयं भ्रातुः स च वध्यो भवेन् मम । भ्रात्रा निरस्तो वैश्रवणो नैव प्रापाश्रयं क्वचित् । पितामहं पुलस्त्यं तं गत्वा नत्वाब्रवीद् वचः

॥१३॥

धनद उवाच:

भ्रात्रा निरस्तो दुष्टेन किं करोमि वदस्व मे । आश्रयः शरणं यत् स्याद् दैवं वा तीर्थम् एव च

॥१४॥

ब्रह्मोवाच:

तत् पौत्रवचनं श्रुत्वा पुलस्त्यो वाक्यम् अब्रवीत्

॥१५॥

पुलस्त्य उवाच:

गौतमीं गच्छ पुत्र त्वं स्तुहि देवं महेश्वरम् । तत्र नास्य प्रवेशः स्याद् गङ्गाया जलमध्यतः

॥१६॥

सिद्धिं प्राप्स्यसि कल्याणीं तथा कुरु मया सह

॥१७॥

ब्रह्मोवाच:

तथेत्य् उक्त्वा जगामासौ सभार्यो धनदस् तथा । पित्रा मात्रा च वृद्धेन पुलस्त्येन धनेश्वरः

॥१८॥

गत्वा तु गौतमीं गङ्गां शुचिः स्नात्वा यतव्रतः । तुष्टाव देवदेवेशं भुक्तिमुक्तिप्रदं शिवम्

॥१९॥

धनद उवाच:

स्वामी त्वम् एवास्य चराचरस्य । विश्वस्य शम्भो न परोऽस्ति कश्चित् । त्वाम् अप्य् अवज्ञाय यदीह मोहात् । प्रगल्भते कोपि स शोच्य एव

॥२०॥

त्वम् अष्टमूर्त्या सकलं बिभर्षि । त्वदाज्ञया वर्तत एव सर्वम् । तथापि वेदेति बुधो भवन्तं । न जात्व् अविद्वान् महिमा पुरातनम्

॥२१॥

मलप्रसूतं यद् अवोचद् अम्बा । हास्यात् सुतोऽयं तव देव शूरः । त्वत्प्रेक्षिताद् यः स च विघ्नराजो । जज्ञे त्व् अहो चेष्टितम् ईशदृष्टेः

॥२२॥

अश्रुप्लुताङ्गी गिरिजा समीक्ष्य । वियुक्तदाम्पत्यम् इतीशम् ऊचे । मनोभवोऽभून् मदनो रतिश् च । सौभाग्यपूर्वत्वम् अवाप सोमात्

॥२३॥

ब्रह्मोवाच:

इत्यादि स्तुवतस् तस्य पुरतोऽभूत् त्रिलोचनः । वरेण च्छन्दयाम् आस हर्षान् नोवाच किञ्चन

॥२४॥

तूष्णीम्भूते तु धनदे पुलस्त्ये च महेश्वरे । पुनः पुनर् वरस्वेति शिवे वादिनि हर्षिते

॥२५॥

एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी । प्राप्तव्यं धनपालत्वं वदन्तीदं महेश्वरम्

॥२६॥

पुलस्त्यस्य तु यच् चित्तं पितुर् वैश्रवणस्य तु । विदित्वेव तदा वाणी शुभम् अर्थम् उदीरयत्

॥२७॥

भूतवद् भवितव्यं स्याद् दास्यमानं तु दत्तवत् । प्राप्तव्यं प्राप्तवत् तत्र दैवी वाग् अभवच् छुभा

॥२८॥

प्रभूतशत्रुः परिभूतदुःखः । सम्पूज्य सोमेश्वरम् आप लिङ्गम् । दिगीश्वरत्वं द्रविणप्रभुत्वम् । अपारदातृत्वकलत्रपुत्रान्

॥२९॥

तां वाचं धनदः श्रुत्वा देवदेवं त्रिशूलिनम् । एवं भवतु नामेति धनदो वाक्यम् अब्रवीत्

॥३०॥

तथैवास्त्व् इति देवेशो दैवीं वाचम् अमन्यत । पुलस्त्यं च वरैः पुण्यैस् तथा विश्रवसं मुनिम्

॥३१॥

धनपालं च देवेशो ह्य् अभिनन्द्य ययौ शिवः । ततः प्रभृति तत् तीर्थं पौलस्त्यं धनदं विदुः

॥३२॥

तथा वैश्रवसं पुण्यं सर्वकामप्रदं शुभम् । तेषु स्नानादि यत् किञ्चित् तत् सर्वं बहुपुण्यदम्

॥३३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).