अध्यायः ८३
ब्रह्मोवाच:
दशाश्वमेधिकं तीर्थं तच् छृणुष्व महामुने । यस्य श्रवणमात्रेण हयमेधफलं लभेत्
॥१॥विश्वकर्मसुतः श्रीमान् विश्वरूपो महाबलः । तस्यापि प्रथमः पुत्रस् तत्पुत्रो भौवनो विभुः
॥२॥पुरोधाः कश्यपस् तस्य सर्वज्ञानविशारदः । तम् अपृच्छन् महाबाहुर् भौवनः सार्वभौवनः
॥३॥यक्ष्येऽहं हयमेधैश् च युगपद् दशभिर् मुने । इत्य् अपृच्छद् गुरुं विप्रं क्व यक्ष्यामि सुरान् इति
॥४॥सोऽवदद् देवयजनं तत्र तत्र नृपोत्तम । यत्र यत्र द्विजश्रेष्ठाः प्रावर्तन्त महाक्रतून्
॥५॥तत्राभवन्न् ऋषिगणा आर्त्विज्ये मखमण्डले । युगपद् दशमेधानि प्रवृत्तानि पुरोधसा
॥६॥पूर्णतां नाययुस् तानि दृष्ट्वा चिन्तापरो नृपः । विहाय देवयजनं पुनर् अन्यत्र तान् क्रतून्
॥७॥उपाक्रामत् तथा तत्र विघ्नदोषास् तम् आययुः । दृष्ट्वापूर्णांस् ततो यज्ञान् राजा गुरुम् अभाषत
॥८॥राजोवाच:
देशदोषात् कालदोषान् मम दोषात् तवापि वा । पूर्णतां नाप्नुवन्ति स्म दशमेधानि वाजिनः
॥९॥ब्रह्मोवाच:
ततश् च दुःखितो राजा कश्यपेन पुरोधसा । गीष्पतेर् भ्रातरं ज्येष्ठं गत्वा संवर्तम् ऊचतुः
॥१०॥कश्यपभौवनाव् ऊचतुः:
भगवन् युगपत् कार्याण्य् अश्वमेधानि मानद । दश सम्पूर्णतां यान्ति तं देशं तं गुरुं वद
॥११॥ब्रह्मोवाच:
ततो ध्यात्वा ऋषिश्रेष्ठः संवर्तो भौवनं तदा । अब्रवीद् गच्छ ब्रह्माणं गुरुं देशं वदिष्यति
॥१२॥भौवनोऽपि महाप्राज्ञः कश्यपेन महात्मना । आगत्य माम् अब्रवीच् च गुरुं देशादिकं च यत्
॥१३॥ततोऽहम् अब्रवं पुत्र भौवनं कश्यपं तथा । गौतमीं गच्छ राजेन्द्र स देशः क्रतुपुण्यवान्
॥१४॥अयम् एव गुरुः श्रेष्ठः कश्यपो वेदपारगः । गुरोर् अस्य प्रसादेन गौतम्याश् च प्रसादतः
॥१५॥एकेन हयमेधेन तत्र स्नानेन वा पुनः । सेत्स्यन्ति तत्र यज्ञाश् च दशमेधानि वाजिनः
॥१६॥तच् छ्रुत्वा भौवनो राजा गौतमीतीरम् अभ्यगात् । कश्यपेन सहायेन हयमेधाय दीक्षितः
॥१७॥ततः प्रवृत्ते यज्ञेशे हयमेधे महाक्रतौ । सम्पूर्णे तु तदा राजा पृथिवीं दातुम् उद्यतः
॥१८॥ततोऽन्तरिक्षे वाग् उच्चैर् उवाच नृपसत्तमम् । पूजयित्वा स्थितं विप्रान् ऋत्विजोऽथ सदस्पतीन्
॥१९॥आकाशवाग् उवाच:
पुरोधसे कश्यपाय सशैलवनकाननाम् । पृथिवीं दातुकामेन दत्तं सर्वं त्वया नृप
॥२०॥भूमिदानस्पृहां त्यक्त्वा अन्नं देहि महाफलम् । नान्नदानसमं पुण्यं त्रिषु लोकेषु विद्यते
॥२१॥विशेषतस् तु गङ्गायाः श्रद्धया पुलिने मुने । त्वया तु हयमेधोऽयं कृतः सबहुदक्षिणः । कृतकृत्योऽसि भद्रं ते नात्र कार्या विचारणा
॥२२॥ब्रह्मोवाच:
तथापि दातुकामं तं मही प्रोवाच भौवनम्
॥२३॥पृथिव्य् उवाच:
विश्वकर्मज सार्वभौम मा मां देहि पुनः पुनः । निमज्जेऽहं सलिलस्य मध्ये तस्मान् न दीयताम्
॥२४॥ब्रह्मोवाच:
ततश् च भौवनो भीतः किं देयम् इति चाब्रवीत् । पुनश् चोवाच सा पृथ्वी भौवनं ब्राह्मणैर् वृतम्
॥२५॥भूम्य् उवाच:
तिला गावो धनं धान्यं यत् किञ्चिद् गौतमीतटे । सर्वं तद् अक्षयं दानं किं मां भौवन दास्यसि
॥२६॥गङ्गातीरं समाश्रित्य ग्रासम् एकं ददाति यः । तेनाहं सकला दत्ता किं मां भौवन दास्यसि
॥२७॥ब्रह्मोवाच:
तद् भुवो वचनं श्रुत्वा भौवनः सार्वभौवनः । तथेति मत्वा विप्रेभ्यो ह्य् अन्नं प्रादात् सुविस्तरम्
॥२८॥ततः प्रभृति तत् तीर्थं दशाश्वमेधिकं विदुः । दशानाम् अश्वमेधानां फलं स्नानाद् अवाप्यते
॥२९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).