मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ९८

3
ब्रह्मपुराणम् · 98

अध्यायः ९८

ब्रह्मोवाच:

अग्नितीर्थम् इति ख्यातं सर्वक्रतुफलप्रदम् । सर्वविघ्नोपशमनं तत्तीर्थस्य फलं शृणु

॥१॥

जातवेदा इति ख्यातो अग्नेर् भ्राता स हव्यवाट् । हव्यं वहन्तं देवानां गौतम्यास् तीर एव तु

॥२॥

ऋषीणां सत्त्रसदने अग्नेर् भ्रातरम् उत्तमम् । भ्रातुः प्रियं तथा दक्षं मधुर् दितिसुतो बली

॥३॥

जघान ऋषिमुख्येषु पश्यत्सु च सुरेष्व् अपि । हव्यं देवा नैव चापुर् मृते वै जातवेदसि

॥४॥

मृते भ्रातरि स त्व् अग्निः प्रिये वै जातवेदसि । कोपेन महताविष्टो गाङ्गम् अम्भः समाविशत्

॥५॥

गङ्गाम्भसि समाविष्टे ह्य् अग्नौ देवाश् च मानुषाः । जीवम् उत्सर्जयाम् आसुर् अग्निजीवा यतो मताः

॥६॥

यत्राग्निर् जलम् आविष्टस् तं देशं सर्व एव ते । आजग्मुर् विबुधाः सर्व ऋषयः पितरस् तथा

॥७॥

विनाग्निना न जीवामः स्तुवन्तोऽग्निं विशेषतः । अग्निं जलगतं दृष्ट्वा प्रियं चोचुर् दिवौकसः

॥८॥

देवा ऊचुः:

देवाञ् जीवय हव्येन कव्येन च पितॄंस् तथा । मानुषान् अन्नपाकेन बीजानां क्लेदनेन च

॥९॥

ब्रह्मोवाच:

अग्निर् अप्य् आह तान् देवाञ् शक्तो यो मे गतोऽनुजः । क्रियमाणे भवत्कार्ये या गतिर् जातवेदसः

॥१०॥

सा वापि स्यान् मम सुरा नोत्सहे कार्यसाधने । कार्यं तु सर्वतस् तस्य भवतां जातवेदसः

॥११॥

इमां स्थितिम् अनुप्राप्तो न जाने मे कथं भवेत् । इह चामुत्र च व्याप्तौ शक्तिर् अप्य् अत्र नो भवेत्

॥१२॥

अथापि क्रियमाणे वै कार्ये सैव गतिर् मम । देवास् तम् ऊचुर् भावेन सर्वेण ऋषयस् तथा

॥१३॥

आयुः कर्मणि च प्रीतिर् व्याप्तौ शक्तिश् च दीयते । प्रयाजान् अनुयाजांश् च दास्यामो हव्यवाहन

॥१४॥

देवानां त्वं मुखं श्रेष्ठम् आहुत्यः प्रथमास् तव । त्वया दत्तं तु यद् द्रव्यं भोक्ष्यामः सुरसत्तम

॥१५॥

ब्रह्मोवाच:

ततस् तुष्टोऽभवद् वह्निर् देववाक्याद् यथाक्रमम् । इह चामुत्र च व्याप्तौ हव्ये वा लौकिके तथा

॥१६॥

सर्वत्र वह्निर् अभयः समर्थोऽभूत् सुराज्ञया । जातवेदा बृहद्भानुः सप्तार्चिर् नीललोहितः

॥१७॥

जलगर्भः शमीगर्भो यज्ञगर्भः स उच्यते । जलाद् आकृष्य विबुधा अभिषिच्य विभावसुम्

॥१८॥

उभयत्र पदे वासः सर्वगोऽग्निस् ततोऽभवत् । यथागतं सुरा जग्मुर् वह्नितीर्थं तद् उच्यते

॥१९॥

तत्र सप्त शतान्य् आसंस् तीर्थानि गुणवन्ति च । तेषु स्नानं च दानं च यः करोति जितात्मवान्

॥२०॥

अश्वमेधफलं साग्रं प्राप्नोत्य् अविकलं शुभम् । देवतीर्थं च तत्रैव आग्नेयं जातवेदसम्

॥२१॥

अग्निप्रतिष्ठितं लिङ्गं तत्रास्तेऽनेकवर्णवत् । तद्देवदर्शनाद् एव सर्वक्रतुफलं लभेत्

॥२२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).