अध्यायः २३७
मुनय ऊचुः:
यद्य् एवं वेदवचनं कुरु कर्म त्यजेति च । कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा
॥१॥एतद् वै श्रोतुम् इच्छामस् तद् भवान् प्रब्रवीतु नः । एतद् अन्योन्यवैरूप्यं वर्तते प्रतिकूलतः
॥२॥व्यास उवाच:
शृणुध्वं मुनिशार्दूला यत् पृच्छध्वं समासतः । कर्मविद्यामयौ चोभौ व्याख्यास्यामि क्षराक्षरौ
॥३॥यां दिशं विद्यया यान्ति यां गच्छन्ति च कर्मणा । शृणुध्वं साम्प्रतं विप्रा गहनं ह्य् एतद् उत्तरम्
॥४॥अस्ति धर्म इति युक्तं नास्ति तत्रैव यो वदेत् । यक्षस्य सादृश्यम् इदं यक्षस्येदं भवेद् अथ
॥५॥द्वाव् इमाव् अथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तो वा विभाषितः
॥६॥कर्मणा बध्यते जन्तुर् विद्यया च विमुच्यते । तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः
॥७॥कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः । विद्यया जायते नित्यम् अव्यक्तं ह्य् अक्षरात्मकम्
॥८॥कर्म त्व् एके प्रशंसन्ति स्वल्पबुद्धिरता नराः । तेन ते देहजालेन रमयन्त उपासते
॥९॥ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः । न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्न् इव
॥१०॥कर्मणां फलम् आप्नोति सुखदुःखे भवाभवौ । विद्यया तद् अवाप्नोति यत्र गत्वा न शोचति
॥११॥न म्रियते यत्र गत्वा यत्र गत्वा न जायते । न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते
॥१२॥यत्र तद् ब्रह्म परमम् अव्यक्तम् अचलं ध्रुवम् । अव्याकृतम् अनायामम् अमृतं चाधियोगवित्
॥१३॥द्वन्द्वैर् न यत्र बाध्यन्ते मानसेन च कर्मणा । समाः सर्वत्र मैत्राश् च सर्वभूतहिते रताः
॥१४॥विद्यामयोऽन्यः पुरुषो द्विजाः कर्ममयोऽपरः । विप्राश् चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः
॥१५॥तद् एतद् ऋषिणा प्रोक्तं विस्तरेणानुगीयते । न वक्तुं शक्यते द्रष्टुं चक्रतन्तुम् इवाम्बरे
॥१६॥एकादशविकारात्मा कलासम्भारसम्भृतः । मूर्तिमान् इति तं विद्याद् विप्राः कर्मगुणात्मकम्
॥१७॥देवो यः संश्रितस् तस्मिन् बुद्धीन्दुर् इव पुष्करे । क्षेत्रज्ञं तं विजानीयान् नित्यं योगजितात्मकम्
॥१८॥तमो रजश् च सत्त्वं च ज्ञेयं जीवगुणात्मकम् । जीवम् आत्मगुणं विद्याद् आत्मानं परमात्मनः
॥१९॥सचेतनं जीवगुणं वदन्ति । स चेष्टते जीवगुणं च सर्वम् । ततः परं क्षेत्रविदो वदन्ति । प्रकल्पयन्तो भुवनानि सप्त
॥२०॥व्यास उवाच:
प्रकृत्यास् तु विकारा ये क्षेत्रज्ञास् ते परिश्रुताः । ते चैनं न प्रजानन्ति न जानाति स तान् अपि
॥२१॥तैश् चैव कुरुते कार्यं मनःषष्ठैर् इहेन्द्रियैः । सुदान्तैर् इव संयन्ता दृढः परमवाजिभिः
॥२२॥इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यः परमं मनः । मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः
॥२३॥महतः परम् अव्यक्तम् अव्यक्तात् परतोऽमृतम् । अमृतान् न परं किञ्चित् सा काष्ठा परमा गतिः
॥२४॥एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते । दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः
॥२५॥अन्तरात्मनि संलीय मनःषष्ठानि मेधया । इन्द्रियैर् इन्द्रियार्थांश् च बहुचित्तम् अचिन्तयन्
॥२६॥ध्यानेऽपि परमं कृत्वा विद्यासम्पादितं मनः । अनीश्वरः प्रशान्तात्मा ततो गच्छेत् परं पदम्
॥२७॥इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः । आत्मनः सम्प्रदानेन मर्त्यो मृत्युम् उपाश्नुते
॥२८॥विहत्य सर्वसङ्कल्पान् सत्त्वे चित्तं निवेशयेत् । सत्त्वे चित्तं समावेश्य ततः कालञ्जरो भवेत्
॥२९॥चित्तप्रसादेन यतिर् जहातीह शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखम् अत्यन्तम् अश्नुते
॥३०॥लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं भवेत् । निर्वाते वा यथा दीपो दीप्यमानो न कम्पते
॥३१॥एवं पूर्वापरे रात्रे युञ्जन्न् आत्मानम् आत्मना । लघ्वाहारो विशुद्धात्मा पश्यत्य् आत्मानम् आत्मनि
॥३२॥रहस्यं सर्ववेदानाम् अनैतिह्यम् अनागमम् । आत्मप्रत्यायकं शास्त्रम् इदं पुत्रानुशासनम्
॥३३॥धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद् वसु । दशवर्षसहस्राणि निर्मथ्यामृतम् उद्धृतम्
॥३४॥नवनीतं यथा दध्नः काष्ठाद् अग्निर् यथैव च । तथैव विदुषां ज्ञानं मुक्तिहेतोः समुद्धृतम्
॥३५॥स्नातकानाम् इदं शास्त्रं वाच्यं पुत्रानुशासनम् । तद् इदं नाप्रशान्ताय नादान्ताय तपस्विने
॥३६॥नावेदविदुषे वाच्यं तथा नानुगताय च । नासूयकायानृजवे न चानिर्दिष्टकारिणे
॥३७॥न तर्कशास्त्रदग्धाय तथैव पिशुनाय च । श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने
॥३८॥इदं प्रियाय पुत्राय शिष्यायानुगताय तु । रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथञ्चन
॥३९॥यद् अप्य् अस्य महीं दद्याद् रत्नपूर्णाम् इमां नरः । इदम् एव ततः श्रेय इति मन्येत तत्त्ववित्
॥४०॥अतो गुह्यतरार्थं तद् अध्यात्मम् अतिमानुषम् । यत् तन् महर्षिभिर् दृष्टं वेदान्तेषु च गीयते
॥४१॥तद् युष्मभ्यं प्रयच्छामि यन् मां पृच्छत सत्तमाः । यन् मे मनसि वर्तेत यस् तु वो हृदि संशयः । श्रुतं भवद्भिस् तत् सर्वं किम् अन्यत् कथयामि वः
॥४२॥मुनय ऊचुः:
अध्यात्मं विस्तरेणेह पुनर् एव वदस्व नः । यद् अध्यात्मं यथा विद्मो भगवन्न् ऋषिसत्तम
॥४३॥व्यास उवाच:
अध्यात्मं यद् इदं विप्राः पुरुषस्येह पठ्यते । युष्मभ्यं कथयिष्यामि तस्य व्याख्यावधार्यताम्
॥४४॥भूमिर् आपस् तथा ज्योतिर् वायुर् आकाशम् एव च । महाभूतानि यश् चैव सर्वभूतेषु भूतकृत्
॥४५॥मुनय ऊचुः:
आकारं तु भवेद् यस्य यस्मिन् देहं न पश्यति । आकाशाद्यं शरीरेषु कथं तद् उपवर्णयेत् । इन्द्रियाणां गुणाः केचित् कथं तान् उपलक्षयेत्
॥४६॥व्यास उवाच:
एतद् वो वर्णयिष्यामि यथावद् अनुदर्शनम् । शृणुध्वं तद् इहैकाग्र्या यथातत्त्वं यथा च तत्
॥४७॥शब्दः श्रोत्रं तथा खानि त्रयम् आकाशलक्षणम् । प्राणश् चेष्टा तथा स्पर्श एते वायुगुणास् त्रयः
॥४८॥रूपं चक्षुर् विपाकश् च त्रिधा ज्योतिर् विधीयते । रसोऽथ रसनं स्वेदो गुणास् त्व् एते त्रयोऽम्भसाम्
॥४९॥घ्रेयं घ्राणं शरीरं च भूमेर् एते गुणास् त्रयः । एतावान् इन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः
॥५०॥वायोः स्पर्शो रसोऽद्भ्यश् च ज्योतिषो रूपम् उच्यते । आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः
॥५१॥मनो बुद्धिः स्वभावश् च गुणा एते स्वयोनिजाः । ते गुणान् अतिवर्तन्ते गुणेभ्यः परमा मताः
॥५२॥यथा कूर्म इवाङ्गानि प्रसार्य सन्नियच्छति । एवम् एवेन्द्रियग्रामं बुद्धिश्रेष्ठो नियच्छति
॥५३॥यद् ऊर्ध्वं पादतलयोर् अवार्कोर्ध्वं च पश्यति । एतस्मिन्न् एव कृत्ये सा वर्तते बुद्धिर् उत्तमा
॥५४॥गुणैस् तु नीयते बुद्धिर् बुद्धिर् एवेन्द्रियाण्य् अपि । मनःषष्ठानि सर्वाणि बुद्ध्या भावात् कुतो गुणाः
॥५५॥इन्द्रियाणि नरैः पञ्च षष्ठं तन् मन उच्यते । सप्तमीं बुद्धिम् एवाहुः क्षेत्रज्ञं विद्धि चाष्टमम्
॥५६॥चक्षुर् आलोकनायैव संशयं कुरुते मनः । बुद्धिर् अध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते
॥५७॥रजस् तमश् च सत्त्वं च त्रय एते स्वयोनिजाः । समाः सर्वेषु भूतेषु तान् गुणान् उपलक्षयेत्
॥५८॥तत्र यत् प्रीतिसंयुक्तं किञ्चिद् आत्मनि लक्षयेत् । प्रशान्तम् इव संयुक्तं सत्त्वं तद् उपधारयेत्
॥५९॥यत् तु सन्तापसंयुक्तं काये मनसि वा भवेत् । प्रवृत्तं रज इत्य् एवं तत्र चाप्य् उपलक्षयेत्
॥६०॥यत् तु सम्मोहसंयुक्तम् अव्यक्तं विषमं भवेत् । अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत्
॥६१॥प्रहर्षः प्रीतिर् आनन्दं स्वाम्यं स्वस्थात्मचित्तता । अकस्माद् यदि वा कस्माद् वदन्ति सात्त्विकान् गुणान्
॥६२॥अभिमानो मृषावादो लोभो मोहस् तथाक्षमा । लिङ्गानि रजसस् तानि वर्तन्ते हेतुतत्त्वतः
॥६३॥तथा मोहः प्रमादश् च तन्द्री निद्राप्रबोधिता । कथञ्चिद् अभिवर्तन्ते विज्ञेयास् तामसा गुणाः
॥६४॥मनः प्रसृजते भावं बुद्धिर् अध्यवसायिनी । हृदयं प्रियम् एवेह त्रिविधा कर्मचोदना
॥६५॥इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः । मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा परः स्मृतः
॥६६॥बुद्धिर् आत्मा मनुष्यस्य बुद्धिर् एवात्मनायिका । यदा विकुरुते भावं तदा भवति सा मनः
॥६७॥इन्द्रियाणां पृथग्भावाद् बुद्धिर् विकुरुते ह्य् अनु । शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते
॥६८॥पश्यन्ती च भवेद् दृष्टी रसन्ती रसना भवेत् । जिघ्रन्ती भवति घ्राणं बुद्धिर् विकुरुते पृथक्
॥६९॥इन्द्रियाणि तु तान्य् आहुस् तेषां वृत्त्या वितिष्ठति । तिष्ठति पुरुषे बुद्धिर् बुद्धिभावव्यवस्थिता
॥७०॥कदाचिल् लभते प्रीतिं कदाचिद् अपि शोचति । न सुखेन च दुःखेन कदाचिद् इह मुह्यते
॥७१॥स्वयं भावात्मिका भावांस् त्रीन् एतान् अतिवर्तते । सरितां सागरो भर्ता महावेलाम् इवोर्मिमान्
॥७२॥यदा प्रार्थयते किञ्चित् तदा भवति सा मनः । अधिष्ठाने च वै बुद्ध्या पृथग् एतानि संस्मरेत्
॥७३॥इन्द्रियाणि च मेध्यानि विचेतव्यानि कृत्स्नशः । सर्वाण्य् एवानुपूर्वेण यद् यदा च विधीयते
॥७४॥अविभागमना बुद्धिर् भावो मनसि वर्तते । प्रवर्तमानस् तु रजः सत्त्वम् अप्य् अतिवर्तते
॥७५॥ये वै भावेन वर्तन्ते सर्वेष्व् एतेषु ते त्रिषु । अन्व् अर्थान् सम्प्रवर्तन्ते रथनेमिम् अरा इव
॥७६॥प्रदीपार्थं मनः कुर्याद् इन्द्रियैर् बुद्धिसत्तमैः । निश्चरद्भिर् यथायोगम् उदासीनैर् यदृच्छया
॥७७॥एवंस्वभावम् एवेदम् इति बुद्ध्वा न मुह्यति । अशोचन् सम्प्रहृष्यंश् च नित्यं विगतमत्सरः
॥७८॥न ह्य् आत्मा शक्यते द्रष्टुम् इन्द्रियैः कामगोचरैः । प्रवर्तमानैर् अनेकैर् दुर्धरैर् अकृतात्मभिः
॥७९॥तेषां तु मनसा रश्मीन् यदा सम्यङ् नियच्छति । तदा प्रकाशतेऽस्यात्मा दीपदीप्ता यथाकृतिः
॥८०॥सर्वेषाम् एव भूतानां तमस्य् उपगते यथा । प्रकाशं भवते सर्वं तथैवम् उपधार्यताम्
॥८१॥यथा वारिचरः पक्षी न लिप्यति जले चरन् । विमुक्तात्मा तथा योगी गुणदोषैर् न लिप्यते
॥८२॥एवम् एव कृतप्रज्ञो न दोषैर् विषयांश् चरन् । असज्जमानः सर्वेषु न कथञ्चित् प्रलिप्यते
॥८३॥त्यक्त्वा पूर्वकृतं कर्म रतिर् यस्य सदात्मनि । सर्वभूतात्मभूतस्य गुणसङ्गेन सज्जतः
॥८४॥स्वयम् आत्मा प्रसवति गुणेष्व् अपि कदाचन । न गुणा विदुर् आत्मानं गुणान् वेद स सर्वदा
॥८५॥परिदध्याद् गुणानां स द्रष्टा चैव यथातथम् । सत्त्वक्षेत्रज्ञयोर् एवम् अन्तरं लक्षयेन् नरः
॥८६॥सृजते तु गुणान् एक एको न सृजते गुणान् । पृथग्भूतौ प्रकृत्यैतौ सम्प्रयुक्तौ च सर्वदा
॥८७॥यथाश्मना हिरण्यस्य सम्प्रयुक्तौ तथैव तौ । मशकोदुम्बरौ वापि सम्प्रयुक्तौ यथा सह
॥८८॥इषिका वा यथा मुञ्जे पृथक् च सह चैव ह । तथैव सहिताव् एतौ अन्योन्यस्मिन् प्रतिष्ठितौ
॥८९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).