मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ७२

3
ब्रह्मपुराणम् · 72

अध्यायः ७२

ब्रह्मोवाच:

हिमवत्पर्वते श्रेष्ठे नानारत्नविचित्रिते । नानावृक्षलताकीर्णे नानाद्विजनिषेविते

॥१॥

नदीनदसरःकूपतडागादिभिर् आवृते । देवगन्धर्वयक्षादिसिद्धचारणसेविते

॥२॥

शुभमारुतसम्पन्ने हर्षोत्कर्षैककारणे । मेरुमन्दरकैलासमैनाकादिनगैर् वृते

॥३॥

वसिष्ठागस्त्यपौलस्त्यलोमशादिभिर् आवृते । महोत्सवे वर्तमाने विवाहः समजायत

॥४॥

तत्र वेदी रत्नमयी शोभिता स्वर्णभूषिता । वज्रमाणिक्यवैदूर्यतन्मयस्तम्भशोभिता

॥५॥

जयालक्ष्मीशुभाक्षान्तिकीर्तिपुष्ट्यादिसंवृता । मेरुमन्दरकैलासरैवतैः परिशोभितैः

॥६॥

पूजितो लोकनाथेन विष्णुना प्रभविष्णुना । मैनाकः पर्वतश्रेष्ठो रेजेऽतीव हिरण्मयः

॥७॥

ऋषयो लोकपालाश् च आदित्याः समरुद्गणाः । विवाहे वेदिकां चक्रुर् देवदेवस्य शूलिनः

॥८॥

विश्वकर्मा स्वयं त्वष्टा वेदीं चक्रे सतोरणाम् । सुरभी नन्दिनी नन्दा सुनन्दा कामदोहिनी

॥९॥

आभिस् तु शोभितेशान्या विवाहः समजायत । समुद्राः सरितो नागा ओषध्यो लोकमातरः

॥१०॥

सवनस्पतिबीजाश् च सर्वे तत्र समाययुः । भुवः कर्म इला चक्रे ओषध्यस् त्व् अन्नकर्म च

॥११॥

वरुणः पानकर्माणि दानकर्म धनाधिपः । अग्निश् चकार तत्रान्नं यच् चेष्टं लोकनाथयोः

॥१२॥

तत्र तत्र पृथक् पूजां चक्रे विष्णुः सनातनः । वेदाश् च सरहस्या वै गायन्ति च हसन्ति

॥१३॥

नृत्यन्त्य् अप्सरसः सर्वा जगुर् गन्धर्वकिन्नराः । लाजाधृक् चापि मैनाको बभूव मुनिसत्तम

॥१४॥

पुण्याहवाचनं वृत्तम् अन्तर्वेश्मनि नारद । वेदिकायाम् उपाविष्टौ दम्पती सुरसत्तमौ

॥१५॥

प्रतिष्ठाप्याग्निं विधिवद् अश्मानं चापि पुत्रक । हुत्वा लाजांश् च विधिवत् प्रदक्षिणम् अथाकरोत्

॥१६॥

अश्मनः स्पर्शहेतोश् च देव्यङ्गुष्ठं करेऽस्पृशत् । विष्णुना प्रेरितः शम्भुर् दक्षिणस्य पदस्य च

॥१७॥

ताम् अदर्शम् अहं तत्र होमं कुर्वन् हरान्तिके । दृष्टेऽङ्गुष्ठे दुष्टबुद्ध्या वीर्यं सुस्राव मे तदा

॥१८॥

लज्जया कलुषीभूतः स्कन्नं वीर्यम् अचूर्णयम् । मद्वीर्याच् चूर्णितात् सूक्ष्माद् वालखिल्यास् तु जज्ञिरे

॥१९॥

ततो महान् अभूत् तत्र हाहाकारः सुरोदितः । लज्जया परिभूतोऽहं निर्गतस् तु तदासनात्

॥२०॥

पश्यत्सु देवसङ्घेषु तूष्णीम्भूतेषु नारद । गच्छन्तं मां महादेवो दृष्ट्वा नन्दिनम् अब्रवीत्

॥२१॥

शिव उवाच:

ब्रह्माणम् आह्वयस्वेह गतपापं करोम्य् अहम् । कृतापराधेऽपि जने सन्तः सकृपमानसाः । मोहयन्त्य् अपि विद्वांसं विषयाणाम् इयं स्थितिः

॥२२॥

ब्रह्मोवाच:

एवम् उक्त्वा स भगवान् उमया सहितः शिवः । ममानुकम्पया चैव लोकानां हितकाम्यया

॥२३॥

एतच् चकार लोकेशः शृणु नारद यत्नतः । पापिनां पापमोक्षाय भूमिर् आपो भविष्यति

॥२४॥

तयोश् च सारसर्वस्वम् आहरिष्यामि पावनम् । एवं निश्चित्य भगवांस् तयोः सारं समाहरत्

॥२५॥

भूमिं कमण्डलुं कृत्वा तत्रापः सन्निवेश्य च । पावमान्यादिभिः सूक्तैर् अभिमन्त्र्य च यत्नतः

॥२६॥

त्रिजगत्पावनीं शक्तिं तत्र सस्मार पापहा । माम् उवाच स लोकेशो गृहाणेमं कमण्डलुम्

॥२७॥

आपो वै मातरो देव्यो भूमिर् माता तथापरा । स्थित्युत्पत्तिविनाशानां हेतुत्वम् उभयोः स्थितम्

॥२८॥

अत्र प्रतिष्ठितो धर्मो ह्य् अत्र यज्ञः सनातनः । अत्र भुक्तिश् च मुक्तिश् च स्थावरं जङ्गमं तथा

॥२९॥

स्मरणान् मानसं पापं वचनाद् वाचिकं तथा । स्नानपानाभिषेकाच् च प्रणश्यत्य् अपि कायिकम्

॥३०॥

एतद् एवामृतं लोके नैतस्मात् पावनं परम् । मयाभिमन्त्रितं ब्रह्मन् गृहाणेमं कमण्डलुम्

॥३१॥

अत्रत्यं वारि यः कश्चित् स्मरेद् अपि पठेद् अपि । स सर्वकामान् आप्नोति गृहाणेमं कमण्डलुम्

॥३२॥

भूतेभ्यश् चापि पञ्चभ्य आपो भूतं महोदितम् । तासाम् उत्कृष्टम् एतस्माद् गृहाणेमं कमण्डलुम्

॥३३॥

अत्र यद् वारि शोभिष्ठं पुण्यं पावनम् एव च । स्पृष्ट्वा स्मृत्वा च दृष्ट्वा च ब्रह्मन् पापाद् विमोक्ष्यसे

॥३४॥

एवम् उक्त्वा महादेवः प्रादान् मम कमण्डलुम् । ततः सुरगणाः सर्वे भक्त्या प्रोचुः सुरेश्वरम् । आह्लादश् च महांस् तत्र जयशब्दो व्यवर्तत

॥३५॥

देवोत्सवे मातुर् अजः पदाग्रं । समीक्ष्य पापात् पतितत्वम् आप । प्रादात् कृपालुः स्मरणात् पवित्रां । गङ्गां पिता पुण्यकमण्डलुस्थाम्

॥३८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).