मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १३९

3
ब्रह्मपुराणम् · 139

अध्यायः १३९

ब्रह्मोवाच:

खड्गतीर्थम् इति ख्यातं गौतम्या उत्तरे तटे । तत्र स्नानेन दानेन मुक्तिभागी भवेन् नरः

॥१॥

तत्र वृत्तं प्रवक्ष्यामि शृणु नारद यत्नतः । पैलूष इति विख्यातः कवषस्य सुतो द्विजः

॥२॥

कुटुम्बभारात् परितो ह्य् अर्थार्थी परिधावति । न किमप्य् आससादासौ ततो वैराग्यम् आस्थितः

॥३॥

अत्यन्तविमुखे दैवे व्यर्थीभूते तु पौरुषे । न वैराग्याद् अन्यद् अस्ति पण्डितस्यावलम्बनम्

॥४॥

इति सञ्चिन्तयाम् आस तदासौ निःश्वसन् मुहुः । क्रमागतं धनं नास्ति पोष्याश् च बहवो मम

॥५॥

मानी चात्मा न कष्टार्हो हा धिग् दुर्दैवचेष्टितम् । स कदाचिद् वृत्तियुतो वृत्तिभिः परिवर्तयन्

॥६॥

न लेभे तद् धनं वृत्तेर् विरागम् अगमत् तदा । सेवा निषिद्धा या काचिद् गहना दुष्करं तपः

॥७॥

बलाद् आकर्षतीयं मां तृष्णा सर्वत्र दुष्कृते । त्वयापकृतम् अज्ञानात् तस्मात् तृष्णे नमोऽस्तु ते

॥८॥

एवं विचिन्त्य मेधावी तृष्णाछेदाय किं भवेत् । इत्य् आलोच्य स पैलूषः पितरं वाक्यम् अब्रवीत्

॥९॥

पैलूष उवाच:

ज्ञानासिना क्रोधलोभौ संसृतिं चातिदुस्तराम् । छेद्मीमां केन हे तात तम् उपायं वद प्रभो

॥१०॥

कवष उवाच:

ईश्वराज् ज्ञानम् अन्विच्छेद् इत्य् एषा वैदिकी श्रुतिः । तस्माद् आराधयेशानं ततो ज्ञानम् अवाप्स्यसि

॥११॥

ब्रह्मोवाच:

तथेत्य् उक्त्वा स पैलूषो ज्ञानायेश्वरम् आर्चयत् । ततस् तुष्टो महेशानो ज्ञानं प्रादाद् द्विजातये । प्राप्तज्ञानो महाबुद्धिर् गाथाः प्रोवाच मुक्तिदाः

॥१२॥

पैलूष उवाच:

क्रोधस् तु प्रथमं शत्रुर् निष्फलो देहनाशनः । ज्ञानखड्गेन तं छित्त्वा परमं सुखम् आप्नुयात्

॥१३॥

तृष्णा बहुविधा माया बन्धनी पापकारिणी । छित्त्वैतां ज्ञानखड्गेन सुखं तिष्ठति मानवः

॥१४॥

सङ्गस् तु परमोऽधर्मो देवादीनाम् इति श्रुतिः । असङ्गस्यात्मनो ह्य् अस्य सङ्गोऽयं परमो रिपुः

॥१५॥

छित्त्वैनं ज्ञानखड्गेन शिवैकत्वम् अवाप्नुयात् । संशयः परमो नाशो धर्मार्थानां विनाशकृत्

॥१६॥

छित्त्वैनं संशयं जन्तुः परमेप्सितम् आप्नुयात् । पिशाचीव विशत्य् आशा निर्दहत्य् अखिलं सुखम् । पूर्णाहन्तासिना छित्त्वा जीवन् मुक्तिम् अवाप्नुयात्

॥१७॥

ब्रह्मोवाच:

ततो ज्ञानम् अवाप्यासौ गङ्गातीरं समाश्रितः । ज्ञानखड्गेन निर्मोहस् ततो मुक्तिम् अवाप सः

॥१८॥

ततः प्रभृति तत् तीर्थं खड्गतीर्थम् इति स्मृतम् । ज्ञानतीर्थं च कवषं पैलूषं सर्वकामदम्

॥१९॥

इत्यादिषट्सहस्राणि तीर्थान्य् आहुर् महर्षयः । अशेषपापतापौघहराणीष्टप्रदानि च

॥२०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).