अध्यायः २२७
मुनय ऊचुः:
अहो कृष्णस्य माहात्म्यं श्रुतम् अस्माभिर् अद्भुतम् । सर्वपापहरं पुण्यं धन्यं संसारनाशनम्
॥१॥सम्पूज्य विधिवद् भक्त्या वासुदेवं महामुने । कां गतिं यान्ति मनुजा वासुदेवार्चने रताः
॥२॥किं प्राप्नुवन्ति ते मोक्षं किं वा स्वर्गं महामुने । अथवा किं मुनिश्रेष्ठ प्राप्नुवन्त्य् उभयं फलम्
॥३॥छेत्तुम् अर्हसि सर्वज्ञ संशयं नो हृदि स्थितम् । छेत्ता नान्योऽस्ति लोकेऽस्मिंस् त्वदृते मुनिसत्तम
॥४॥व्यास उवाच:
साधु साधु मुनिश्रेष्ठा भवद्भिर् यद् उदाहृतम् । शृणुध्वम् आनुपूर्व्येण वैष्णवानां सुखावहम्
॥५॥दीक्षामात्रेण कृष्णस्य नरा मोक्षं व्रजन्ति वै । किं पुनर् ये सदा भक्त्या पूजयन्त्य् अच्युतं द्विजाः
॥६॥न तेषां दुर्लभः स्वर्गो मोक्षश् च मुनिसत्तमाः । लभन्ते वैष्णवाः कामान् यान् यान् वाञ्छन्ति दुर्लभान्
॥७॥रत्नपर्वतम् आरुह्य नरो रत्नं यथाददेत् । स्वेच्छया मुनिशार्दूलास् तथा कृष्णान् मनोरथान्
॥८॥कल्पवृक्षं समासाद्य फलानि स्वेच्छया यथा । गृह्णाति पुरुषो विप्रास् तथा कृष्णान् मनोरथान्
॥९॥श्रद्धया विधिवत् पूज्य वासुदेवं जगद्गुरुम् । धर्मार्थकाममोक्षाणां प्राप्नुवन्ति नराः फलम्
॥१०॥आराध्य तं जगन्नाथं विशुद्धेनान्तरात्मना । प्राप्नुवन्ति नराः कामान् सुराणाम् अपि दुर्लभान्
॥११॥येऽर्चयन्ति सदा भक्त्या वासुदेवाख्यम् अव्ययम् । न तेषां दुर्लभं किञ्चिद् विद्यते भुवनत्रये
॥१२॥धन्यास् ते पुरुषा लोके येऽर्चयन्ति सदा हरिम् । सर्वपापहरं देवं सर्वकामफलप्रदम्
॥१३॥ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः । सम्पूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम्
॥१४॥तस्माच् छृणुध्वं मुनयो यत् पृच्छत ममानघाः । प्रवक्ष्यामि समासेन गतिं तेषां महात्मनाम्
॥१५॥त्यक्त्वा मानुष्यकं देहं रोगायतनम् अध्रुवम् । जरामरणसंयुक्तं जलबुद्बुदसन्निभम्
॥१६॥मांसशोणितदुर्गन्धं विष्ठामूत्रादिभिर् युतम् । अस्थिस्थूणम् अमेध्यं च स्नायुचर्मशिरान्वितम्
॥१७॥कामगेन विमानेन दिव्यगन्धर्वनादिना । तरुणादित्यवर्णेन किङ्किणीजालमालिना
॥१८॥उपगीयमाना गन्धर्वैर् अप्सरोभिर् अलङ्कृताः । व्रजन्ति लोकपालानां भवनं तु पृथक् पृथक्
॥१९॥मन्वन्तरप्रमाणं तु भुक्त्वा कालं पृथक् पृथक् । भुवनानि पृथक् तेषां सर्वभोगैर् अलङ्कृताः
॥२०॥ततोऽन्तरिक्षं लोकं ते यान्ति सर्वसुखप्रदम् । तत्र भुक्त्वा वरान् भोगान् दशमन्वन्तरं द्विजाः
॥२१॥तस्माद् गन्धर्वलोकं तु यान्ति वै वैष्णवा द्विजाः । विंशन्मन्वन्तरं कालं तत्र भुक्त्वा मनोरमान्
॥२२॥भोगान् आदित्यलोकं तु तस्माद् यान्ति सुपूजिताः । त्रिंशन्मन्वन्तरं तत्र भोगान् भुक्त्वातिदैवतान्
॥२३॥तस्माद् व्रजन्ति ते विप्राश् चन्द्रलोकं सुखप्रदम् । मन्वन्तराणां ते तत्र चत्वारिंशद् गुणान्वितम्
॥२४॥कालं भुक्त्वा शुभान् भोगाञ् जरामरणवर्जिताः । तस्मान् नक्षत्रलोकं तु विमानैः समलङ्कृतम्
॥२५॥व्रजन्ति ते मुनिश्रेष्ठा गुणैः सर्वैर् अलङ्कृताः । मन्वन्तराणां पञ्चाशद् भुक्त्वा भोगान् यथेप्सितान्
॥२६॥तस्माद् व्रजन्ति ते विप्रा देवलोकं सुदुर्लभम् । षष्टिमन्वन्तरं यावत् तत्र भुक्त्वा सुदुर्लभान्
॥२७॥भोगान् नानाविधान् विप्रा ऋग्द्व्यष्टकसमन्वितान् । शक्रलोकं पुनस् तस्माद् गच्छन्ति सुरपूजिताः
॥२८॥मन्वन्तराणां तत्रैव भुक्त्वा कालं च सप्ततिम् । भोगान् उच्चावचान् दिव्यान् मनसः प्रीतिवर्धनान्
॥२९॥तस्माद् व्रजन्ति ते लोकं प्राजापत्यम् अनुत्तमम् । भुक्त्वा तत्रेप्सितान् भोगान् सर्वकामगुणान्वितान्
॥३०॥मन्वन्तरम् अशीतिं च कालं सर्वसुखप्रदम् । तस्मात् पैतामहं लोकं यान्ति ते वैष्णवा द्विजाः
॥३१॥मन्वन्तराणां नवति क्रीडित्वा तत्र वै सुखम् । इहागत्य पुनस् तस्माद् विप्राणां प्रवरे कुले
॥३२॥जायन्ते योगिनो विप्रा वेदशास्त्रार्थपारगाः । एवं सर्वेषु लोकेषु भुक्त्वा भोगान् यथेप्सितान्
॥३३॥इहागत्य पुनर् यान्ति उपर्य् उपरि च क्रमात् । सम्भवे सम्भवे ते तु शतवर्षं द्विजोत्तमाः
॥३४॥भुक्त्वा यथेप्सितान् भोगान् यान्ति लोकान्तरं ततः । दशजन्म यदा तेषां क्रमेणैवं प्रपूर्यते
॥३५॥तदा लोकं हरेर् दिव्यं ब्रह्मलोकाद् व्रजन्ति ते । गत्वा तत्राक्षयान् भोगान् भुक्त्वा सर्वगुणान्वितान्
॥३६॥मन्वन्तरशतं यावज् जन्ममृत्युविवर्जिताः । गच्छन्ति भुवनं पश्चाद् वाराहस्य द्विजोत्तमाः
॥३७॥दिव्यदेहाः कुण्डलिनो महाकाया महाबलाः । क्रीडन्ति तत्र विप्रेन्द्राः कृत्वा रूपं चतुर्भुजम्
॥३८॥दश कोटिसहस्राणि वर्षाणां द्विजसत्तमाः । तिष्ठन्ति शाश्वते भावे सर्वैर् देवैर् नमस्कृताः
॥३९॥ततो यान्ति तु ते धीरा नरसिंहगृहं द्विजाः । क्रीडन्ते तत्र मुदिता वर्षकोट्ययुतानि च
॥४०॥तदन्ते वैष्णवं यान्ति पुरं सिद्धनिषेवितम् । क्रीडन्ते तत्र सौख्येन वर्षाणाम् अयुतानि च
॥४१॥ब्रह्मलोके पुनर् विप्रा गच्छन्ति साधकोत्तमाः । तत्र स्थित्वा चिरं कालं वर्षकोटिशतान् बहून्
॥४२॥नारायणपुरं यान्ति ततस् ते साधकेश्वराः । भुक्त्वा भोगांश् च विविधान् वर्षकोट्यर्बुदानि च
॥४३॥अनिरुद्धपुरं पश्चाद् दिव्यरूपा महाबलाः । गच्छन्ति साधकवराः स्तूयमानाः सुरासुरैः
॥४४॥तत्र कोटिसहस्राणि वर्षाणां च चतुर्दश । तिष्ठन्ति वैष्णवास् तत्र जरामरणवर्जिताः
॥४५॥प्रद्युम्नस्य पुरं पश्चाद् गच्छन्ति विगतज्वराः । तत्र तिष्ठन्ति ते विप्रा लक्षकोटिशतत्रयम्
॥४६॥स्वच्छन्दगामिनो हृष्टा बलशक्तिसमन्विताः । गच्छन्ति योगिनः पश्चाद् यत्र सङ्कर्षणः प्रभुः
॥४७॥तत्रोषित्वा चिरं कालं भुक्त्वा भोगान् सहस्रशः । विशन्ति वासुदेवैति विरूपाख्ये निरञ्जने
॥४८॥विनिर्मुक्ताः परे तत्त्वे जरामरणवर्जिते । तत्र गत्वा विमुक्तास् ते भवेयुर् नात्र संशयः
॥४९॥एवं क्रमेण भुक्तिं ते प्राप्नुवन्ति मनीषिणः । मुक्तिं च मुनिशार्दूला वासुदेवार्चने रताः
॥५०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).