अध्यायः ८९
ब्रह्मोवाच:
अरुणा वरुणा चैव नद्यौ पुण्यतरे शुभे । तयोश् च सङ्गमः पुण्यो गङ्गायां मुनिसत्तम
॥१॥तदुत्पत्तिं शृणुष्वेह सर्वपापविनाशिनीम् । कश्यपस्य सुतो ज्येष्ठ आदित्यो लोकविश्रुतः
॥२॥त्रैलोक्यचक्षुस् तीक्ष्णांशुः सप्ताश्वो लोकपूजितः । तस्य पत्नी उषा ख्याता त्वाष्ट्री त्रैलोक्यसुन्दरी
॥३॥भर्तुः प्रतापतीव्रत्वम् असहन्ती सुमध्यमा । चिन्तयाम् आस किं कृत्यं मम स्याद् इति भामिनी
॥४॥तस्याः पुत्रौ महाराज्ञौ मनुर् वैवस्वतो यमः । यमुना च नदी पुण्या शृणु विस्मयकारणम्
॥५॥साकरोद् आत्मनश् छायाम् आत्मरूपेण यत्नतः । ताम् अब्रवीत् ततश् चोषा त्वं च मत्सदृशी भव
॥६॥भर्तारं त्वम् अपत्यानि पालयस्व ममाज्ञया । यावद् आगमनं मे स्यात् पत्युस् तावत् प्रिया भव
॥७॥नाख्यातव्यं त्वया क्वापि अपत्यानां तथा प्रिये । तथेत्य् आह च सा छाया निर्जगाम गृहाद् उषा
॥८॥इत्य् उक्त्वा सा जगामाशु शान्तं रूपम् अभीप्सती । सा गत्वोषा गृहं त्वष्टुः पित्रे सर्वं न्यवेदयत् । त्वष्टापि चकितः प्राह तां सुतां सुतवत्सलः
॥९॥त्वष्टोवाच:
नैतद् युक्तं भर्तृमत्या यत् स्वैरेण प्रवर्तनम् । अपत्यानां कथं वृत्तिर् भर्तुर् वा सवितुस् तव । बिभेमि भद्रे शिष्टोऽहं भर्तुर् गेहं पुनर् व्रज
॥१०॥ब्रह्मोवाच:
एवम् उक्ता तु पित्रा सा नेत्य् उक्त्वा वै पुनः पुनः । उत्तरं च कुरोर् देशं जगाम तपसे त्वरा
॥११॥तत्र तेपे तपस् तीव्रं वडवारूपधारिणी । दुष्प्रेक्षं तं स्वकं कान्तं ध्यायन्ती निश्चला उषा
॥१२॥एतस्मिन्न् अन्तरे तात छाया चोषास्वरूपिणी । पत्यौ सा वर्तयाम् आस अपत्यान्य् अथ जज्ञिरे
॥१३॥सावर्णिश् च शनिश् चैव विष्टिर् या दुष्टकन्यका । सा छाया वर्तयाम् आस वैषम्येणैव नित्यशः
॥१४॥स्वेष्व् अपत्येषु चोषाया यमस् तत्र चुकोप ह । वैषम्येणाथ वर्तन्तीं छायां तां मातरं तदा
॥१५॥ताडयाम् आस पादेन दक्षिणाशापतिर् यमः । पुत्रदौर्जन्यसङ्क्षोभाच् छाया वैवस्वतं यमम्
॥१६॥शशाप पाप ते पादो विशीर्यतु ममाज्ञया । विशीर्णचरणो दुःखाद् रुदन् पितरम् अभ्यगात् । सवित्रे तं तु वृत्तान्तं न्यवेदयद् अशेषतः
॥१७॥यम उवाच:
नेयं माता सुरश्रेष्ठ यया शप्तोऽहम् ईदृशः । अपत्येषु विरुद्धेषु जननी नैव कुप्यते
॥१८॥यद् बाल्याद् अब्रवं किञ्चिद् अथवा दुष्कृतं कृतम् । नैव कुप्यति सा माता तस्मान् नेयं ममाम्बिका
॥१९॥यद् अपत्यकृतं किञ्चित् साध्व् असाधु यथा तथा । मात्य् अस्यां सर्वम् अप्य् एतत् तस्मान् मातेति गीयते
॥२०॥प्रधक्ष्यन्तीव मां तात नित्यं पश्यति चक्षुषा । वक्त्य् अग्निकालसदृशा वाचा नेयं मदम्बिका
॥२१॥ब्रह्मोवाच:
तत् पुत्रवचनं श्रुत्वा सविताचिन्तयत् ततः । इयं छाया नास्य माता उषा माता तु सान्यतः
॥२२॥मम शान्तिम् अभीप्सन्ती देशेऽन्यस्मिंस् तपोरता । उत्तरे च कुरौ त्वाष्ट्री वडवारूपधारिणी
॥२३॥तत्रास्ते सा इति ज्ञात्वा जगामेशो दिवाकरः । यत्र सा वर्तते कान्ता अश्वरूपः स्वयं तदा
॥२४॥तां दृष्ट्वा वडवारूपां पर्यधावद् धयाकृतिः । कामातुरं हयं दृष्ट्वा श्रुत्वा वै हेषितस्वनम्
॥२५॥उषा पतिव्रतोपेता पतिध्यानपरायणा । हयधर्षणसम्भीता को न्व् अयं चेत्य् अजानती
॥२६॥अपलायत् पतौ प्राप्ते दक्षिणाभिमुखी त्वरा । को नु मे रक्षकोऽत्र स्याद् ऋषयो वाथवा सुराः
॥२७॥धावन्तीं तां प्रियाम् अश्वाम् अश्वरूपधरः स्वयम् । पर्यधावद् यतो याति उषा भानुस् ततस् ततः
॥२८॥स्मरग्रहवशे जातः को दुश्चेष्टं न चेष्टते । भागीरथीं नदीश् चान्या वनान्य् उपवनानि च
॥२९॥नर्मदां चाथ विन्ध्यं च दक्षिणाभिमुखाव् उभौ । अतिक्रम्य भयोद्विग्ना त्वाष्ट्र्य् अभ्यगाच् च गौतमीम्
॥३०॥त्रातारः सन्ति मुनयो जनस्थान इति श्रुतम् । ऋषीणाम् आश्रमं साश्वा प्रविष्टा गौतमीं तथा
॥३१॥अनुप्राप्तस् तथा चाश्वो भानुस् तद्रूपवांस् ततः । अश्वं निवारयाम् आसुर् जनस्था मुनिदारकाः । ततः कोपाद् ऋषींस् तांश् च शशापोषापतिः प्रभुः
॥३२॥भानुर् उवाच:
निवारयथ मां यस्माद् वटा यूयं भविष्यथ
॥३३॥ब्रह्मोवाच:
ज्ञानदृष्ट्या तु मुनयो मेनिरेऽश्वम् उषापतिम् । स्तुवन्तो देवदेवेशं भानुं तं मुनयो मुदा
॥३४॥स्तूयमानो मुनिगणैर् अश्वां भानुर् अथागमत् । वडवाया मुखे लग्नं मुखं चाश्वस्वरूपिणम्
॥३५॥ज्ञात्वा त्वाष्ट्री च भर्तारं मुखाद् वीर्यं प्रसुस्रुवे । तयोर् वीर्येण गङ्गायाम् अश्विनौ समजायताम्
॥३६॥तत्रागच्छन् सुरगणाः सिद्धाश् च मुनयस् तथा । नद्यो गावस् तथौषध्यो देवा ज्योतिर्गणास् तथा
॥३७॥सप्ताश्वश् च रथः पुण्यो ह्य् अरुणो भानुसारथिः । यमो मनुश् च वरुणः शनिर् वैवस्वतस् तथा
॥३८॥यमुना च नदी पुण्या तापी चैव महानदी । तत्तद्रूपं समास्थाय नद्यस् ता विस्मयान् मुने
॥३९॥द्रष्टुं ते विस्मयाविष्टा आजग्मुः श्वशुरस् तथा । अभिप्रायं विदित्वा तु श्वशुरं भानुर् अब्रवीत्
॥४०॥भानुर् उवाच:
उषायाः प्रीतये त्वष्टः कुर्वत्यास् तप उत्तमम् । यन्त्रारूढं च मां कृत्वा छिन्धि तेजांस्य् अनेकशः । यावत् सौख्यं भवेद् अस्यास् तावच् छिन्धि प्रजापते
॥४१॥ब्रह्मोवाच:
तथेत्य् उक्त्वा ततस् त्वष्टा सोमनाथस्य सन्निधौ । तेजसां छेदनं चक्रे प्रभासं तु ततो विदुः
॥४२॥भर्त्रा च सङ्गता यत्र गौतम्याम् अश्वरूपिणी । अश्विनोर् यत्र चोत्पत्तिर् अश्वतीर्थं तद् उच्यते
॥४३॥भानुतीर्थं तद् आख्यातं तथा पञ्चवटाश्रमः । तापी च यमुना चैव पितरं द्रष्टुम् आगते
॥४४॥अरुणावरुणानद्योर् गङ्गायां सङ्गमः शुभः । देवानां तत्र तीर्थानाम् आगतानां पृथक् पृथक्
॥४५॥नव त्रीणि सहस्राणि तीर्थानि गुणवन्ति च । तत्र स्नानं च दानं च सर्वम् अक्षयपुण्यदम्
॥४६॥स्मरणात् पठनाद् वापि श्रवणाद् अपि नारद । सर्वपापविनिर्मुक्तो धर्मवान् स सुखी भवेत्
॥४७॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).