मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ४०

3
ब्रह्मपुराणम् · 40

अध्यायः ४०

ब्रह्मोवाच:

एवं दृष्ट्वा तदा दक्षः शम्भोर् वीर्यं द्विजोत्तमाः । प्राञ्जलिः प्रणतो भूत्वा संस्तोतुम् उपचक्रमे

॥१॥

दक्ष उवाच:

नमस् ते देवदेवेश नमस् तेऽन्धकसूदन । देवेन्द्र त्वं बलश्रेष्ठ देवदानवपूजित

॥२॥

सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय । सर्वतःपाणिपादस् त्वं सर्वतोक्षिशिरोमुखः

॥३॥

सर्वतःश्रुतिमांल् लोके सर्वम् आवृत्य तिष्ठसि । शङ्कुकर्णो महाकर्णः कुम्भकर्णोऽर्णवालयः

॥४॥

गजेन्द्रकर्णो गोकर्णः शतकर्णो नमोऽस्तु ते । शतोदरः शतावर्तः शतजिह्वः सनातनः

॥५॥

गायन्ति त्वां गायत्रिणो अर्चयन्त्य् अर्कम् अर्किणः । देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः

॥६॥

मूर्तिमांस् त्वं महामूर्तिः समुद्रः सरसां निधिः । त्वयि सर्वा देवता हि गावो गोष्ठ इवासते

॥७॥

त्वत्तः शरीरे पश्यामि सोमम् अग्निजलेश्वरम् । आदित्यम् अथ विष्णुं च ब्रह्माणं सबृहस्पतिम्

॥८॥

क्रिया करणकार्ये च कर्ता कारणम् एव च । असच् च सदसच् चैव तथैव प्रभवाव्ययौ

॥९॥

नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये चैव नमोऽस्त्व् अन्धकघातिने

॥१०॥

त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे । त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः

॥११॥

नमश् चण्डाय मुण्डाय विश्वचण्डधराय च । दण्डिने शङ्कुकर्णाय दण्डिदण्डाय वै नमः

॥१२॥

नमोऽर्धदण्डिकेशाय शुष्काय विकृताय च । विलोहिताय धूम्राय नीलग्रीवाय वै नमः

॥१३॥

नमोऽस्त्व् अप्रतिरूपाय विरूपाय शिवाय च । सूर्याय सूर्यपतये सूर्यध्वजपताकिने

॥१४॥

नमः प्रमथनाशाय वृषस्कन्धाय वै नमः । नमो हिरण्यगर्भाय हिरण्यकवचाय च

॥१५॥

हिरण्यकृतचूडाय हिरण्यपतये नमः । शत्रुघाताय चण्डाय पर्णसङ्घशयाय च

॥१६॥

नमः स्तुताय स्तुतये स्तूयमानाय वै नमः । सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने

॥१७॥

नमो होमाय मन्त्राय शुक्लध्वजपताकिने । नमोऽनम्याय नम्याय नमः किलकिलाय च

॥१८॥

नमस् त्वां शयमानाय शयितायोत्थिताय च । स्थिताय धावमानाय कुब्जाय कुटिलाय च

॥१९॥

नमो नर्तनशीलाय मुखवादित्रकारिणे । बाधापहाय लुब्धाय गीतवादित्रकारिणे

॥२०॥

नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च । उग्राय च नमो नित्यं नमश् च दशबाहवे

॥२१॥

नमः कपालहस्ताय सितभस्मप्रियाय च । विभीषणाय भीमाय भीष्मव्रतधराय च

॥२२॥

नानाविकृतवक्त्राय खड्गजिह्वोग्रदंष्ट्रिणे । पक्षमासलवार्धाय तुम्बीवीणाप्रियाय च

॥२३॥

अघोरघोररूपाय घोराघोरतराय च । नमः शिवाय शान्ताय नमः शान्ततमाय च

॥२४॥

नमो बुद्धाय शुद्धाय संविभागप्रियाय च । पवनाय पतङ्गाय नमः साङ्ख्यपराय च

॥२५॥

नमश् चण्डैकघण्टाय घण्टाजल्पाय घण्टिने । सहस्रशतघण्टाय घण्टामालाप्रियाय च

॥२६॥

प्राणदण्डाय नित्याय नमस् ते लोहिताय च । हूंहूङ्काराय रुद्राय भगाकारप्रियाय च

॥२७॥

नमोऽपारवते नित्यं गिरिवृक्षप्रियाय च । नमो यज्ञाधिपतये भूताय प्रसुताय च

॥२८॥

यज्ञवाहाय दान्ताय तप्याय च भगाय च । नमस् तटाय तट्याय तटिनीपतये नमः

॥२९॥

अन्नदायान्नपतये नमस् त्व् अन्नभुजाय च । नमः सहस्रशीर्षाय सहस्रचरणाय च

॥३०॥

सहस्रोद्धतशूलाय सहस्रनयनाय च । नमो बालार्कवर्णाय बालरूपधराय च

॥३१॥

नमो बालार्करूपाय बालक्रीडनकाय च । नमः शुद्धाय बुद्धाय क्षोभणाय क्षयाय च

॥३२॥

तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः । नमः षट्कर्मनिष्ठाय त्रिकर्मनियताय च

॥३३॥

वर्णाश्रमाणां विधिवत् पृथग्धर्मप्रवर्तिने । नमः श्रेष्ठाय ज्येष्ठाय नमः कलकलाय च

॥३४॥

श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च । धर्मकामार्थमोक्षाय क्रथाय क्रथनाय च

॥३५॥

साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः । नमो रथ्याधिरथ्याय चतुष्पथपथाय च

॥३६॥

कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने । ईशान रुद्रसङ्घात हरिकेश नमोऽस्तु ते

॥३७॥

त्र्यम्बकायाम्बिकानाथ व्यक्ताव्यक्त नमोऽस्तु ते । कालकामदकामघ्न दुष्टोद्वृत्तनिषूदन

॥३८॥

सर्वगर्हित सर्वघ्न सद्योजात नमोऽस्तु ते । उन्मादन शतावर्तगङ्गातोयार्द्रमूर्धज

॥३९॥

चन्द्रार्धसंयुगावर्त मेघावर्त नमोऽस्तु ते । नमोऽन्नदानकर्त्रे च अन्नदप्रभवे नमः

॥४०॥

अन्नभोक्त्रे च गोप्त्रे च त्वम् एव प्रलयानल । जरायुजाण्डजाश् चैव स्वेदजोद्भिज्ज एव च

॥४१॥

त्वम् एव देवदेवेश भूतग्रामश् चतुर्विधः । चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वम् एव च

॥४२॥

त्वम् एव ब्रह्मा विश्वेश अप्सु ब्रह्म वदन्ति ते । सर्वस्य परमा योनिः सुधांशो ज्योतिषां निधिः

॥४३॥

ऋक्सामानि तथौङ्कारम् आहुस् त्वां ब्रह्मवादिनः । हायि हायि हरे हायि हुवाहावेति वासकृत्

॥४४॥

गायन्ति त्वां सुरश्रेष्ठाः सामगा ब्रह्मवादिनः । यजुर्मय ऋङ्मयश् च सामाथर्वयुतस् तथा

॥४५॥

पठ्यसे ब्रह्मविद्भिस् त्वं कल्पोपनिषदां गणैः । ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णाश्रमाश् च ये

॥४६॥

त्वम् एवाश्रमसङ्घाश् च विद्युत् स्तनितम् एव च । संवत्सरस् त्वम् ऋतवो मासा मासार्धम् एव च

॥४७॥

कला काष्ठा निमेषाश् च नक्षत्राणि युगानि च । वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च

॥४८॥

सिंहो मृगाणां पतयस् तक्षकानन्तभोगिनाम् । क्षीरोदो ह्य् उदधीनां च मन्त्राणां प्रणवस् तथा

॥४९॥

वज्रं प्रहरणानां च व्रतानां सत्यम् एव च । त्वम् एवेच्छा च द्वेषश् च रागो मोहः शमः क्षमा

॥५०॥

व्यवसायो धृतिर् लोभः कामक्रोधौ जयाजयौ । त्वं गदी त्वं शरी चापी खट्वाङ्गी मुद्गरी तथा

॥५१॥

छेत्ता भेत्ता प्रहर्ता च नेता मन्तासि नो मतः । दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च

॥५२॥

इन्दुः समुद्रः सरितः पल्वलानि सरांसि च । लतावल्ल्यस् तृणौषध्यः पशवो मृगपक्षिणः

॥५३॥

द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः । आदिश् चान्तश् च मध्यश् च गायत्र्य् ओङ्कार एव च

॥५४॥

हरितो लोहितः कृष्णो नीलः पीतस् तथा क्षणः । कद्रुश् च कपिलो बभ्रुः कपोतो मच्छकस् तथा

॥५५॥

सुवर्णरेता विख्यातः सुवर्णश् चाप्य् अथो मतः । सुवर्णनामा च तथा सुवर्णप्रिय एव च

॥५६॥

त्वम् इन्द्रश् च यमश् चैव वरुणो धनदोऽनलः । उत्फुल्लश् चित्रभानुश् च स्वर्भानुर् भानुर् एव च

॥५७॥

होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः । त्रिसौपर्णस् तथा ब्रह्मन् यजुषां शतरुद्रियम्

॥५८॥

पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् । प्राणश् च त्वं रजश् च त्वं तमः सत्त्वयुतस् तथा

॥५९॥

प्राणोऽपानः समानश् च उदानो व्यान एव च । उन्मेषश् च निमेषश् च क्षुत्तृङ्जृम्भा तथैव च

॥६०॥

लोहिताङ्गश् च दंष्ट्री च महावक्त्रो महोदरः । शुचिरोमा हरिच्छ्मश्रुर् ऊर्ध्वकेशश् चलाचलः

॥६१॥

गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः । मत्स्यो जालो जलोऽजय्यो जलव्यालः कुटीचरः

॥६२॥

विकालश् च सुकालश् च दुष्कालः कालनाशनः । मृत्युश् चैवाक्षयोऽन्तश् च क्षमामायाकरोत्करः

॥६३॥

संवर्तो वर्तकश् चैव संवर्तकबलाहकौ । घण्टाकी घण्टकी घण्टी चूडालो लवणोदधिः

॥६४॥

ब्रह्मा कालाग्निवक्त्रश् च दण्डी मुण्डस् त्रिदण्डधृक् । चतुर्युगश् चतुर्वेदश् चतुर्होत्रश् चतुष्पथः

॥६५॥

चातुराश्रम्यनेता च चातुर्वर्ण्यकरश् च ह । क्षराक्षरः प्रियो धूर्तो गणैर् गण्यो गणाधिपः

॥६६॥

रक्तमाल्याम्बरधरो गिरीशो गिरिजाप्रियः । शिल्पीशः शिल्पिनः श्रेष्ठः सर्वशिल्पिप्रवर्तकः

॥६७॥

भगनेत्रान्तकश् चण्डः पूष्णो दन्तविनाशनः । स्वाहा स्वधा वषट्कारो नमस्कार नमोऽस्तु ते

॥६८॥

गूढव्रतश् च गूढश् च गूढव्रतनिषेवितः । तरणस् तारणश् चैव सर्वभूतेषु तारणः

॥६९॥

धाता विधाता सन्धाता निधाता धारणो धरः । तपो ब्रह्म च सत्यं च ब्रह्मचर्यं तथार्जवम्

॥७०॥

भूतात्मा भूतकृद् भूतो भूतभव्यभवोद्भवः । भूर् भुवः स्वरितश् चैव भूतो ह्य् अग्निर् महेश्वरः

॥७१॥

ब्रह्मावर्तः सुरावर्तः कामावर्त नमोऽस्तु ते । कामबिम्बविनिर्हन्ता कर्णिकारस्रजप्रियः

॥७२॥

गोनेता गोप्रचारश् च गोवृषेश्वरवाहनः । त्रैलोक्यगोप्ता गोविन्दो गोप्ता गोगर्ग एव च

॥७३॥

अखण्डचन्द्राभिमुखः सुमुखो दुर्मुखोऽमुखः । चतुर्मुखो बहुमुखो रणेष्व् अभिमुखः सदा

॥७४॥

हिरण्यगर्भः शकुनिर् धनदोऽर्थपतिर् विराट् । अधर्महा महादक्षो दण्डधारो रणप्रियः

॥७५॥

तिष्ठन् स्थिरश् च स्थाणुश् च निष्कम्पश् च सुनिश्चलः । दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः

॥७६॥

दुर्धरो दुर्वशो नित्यो दुर्दर्पो विजयो जयः । शशः शशाङ्कनयनशीतोष्णः क्षुत् तृषा जरा

॥७७॥

आधयो व्याधयश् चैव व्याधिहा व्याधिपश् च यः । सह्यो यज्ञमृगव्याधो व्याधीनाम् आकरोऽकरः

॥७८॥

शिखण्डी पुण्डरीकश् च पुण्डरीकावलोकनः । दण्डधृक् चक्रदण्डश् च रौद्रभागविनाशनः

॥७९॥

विषपोऽमृतपश् चैव सुरापः क्षीरसोमपः । मधुपश् चापपश् चैव सर्वपश् च बलाबलः

॥८०॥

वृषाङ्गराम्भो वृषभस् तथा वृषभलोचनः । वृषभश् चैव विख्यातो लोकानां लोकसंस्कृतः

॥८१॥

चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः । अग्निष्टोमस् तथा देहो धर्मकर्मप्रसाधितः

॥८२॥

न ब्रह्मा न च गोविन्दः पुराणर्षयो न च । माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव

॥८३॥

शिवा या मूर्तयः सूक्ष्मास् ते मह्यं यान्तु दर्शनम् । ताभिर् मां सर्वतो रक्ष पिता पुत्रम् इवौरसम्

॥८४॥

रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते । भक्तानुकम्पी भगवान् भक्तश् चाहं सदा त्वयि

॥८५॥

यः सहस्राण्य् अनेकानि पुंसाम् आवृत्य दुर्दृशाम् । तिष्ठत्य् एकः समुद्रान्ते स मे गोप्तास्तु नित्यशः

॥८६॥

यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः । ज्योतिः पश्यन्ति युञ्जानास् तस्मै योगात्मने नमः

॥८७॥

सम्भक्ष्य सर्वभूतानि युगान्ते समुपस्थिते । यः शेते जलमध्यस्थस् तं प्रपद्येऽम्बुशायिनम्

॥८८॥

प्रविश्य वदनं राहोर् यः सोमं पिबते निशि । ग्रसत्य् अर्कं च स्वर्भानुर् भूत्वा सोमाग्निर् एव च

॥८९॥

अङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । रक्षन्तु ते च मां नित्यं नित्यं चाप्याययन्तु माम्

॥९०॥

येनाप्य् उत्पादिता गर्भा अपो भागगताश् च ये । तेषां स्वाहा स्वधा चैव आप्नुवन्ति स्वदन्ति च

॥९१॥

येन रोहन्ति देहस्थाः प्राणिनो रोदयन्ति च । हर्षयन्ति न कृष्यन्ति नमस् तेभ्यस् तु नित्यशः

॥९२॥

ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च । वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च

॥९३॥

चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च

॥९४॥

येषु पञ्चसु भूतेषु दिशासु विदिशासु च । इन्द्रार्कयोर् मध्यगता ये च चन्द्रार्करश्मिषु

॥९५॥

रसातलगता ये च ये च तस्मात् परं गताः । नमस् तेभ्यो नमस् तेभ्यो नमस् तेभ्यस् तु सर्वशः

॥९६॥

सर्वस् त्वं सर्वगो देवः सर्वभूतपतिर् भवः । सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः

॥९७॥

त्वम् एव चेज्यसे देव यज्ञैर् विविधदक्षिणैः । त्वम् एव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः

॥९८॥

अथवा मायया देव मोहितः सूक्ष्मया तव । तस्मात् तु कारणाद् वापि त्वं मया न निमन्त्रितः

॥९९॥

प्रसीद मम देवेश त्वम् एव शरणं मम । त्वं गतिस् त्वं प्रतिष्ठा च न चान्योऽस्तीति मे मतिः

॥१००॥

ब्रह्मोवाच:

स्तुत्वैवं स महादेवं विरराम महामतिः । भगवान् अपि सुप्रीतः पुनर् दक्षम् अभाषत

॥१०१॥

श्रीभगवान् उवाच:

परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत । बहुना तु किम् उक्तेन मत्समीपं गमिष्यसि

॥१०२॥

ब्रह्मोवाच:

तथैवम् अब्रवीद् वाक्यं त्रैलोक्याधिपतिर् भवः । कृत्वाश्वासकरं वाक्यं सर्वज्ञो वाक्यसंहितम्

॥१०३॥

श्रीशिव उवाच:

दक्ष दुःखं न कर्तव्यं यज्ञविध्वंसनं प्रति । अहं यज्ञहनस् तुभ्यं दृष्टम् एतत् पुरानघ

॥१०४॥

भूयश् च त्वं वरम् इमं मत्तो गृह्णीष्व सुव्रत । प्रसन्नसुमुखो भूत्वा ममैकाग्रमनाः शृणु

॥१०५॥

अश्वमेधसहस्रस्य वाजपेयशतस्य वै । प्रजापते मत्प्रसादात् फलभागी भविष्यसि

॥१०६॥

वेदान् षडङ्गान् बुध्यस्व साङ्ख्ययोगांश् च कृत्स्नशः । तपश् च विपुलं तप्त्वा दुश्चरं देवदानवैः

॥१०७॥

अब्दैर् द्वादशभिर् युक्तं गूढम् अप्रज्ञनिन्दितम् । वर्णाश्रमकृतैर् धर्मैर् विनीतं न क्वचित् क्वचित्

॥१०८॥

समागतं व्यवसितं पशुपाशविमोक्षणम् । सर्वेषाम् आश्रमाणां च मया पाशुपतं व्रतम्

॥१०९॥

उत्पादितं दक्ष शुभं सर्वपापविमोचनम् । अस्य चीर्णस्य यत् सम्यक् फलं भवति पुष्कलम् । तच् चास्तु सुमहाभाग मानसस् त्यज्यतां ज्वरः

॥११०॥

ब्रह्मोवाच:

एवम् उक्त्वा तु देवेशः सपत्नीकः सहानुगः । अदर्शनम् अनुप्राप्तो दक्षस्यामिततेजसः

॥१११॥

अवाप्य च तथा भागं यथोक्तं चोमया भवः । ज्वरं च सर्वधर्मज्ञो बहुधा व्यभजत् तदा

॥११२॥

शान्त्यर्थं सर्वभूतानां शृणुध्वम् अथ वै द्विजाः । शिखाभितापो नागानां पर्वतानां शिलाजतु

॥११३॥

अपां तु नीलिकां विद्यान् निर्मोको भुजगेषु च । खोरकः सौरभेयाणाम् ऊखरः पृथिवीतले

॥११४॥

शुनाम् अपि च धर्मज्ञा दृष्टिप्रत्यवरोधनम् । रन्ध्रागतम् अथाश्वानां शिखोद्भेदश् च बर्हिणाम्

॥११५॥

नेत्ररागः कोकिलानां द्वेषः प्रोक्तो महात्मनाम् । जनानाम् अपि भेदश् च सर्वेषाम् इति नः श्रुतम्

॥११६॥

शुकानाम् अपि सर्वेषां हिक्किका प्रोच्यते ज्वरः । शार्दूलेष्व् अथ वै विप्राः श्रमो ज्वर इहोच्यते

॥११७॥

मानुषेषु च सर्वज्ञा ज्वरो नामैष कीर्तितः । मरणे जन्मनि तथा मध्ये चापि निवेशितः

॥११८॥

एतन् माहेश्वरं तेजो ज्वरो नाम सुदारुणः । नमस्यश् चैव मान्यश् च सर्वप्राणिभिर् ईश्वरः

॥११९॥

इमां ज्वरोत्पत्तिम् अदीनमानसः । पठेत् सदा यः सुसमाहितो नरः । विमुक्तरोगः स नरो मुदायुतो । लभेत कामांश् च यथामनीषितान्

॥१२०॥

दक्षप्रोक्तं स्तवं चापि कीर्तयेद् यः शृणोति वा । नाशुभं प्राप्नुयात् किञ्चिद् दीर्घम् आयुर् अवाप्नुयात्

॥१२१॥

यथा सर्वेषु देवेषु वरिष्ठो भगवान् भवः । तथा स्तवो वरिष्ठोऽयं स्तवानां दक्षनिर्मितः

॥१२२॥

यशःस्वर्गसुरैश्वर्यवित्तादिजयकाङ्क्षिभिः । स्तोतव्यो भक्तिम् आस्थाय विद्याकामैश् च यत्नतः

॥१२३॥

व्याधितो दुःखितो दीनो नरो ग्रस्तो भयादिभिः । राजकार्यनियुक्तो वा मुच्यते महतो भयात्

॥१२४॥

अनेनैव च देहेन गणानां च महेश्वरात् । इह लोके सुखं प्राप्य गणराड् उपजायते

॥१२५॥

न यक्षा न पिशाचा वा न नागा न विनायकाः । कुर्युर् विघ्नं गृहे तस्य यत्र संस्तूयते भवः

॥१२६॥

शृणुयाद् वा इदं नारी भक्त्याथ भवभाविता । पितृपक्षे भर्तृपक्षे पूज्या भवति चैव ह

॥१२७॥

शृणुयाद् वा इदं सर्वं कीर्तयेद् वाप्य् अभीक्ष्णशः । तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्य् अविघ्नतः

॥१२८॥

मनसा चिन्तितं यच् च यच् च वाचाप्य् उदाहृतम् । सर्वं सम्पद्यते तस्य स्तवस्यास्यानुकीर्तनात्

॥१२९॥

देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य च । बलिं विभजतः कृत्वा दमेन नियमेन च

॥१३०॥

ततः प्रयुक्तो गृह्णीयान् नामान्य् आशु यथाक्रमम् । ईप्सितांल् लभतेऽप्य् अर्थान् कामान् भोगांश् च मानवः

॥१३१॥

मृतश् च स्वर्गम् आप्नोति स्त्रीसहस्रसमावृतः । सर्वकामसुयुक्तो वा युक्तो वा सर्वपातकैः

॥१३२॥

पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते । मृतश् च गणसायुज्यं पूज्यमानः सुरासुरैः

॥१३३॥

वृषेण विनियुक्तेन विमानेन विराजते । आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत्

॥१३४॥

इत्य् आह भगवान् व्यासः पराशरसुतः प्रभुः । नैतद् वेदयते कश्चिन् नैतच् छ्राव्यं च कस्यचित्

॥१३५॥

श्रुत्वेमं परमं गुह्यं येऽपि स्युः पापयोनयः । वैश्याः स्त्रियश् च शूद्राश् च रुद्रलोकम् अवाप्नुयुः

॥१३६॥

श्रावयेद् यश् च विप्रेभ्यः सदा पर्वसु पर्वसु । रुद्रलोकम् अवाप्नोति द्विजो वै नात्र संशयः

॥१३७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).