अध्यायः २४५
वसिष्ठ उवाच:
अप्रबुद्धम् अथाव्यक्तम् इमं गुणनिधिं सदा । गुणानां धार्यतां तत्त्वं सृजत्य् आक्षिपते तथा
॥१॥अजो हि क्रीडया भूप विक्रियां प्राप्त इत्य् उत । आत्मानं बहुधा कृत्वा नानेव प्रतिचक्षते
॥२॥एतद् एवं विकुर्वाणो बुध्यमानो न बुध्यते । गुणान् आचरते ह्य् एष सृजत्य् आक्षिपते तथा
॥३॥अव्यक्तबोधनाच् चैव बुध्यमानं वदन्त्य् अपि । न त्व् एवं बुध्यतेऽव्यक्तं सगुणं तात निर्गुणम्
॥४॥कदाचित् त्व् एव खल्व् एतत् तद् आहुः प्रतिबुद्धकम् । बुध्यते यदि चाव्यक्तम् एतद् वै पञ्चविंशकम्
॥५॥बुध्यमानो भवत्य् एष ममात्मक इति श्रुतः । अन्योन्यप्रतिबुद्धेन वदन्त्य् अव्यक्तम् अच्युतम्
॥६॥अव्यक्तबोधनाच् चैव बुध्यमानं वदन्त्य् उत । पञ्चविंशं महात्मानं न चासाव् अपि बुध्यते
॥७॥षड्विंशं विमलं बुद्धम् अप्रमेयं सनातनम् । सततं पञ्चविंशं तु चतुर्विंशं विबुध्यते
॥८॥दृश्यादृश्ये ह्य् अनुगततत्स्वभावे महाद्युते । अव्यक्तं चैव तद् ब्रह्म बुध्यते तात केवलम्
॥९॥पञ्चविंशं चतुर्विंशम् आत्मानम् अनुपश्यति । बुध्यमानो यदात्मानम् अन्योऽहम् इति मन्यते
॥१०॥तदा प्रकृतिमान् एष भवत्य् अव्यक्तलोचनः । बुध्यते च परां बुद्धिं विशुद्धाम् अमलां यथा
॥११॥षड्विंशं राजशार्दूल तदा बुद्धः कृतो व्रजेत् । ततस् त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम्
॥१२॥निर्गुणां प्रकृतिं वेद गुणयुक्ताम् अचेतनाम् । ततः केवलधर्मासौ भवत्य् अव्यक्तदर्शनात्
॥१३॥केवलेन समागम्य विमुक्तात्मानम् आप्नुयात् । एतत् तु तत्त्वम् इत्य् आहुर् निस्तत्त्वम् अजरामरम्
॥१४॥तत्त्वसंश्रवणाद् एव तत्त्वज्ञो जायते नृप । पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः
॥१५॥न चैव तत्त्ववांस् तात संसारेषु निमज्जति । एषाम् उपैति तत्त्वं हि क्षिप्रं बुध्यस्व लक्षणम्
॥१६॥षड्विंशोऽयम् इति प्राज्ञो गृह्यमाणोऽजरामरः । केवलेन बलेनैव समतां यात्य् असंशयम्
॥१७॥षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्य् अबुद्धिमान् । एतन् नानात्वम् इत्य् उक्तं साङ्ख्यश्रुतिनिदर्शनात्
॥१८॥चेतनेन समेतस्य पञ्चविंशतिकस्य ह । एकत्वं वै भवेत् तस्य यदा बुद्ध्यानुबुध्यते
॥१९॥बुध्यमानेन बुद्धेन समतां याति मैथिल । सङ्गधर्मा भवत्य् एष निःसङ्गात्मा नराधिप
॥२०॥निःसङ्गात्मानम् आसाद्य षड्विंशं कर्मजं विदुः । विभुस् त्यजति चाव्यक्तं यदा त्व् एतद् विबुध्यते
॥२१॥चतुर्विंशम् अगाधं च षड्विंशस्य प्रबोधनात् । एष ह्य् अप्रतिबुद्धश् च बुध्यमानस् तु तेऽनघ
॥२२॥उक्तो बुद्धश् च तत्त्वेन यथाश्रुतिनिदर्शनात् । मशकोदुम्बरे यद्वद् अन्यत्वं तद्वद् एतयोः
॥२३॥मत्स्योदके यथा तद्वद् अन्यत्वम् उपलभ्यते । एवम् एव च गन्तव्यं नानात्वैकत्वम् एतयोः
॥२४॥एतावन् मोक्ष इत्य् उक्तो ज्ञानविज्ञानसञ्ज्ञितः । पञ्चविंशतिकस्याशु योऽयं देहे प्रवर्तते
॥२५॥एष मोक्षयितव्यैति प्राहुर् अव्यक्तगोचरात् । सोऽयम् एवं विमुच्येत नान्यथेति विनिश्चयः
॥२६॥परश् च परधर्मा च भवत्य् एव समेत्य वै । विशुद्धधर्मा शुद्धेन नाशुद्धेन च बुद्धिमान्
॥२७॥विमुक्तधर्मा बुद्धेन समेत्य पुरुषर्षभ । वियोगधर्मिणा चैव विमुक्तात्मा भवत्य् अथ
॥२८॥विमोक्षिणा विमोक्षश् च समेत्येह तथा भवेत् । शुचिकर्मा शुचिश् चैव भवत्य् अमितबुद्धिमान्
॥२९॥विमलात्मा च भवति समेत्य विमलात्मना । केवलात्मा तथा चैव केवलेन समेत्य वै । स्वतन्त्रश् च स्वतन्त्रेण स्वतन्त्रत्वम् अवाप्यते
॥३०॥एतावद् एतत् कथितं मया ते । तथ्यं महाराज यथार्थतत्त्वम् । अमत्सरस् त्वं प्रतिगृह्य बुद्ध्या । सनातनं ब्रह्म विशुद्धम् आद्यम्
॥३१॥तद् वेदनिष्ठस्य जनस्य राजन् । प्रदेयम् एतत् परमं त्वया भवेत् । विधित्समानाय निबोधकारकं । प्रबोधहेतोः प्रणतस्य शासनम्
॥३२॥न देयम् एतच् च यथानृतात्मने । शठाय क्लीबाय न जिह्मबुद्धये । न पण्डितज्ञानपरोपतापिने । देयं तथा शिष्यविबोधनाय
॥३३॥श्रद्धान्वितायाथ गुणान्विताय । परापवादाद् विरताय नित्यम् । विशुद्धयोगाय बुधाय चैव । कृपावतेऽथ क्षमिणे हिताय
॥३४॥विविक्तशीलाय विधिप्रियाय । विवादहीनाय बहुश्रुताय । विनीतवेशाय नहैतुकात्मने । सदैव गुह्यं त्व् इदम् एव देयम्
॥३५॥एतैर् गुणैर् हीनतमे न देयम् । एतत् परं ब्रह्म विशुद्धम् आहुः । न श्रेयसे योक्ष्यति तादृशे कृतं । धर्मप्रवक्तारम् अपात्रदानात्
॥३६॥पृथ्वीम् इमां वा यदि रत्नपूर्णां । दद्याद् अदेयं त्व् इदम् अव्रताय । जितेन्द्रियाय प्रयताय देयं । देयं परं तत्त्वविदे नरेन्द्र
॥३७॥कराल मा ते भयम् अस्ति किञ्चिद् । एतच् छ्रुतं ब्रह्म परं त्वयाद्य । यथावद् उक्तं परमं पवित्रं । विशोकम् अत्यन्तम् अनादिमध्यम्
॥३८॥अगाधम् एतद् अजरामरं च । निरामयं वीतभयं शिवं च । समीक्ष्य मोहं परवादसञ्ज्ञम् । एतस्य तत्त्वार्थम् इमं विदित्वा
॥३९॥अवाप्तम् एतद् धि पुरा सनातनाद् । धिरण्यगर्भाद् धि ततो नराधिप । प्रसाद्य यत्नेन तम् उग्रतेजसं । सनातनं ब्रह्म यथा त्वयैतत्
॥४०॥पृष्टस् त्वया चास्मि यथा नरेन्द्र । तथा मयेदं त्वयि नोक्तम् अन्यत् । यथावाप्तं ब्रह्मणो मे नरेन्द्र । महाज्ञानं मोक्षविदां परायणम्
॥४१॥व्यास उवाच:
एतद् उक्तं परं ब्रह्म यस्मान् नावर्तते पुनः । पञ्चविंशं मुनिश्रेष्ठा वसिष्ठेन यथा पुरा
॥४२॥पुनरावृत्तिम् आप्नोति परमं ज्ञानम् अव्ययम् । नाति बुध्यति तत्त्वेन बुध्यमानोऽजरामरम्
॥४३॥एतन् निःश्रेयसकरं ज्ञानं भोः परमं मया । कथितं तत्त्वतो विप्राः श्रुत्वा देवर्षितो द्विजाः
॥४४॥हिरण्यगर्भाद् ऋषिणा वसिष्ठेन समाहृतम् । वसिष्ठाद् ऋषिशार्दूलो नारदोऽवाप्तवान् इदम्
॥४५॥नारदाद् विदितं मह्यम् एतद् उक्तं सनातनम् । मा शुचध्वं मुनिश्रेष्ठाः श्रुत्वैतत् परमं पदम्
॥४६॥येन क्षराक्षरे भिन्ने न भयं तस्य विद्यते । विद्यते तु भयं यस्य यो नैनं वेत्ति तत्त्वतः
॥४७॥अविज्ञानाच् च मूढात्मा पुनः पुनर् उपद्रवान् । प्रेत्य जातिसहस्राणि मरणान्तान्य् उपाश्नुते
॥४८॥देवलोकं तथा तिर्यङ् मानुष्यम् अपि चाश्नुते । यदि वा मुच्यते वापि तस्माद् अज्ञानसागरात्
॥४९॥अज्ञानसागरे घोरे ह्य् अव्यक्तागाध उच्यते । अहन्य् अहनि मज्जन्ति यत्र भूतानि भो द्विजाः
॥५०॥तस्माद् अगाधाद् अव्यक्ताद् उपक्षीणात् सनातनात् । तस्माद् यूयं विरजस्का वितमस्काश् च भो द्विजाः
॥५१॥एवं मया मुनिश्रेष्ठाः सारात् सारतरं परम् । कथितं परमं मोक्षं यं ज्ञात्वा न निवर्तते
॥५२॥न नास्तिकाय दातव्यं नाभक्ताय कदाचन । न दुष्टमतये विप्रा न श्रद्धाविमुखाय च
॥५३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).