मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १५२

3
ब्रह्मपुराणम् · 152

अध्यायः १५२

ब्रह्मोवाच:

नन्दीतटम् इति ख्यातं तीर्थं वेदविदो विदुः । तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद

॥१॥

अत्रिपुत्रो महातेजाश् चन्द्रमा इति विश्रुतः । सर्वान् वेदांश् च विधिवद् धनुर्वेदं यथाविधि

॥२॥

अधीत्य जीवात् सर्वाश् च विद्याश् चान्या महामते । गुरुपूजां करोमीति जीवम् आह स चन्द्रमाः । बृहस्पतिस् तदा प्राह चन्द्रं शिष्यं मुदान्वितः

॥३॥

बृहस्पतिर् उवाच:

मम प्रिया तु जानीते तारा रतिसमप्रभा

॥४॥

ब्रह्मोवाच:

प्रष्टुं तां च तदा प्रायाद् अन्तर् वेश्म स चन्द्रमाः । तारां तारामुखीं दृष्ट्वा जगृहे तां करेण सः

॥५॥

स्ववेश्म प्रति तां लोभाद् बलाद् आकर्षयत् तदा । तावद् धैर्यनिधिर् ज्ञानी मतिमान् विजितेन्द्रियः

॥६॥

यावन् न कामिनीनेत्रवागुराभिर् निबध्यते । विशेषतो रहःसंस्थां कामिनीम् आयतेक्षणाम्

॥७॥

विलोक्य न मनो याति कस्य कामेषु वश्यताम् । अत एवान्यपुरुषदर्शनं न कदाचन

॥८॥

कुलवध्वा रहः कार्यं भीतया शीलविप्लुतेः । विज्ञाय तत् परिजनात् सहसोत्थाय निर्गतः

॥९॥

दृष्ट्वा तद् दुष्कृतं कर्म बृहस्पतिर् उदारधीः । शशाप कोपाच् चाक्षिप्य वाग्भिर् विप्रियकारिभिः

॥१०॥

पराभिभूताम् आलोक्य कान्तां कः सोढुम् ईश्वरः । युयुधे तेन जीवोऽपि देवश् चन्द्रमसा रुषा

॥११॥

न शापैर् हन्यते चन्द्रो नायुधैः सुरमन्त्रितैः । बृहस्पतिप्रणीतैश् च न मन्त्रैर् हन्यते शशी

॥१२॥

तदा चन्द्रस् तु तां तारां नीत्वा संस्थाप्य मन्दिरे । बुभुजे बहुवर्षाणि रोहिणीं चाकुतोभयः

॥१३॥

न जीयेत तदा देवैर् न कोपैः शापमन्त्रकैः । न राजभिर् न ऋषिभिर् न साम्ना भेददण्डनैः

॥१४॥

यदा भार्यां न लेभेऽसौ गुरुः सर्वप्रयत्नतः । सर्वोपायक्षये जीवस् तदा नीतिम् अथास्मरत्

॥१५॥

अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । स्वार्थम् उद्धरते प्राज्ञः स्वार्थभ्रंशो हि मूर्खता

॥१६॥

साध्यं केनाप्य् उपायेन जानद्भिः पुरुषैः फलम् । वृथाभिमानिनः शीघ्रं विपद्यन्ते विमोहिताः

॥१७॥

एवं निश्चित्य मेधावी शुक्रं गत्वा न्यवेदयत् । तम् आगतं कविर् ज्ञात्वा सम्मानेनाभ्यनन्दयत्

॥१८॥

उपविष्टं सुविश्रान्तं पूजितं च यथाविधि । पर्यपृच्छद् दैत्यगुरुस् तदागमनकारणम्

॥१९॥

गृहागतस्य विमुखाः शत्रवोऽप्य् उत्तमा नहि । तस्मै स विस्तरेणाह भार्याहरणम् आदितः

॥२०॥

बृहस्पतेस् तदा वाक्यं श्रुत्वा कोपान्वितः कविः । अपराधं तु चन्द्रस्य मेने शिष्यस्य नारद । अतिक्रमम् इमं श्रुत्वा कोपात् कविर् अथाब्रवीत्

॥२१॥

शुक्र उवाच:

तदा भोक्ष्ये तदा पास्ये तदा स्वप्स्ये तदा वदे । यदानये प्रियां भ्रातस् तव भार्यां परार्दिताम्

॥२२॥

ताम् आनीय भवं पूज्य चन्द्रं शप्त्वा गुरुद्रुहम् । पश्चाद् भोक्ष्ये महाबाहो शृणु वाचं ग्रहेश्वर

॥२३॥

ब्रह्मोवाच:

एवम् उक्त्वा स जीवेन दैत्याचार्यो जगाम ह । शिवम् आराध्य यत्नेन परं सामर्थ्यम् आप्तवान्

॥२४॥

वरान् अवाप्य विविधाञ् शङ्कराद् भावपूजितात् । शिवप्रसादात् किं नाम देहिनाम् इह दुर्लभम्

॥२५॥

जगाम शुक्रो जीवेन तारया यत्र चन्द्रमाः । वर्तते तं शशापोच्चैः शृणु त्वं चन्द्र मे वचः

॥२६॥

यस्मात् पापतरं कर्म त्वया पाप मदात् कृतम् । कुष्ठी भूयास् ततश् चन्द्रं शशापैवं रुषा कविः

॥२७॥

कविशापप्रदग्धोऽभूत् तदैव मृगलाञ्छनः । प्रापुः क्षयं न के नाम गुरुस्वामिसखिद्रुहः

॥२८॥

तत्याज तां स चन्द्रोऽपि तां तारां जगृहे कविः । शुक्रोऽपि देवान् आहूय ऋषीन् पितृगणांस् तथा

॥२९॥

नदीर् नदांश् च विविधान् ओषधीश् च पतिव्रताः । ततः सम्प्रष्टुम् आरेभे तारावृत्तविनिष्क्रयम्

॥३०॥

ततः श्रुतिः सुरान् आह गौतम्यां भक्तितस् त्व् इयम् । स्नानं करोतु जीवेन तारा पूता भविष्यति

॥३१॥

रहस्यम् एतत् परमं न कथ्यं यस्य कस्यचित् । सर्वास्व् अपि दशास्व् एह शरणं गौतमी नृणाम्

॥३२॥

तथाकरोच् चैव तारा भर्त्रा स्नानं यथाविधि । पुष्पवृष्टिर् अभूत् तत्र जयशब्दो व्यवर्तत

॥३३॥

पुनर् वै देवा अददुः पुनर् मनुष्या उत । राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर् ददुः

॥३४॥

पुनर् दत्त्वा ब्रह्मजायां कृतां देवैर् अकल्मषाम् । सर्वं क्षेमम् अभूत् तत्र तस्मात् तीर्थं महामुने

॥३५॥

पुनर् दत्त्वा ब्रह्मजायां कृतां देवैर् अकल्मषाम् । सर्वं क्षेमम् अभूत् तत्र तस्मात् तीर्थं महामुने । तद् अभूत् सकलाघौघध्वंसनं सर्वकामदम् । आनन्दं क्षेमम् अभवत् सुराणाम् असुरारिणाम्

॥३६॥

बृहस्पतेश् च शुक्रस्य तारायाश् च विशेषतः । परमानन्दम् आपन्नो गुरुर् गङ्गाम् अभाषत

॥३७॥

गुरुर् उवाच:

त्वं गौतमि सदा पूज्या सर्वेषाम् अपि मुक्तिदा । विशेषतस् तु सिंहस्थे मयि त्रैलोक्यपावनी

॥३८॥

भविष्यसि सरिच्छ्रेष्ठे सर्वतीर्थैः समन्विता । यानि कानि च तीर्थानि स्वर्गमृत्युरसातले । त्वां स्नातुं तानि यास्यन्ति मयि सिंहस्थितेऽम्बिके

॥३९॥

ब्रह्मोवाच:

धन्यं यशस्यम् आयुष्यम् आरोग्यश्रीविवर्धनम् । सौभाग्यैश्वर्यजननं तीर्थम् आनन्दनामकम्

॥४०॥

तत्र पञ्च सहस्राणि तीर्थान्य् आह स गौतमः । स्मरणात् पठनाद् वापि इष्टैः संयुज्यते सदा

॥४१॥

शिवस्यात्र निविष्टस्य नन्दी गङ्गातटेऽनिशम् । साक्षाच् चरत्य् असौ धर्मस् तस्मान् नन्दीतटं स्मृतम् । आनन्दम् अपि तत् तीर्थं सर्वानन्दविवर्धनात्

॥४२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).