अध्यायः १७९
लोमहर्षण उवाच:
व्यासस्य वचनं श्रुत्वा मुनयः संयतेन्द्रियाः । प्रीता बभूवुः संहृष्टा विस्मिताश् च पुनः पुनः
॥१॥मुनय ऊचुः:
अहो भारतवर्षस्य त्वया सङ्कीर्तिता गुणाः । तद्वच् छ्रीपुरुषाख्यस्य क्षेत्रस्य पुरुषोत्तम
॥२॥विस्मयो हि न चैकस्य श्रुत्वा माहात्म्यम् उत्तमम् । पुरुषाख्यस्य क्षेत्रस्य प्रीतिश् च वदतां वर
॥३॥चिरात् प्रभृति चास्माकं संशयो हृदि वर्तते । त्वदृते संशयस्यास्य च्छेत्ता नान्योऽस्ति भूतले
॥४॥उत्पत्तिं बलदेवस्य कृष्णस्य च महीतले । भद्रायाश् चैव कार्त्स्न्येन पृच्छामस् त्वां महामुने
॥५॥किमर्थं तौ समुत्पन्नौ कृष्णसङ्कर्षणाव् उभौ । वसुदेवसुतौ वीरौ स्थितौ नन्दगृहे मुने
॥६॥निःसारे मृत्युलोकेऽस्मिन् दुःखप्रायेऽतिचञ्चले । जलबुद्बुदसङ्काशे भैरवे लोमहर्षणे
॥७॥विण्मूत्रपिच्छलं कष्टं सङ्कटं दुःखदायकम् । कथं घोरतरं तेषां गर्भवासम् अरोचत
॥८॥यानि कर्माणि चक्रुस् ते समुत्पन्ना महीतले । विस्तरेण मुने तानि ब्रूहि नो वदतां वर
॥९॥समग्रं चरितं तेषाम् अद्भुतं चातिमानुषम् । कथं स भगवान् देवः सुरेशः सुरसत्तमः
॥१०॥वसुदेवकुले धीमान् वासुदेवत्वम् आगतः । अमरैश् चावृतं पुण्यं पुण्यकृद्भिर् अलङ्कृतम्
॥११॥देवलोकं किम् उत्सृज्य मर्त्यलोक इहागतः । देवमानुषयोर् नेता द्योर् भुवः प्रभवोऽव्ययः
॥१२॥किमर्थं दिव्यम् आत्मानं मानुषेषु न्ययोजयत् । यश् चक्रं वर्तयत्य् एको मानुषाणाम् अनामयम्
॥१३॥स मानुष्ये कथं बुद्धिं चक्रे चक्रगदाधरः । गोपायनं यः कुरुते जगतः सार्वभौतिकम्
॥१४॥स कथं गां गतो विष्णुर् गोपत्वम् अकरोत् प्रभुः । महाभूतानि भूतात्मा यो दधार चकार च
॥१५॥श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः । येन लोकान् क्रमैर् जित्वा त्रिभिर् वै त्रिदशेप्सया
॥१६॥स्थापिता जगतो मार्गास् त्रिवर्गाश् चाभवंस् त्रयः । योऽन्तकाले जगत् पीत्वा कृत्वा तोयमयं वपुः
॥१७॥लोकम् एकार्णवं चक्रे दृश्यादृश्येन चात्मना । यः पुराणः पुराणात्मा वाराहं रूपम् आस्थितः
॥१८॥विषाणाग्रेण वसुधाम् उज्जहारारिसूदनः । यः पुरा पुरुहूतार्थे त्रैलोक्यम् इदम् अव्ययम्
॥१९॥ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः । येन सैंहवपुः कृत्वा द्विधा कृत्वा च तत् पुनः
॥२०॥पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर् हतः । यः पुरा ह्य् अनलो भूत्वा और्वः संवर्तको विभुः
॥२१॥पातालस्थोऽर्णवरसं पपौ तोयमयं हरिः । सहस्रचरणं ब्रह्म सहस्रांशुसहस्रदम्
॥२२॥सहस्रशिरसं देवं यम् आहुर् वै युगे युगे । नाभ्यां पद्मं समुद्भूतं यस्य पैतामहं गृहम्
॥२३॥एकार्णवे नागलोके सद्धिरण्मयपङ्कजम् । येन ते निहता दैत्याः सङ्ग्रामे तारकामये
॥२४॥येन देवमयं कृत्वा सर्वायुधधरं वपुः । गुहासंस्थेन चोत्सिक्तः कालनेमिर् निपातितः
॥२५॥उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधौ । यः शेते शाश्वतं योगम् आस्थाय तिमिरं महत्
॥२६॥सुरारणी गर्भम् अधत्त दिव्यं । तपःप्रकर्षाद् अदितिः पुराणम् । शक्रं च यो दैत्यगणावरुद्धं । गर्भावधानेन कृतं चकार
॥२७॥पदानि यो योगमयानि कृत्वा । चकार दैत्यान् सलिलेशयस्थान् । कृत्वा च देवांस् त्रिदशेश्वरांस् तु । चक्रे सुरेशं पुरुहूतम् एव
॥२८॥गार्हपत्येन विधिना अन्वाहार्येण कर्मणा । अग्निम् आहवनीयं च वेदं दीक्षां समिद् ध्रुवम्
॥२९॥प्रोक्षणीयं स्रुवं चैव आवभृथ्यं तथैव च । अवाक्पाणिस् तु यश् चक्रे हव्यभागभुजस् तथा
॥३०॥हव्यादांश् च सुरांश् चक्रे कव्यादांश् च पितॄन् अथ । भोगार्थे यज्ञविधिनाऽयोजयद् यज्ञकर्मणि
॥३१॥पात्राणि दक्षिणां दीक्षां चरूंश् चोलूखलानि च । यूपं समित् स्रुवं सोमं पवित्रान् परिधीन् अपि
॥३२॥यज्ञियानि च द्रव्याणि चमसांश् च तथापरान् । सदस्यान् यजमानांश् च मेधादींश् च क्रतूत्तमान्
॥३३॥विबभाज पुरा यस् तु पारमेष्ठ्येन कर्मणा । युगानुरूपं यः कृत्वा लोकान् अनुपराक्रमात्
॥३४॥क्षणा निमेषाः काष्ठाश् च कलास् त्रैकाल्यम् एव च । मुहूर्तास् तिथयो मासा दिनं संवत्सरस् तथा
॥३५॥ऋतवः कालयोगाश् च प्रमाणं त्रिविधं त्रिषु । आयुःक्षेत्राण्य् उपचयो लक्षणं रूपसौष्ठवम्
॥३६॥त्रयो लोकास् त्रयो देवास् त्रैविद्यं पावकास् त्रयः । त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास् त्रयो गुणाः
॥३७॥सृष्टा लोकाः पुरा सर्वे येनानन्तेन कर्मणा । सर्वभूतगतः स्रष्टा सर्वभूतगुणात्मकः
॥३८॥नृणाम् इन्द्रियपूर्वेण योगेन रमते च यः । गतागताभ्यां योगेन य एव विधिर् ईश्वरः
॥३९॥यो गतिर् धर्मयुक्तानाम् अगतिः पापकर्मणाम् । चातुर्वर्ण्यस्य प्रभवश् चातुर्वर्ण्यस्य रक्षिता
॥४०॥चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः । दिगन्तरं नभो भूमिर् वायुर् वापि विभावसुः
॥४१॥चन्द्रसूर्यमयं ज्योतिर् युगेशः क्षणदाचरः । यः परं श्रूयते ज्योतिर् यः परं श्रूयते तपः
॥४२॥यं परं प्राहुर् अपरं यः परः परमात्मवान् । आदित्यानां तु यो देवो यश् च दैत्यान्तको विभुः
॥४३॥युगान्तेष्व् अन्तको यश् च यश् च लोकान्तकान्तकः । सेतुर् यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम्
॥४४॥वेद्यो यो वेदविदुषां प्रभुर् यः प्रभवात्मनाम् । सोमभूतश् च सौम्यानाम् अग्निभूतोऽग्निवर्चसाम्
॥४५॥यः शक्राणाम् ईशभूतस् तपोभूतस् तपस्विनाम् । विनयो नयवृत्तीनां तेजस् तेजस्विनाम् अपि
॥४६॥विग्रहो विग्रहार्हाणां गतिर् गतिमताम् अपि । आकाशप्रभवो वायुर् वायोः प्राणाद् धुताशनः
॥४७॥दिवो हुताशनः प्राणः प्राणोऽग्निर् मधुसूदनः । रसाच् छोणितसम्भूतिः शोणितान् मांसम् उच्यते
॥४८॥मांसात् तु मेदसो जन्म मेदसोऽस्थि निरुच्यते । अस्थ्नो मज्जा समभवन् मज्जातः शुक्रसम्भवः
॥४९॥शुक्राद् गर्भः समभवद् रसमूलेन कर्मणा । तत्रापां प्रथमो भागः स सौम्यो राशिर् उच्यते
॥५०॥गर्भोष्मसम्भवो ज्ञेयो द्वितीयो राशिर् उच्यते । शुक्रं सोमात्मकं विद्याद् आर्तवं पावकात्मकम्
॥५१॥भावा रसानुगाश् चैषां बीजे च शशिपावकौ । कफवर्गे भवेच् छुक्रं पित्तवर्गे च शोणितम्
॥५२॥कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् । देहस्य मध्ये हृदयं स्थानं तन् मनसः स्मृतम्
॥५३॥नाभिकोष्ठान्तरं यत् तु तत्र देवो हुताशनः । मनः प्रजापतिर् ज्ञेयः कफः सोमो विभाव्यते
॥५४॥पित्तम् अग्निः स्मृतं त्व् एवम् अग्निसोमात्मकं जगत् । एवं प्रवर्तिते गर्भे वर्धितेऽर्बुदसन्निभे
॥५५॥वायुः प्रवेशं सञ्चक्रे सङ्गतः परमात्मनः । स पञ्चधा शरीरस्थो भिद्यते वर्तते पुनः
॥५६॥प्राणापानौ समानश् च उदानो व्यान एव च । प्राणोऽस्य परमात्मानं वर्धयन् परिवर्तते
॥५७॥अपानः पश्चिमं कायम् उदानोऽर्धं शरीरिणः । व्यानस् तु व्याप्यते येन समानः सन्निवर्तते
॥५८॥भूतावाप्तिस् ततस् तस्य जायेतेन्द्रियगोचरा । पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्
॥५९॥तस्येन्द्रियनिविष्टानि स्वं स्वं भागं प्रचक्रिरे । पार्थिवं देहम् आहुस् तु प्राणात्मानं च मारुतम्
॥६०॥छिद्राण्य् आकाशयोनीनि जलात् स्रावः प्रवर्तते । ज्योतिश् चक्षूंषि तेजश् च आत्मा तेषां मनः स्मृतम्
॥६१॥ग्रामाश् च विषयाश् चैव यस्य वीर्यात् प्रवर्तिताः । इत्य् एतान् पुरुषः सर्वान् सृजंल् लोकान् सनातनः
॥६२॥नैधनेऽस्मिन् कथं लोके नरत्वं विष्णुर् आगतः । एष नः संशयो ब्रह्मन्न् एष नो विस्मयो महान्
॥६३॥कथं गतिर् गतिमताम् आपन्नो मानुषीं तनुम् । आश्चर्यं परमं विष्णुर् देवैर् दैत्यैश् च कथ्यते
॥६४॥विष्णोर् उत्पत्तिम् आश्चर्यं कथयस्व महामुने । प्रख्यातबलवीर्यस्य विष्णोर् अमिततेजसः
॥६५॥कर्मणाश्चर्यभूतस्य विष्णोस् तत्त्वम् इहोच्यताम् । कथं स देवो देवानाम् आर्तिहा पुरुषोत्तमः
॥६६॥सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः । सर्गस्थित्यन्तकृद् देवः सर्वलोकसुखावहः
॥६७॥अक्षयः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः । निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः
॥६८॥सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः । अविकारी विभुर् नित्यः परमात्मा सनातनः
॥६९॥अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः । विशुद्धं श्रूयते यस्य हरित्वं च कृते युगे
॥७०॥वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च । ईश्वरस्य हि तस्येमां गहनां कर्मणो गतिम्
॥७१॥समतीतां भविष्यं च श्रोतुम् इच्छा प्रवर्तते । अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः
॥७२॥नारायणो ह्य् अनन्तात्मा प्रभवोऽव्यय एव च । एष नारायणो भूत्वा हरिर् आसीत् सनातनः
॥७३॥ब्रह्मा शक्रश् च रुद्रश् च धर्मः शुक्रो बृहस्पतिः । प्रधानात्मा पुरा ह्य् एष ब्रह्माणम् असृजत् प्रभुः
॥७४॥सोऽसृजत् पूर्वपुरुषः पुरा कल्पे प्रजापतीन् । एवं स भगवान् विष्णुः सर्वलोकमहेश्वरः । किमर्थं मर्त्यलोकेऽस्मिन् यातो यदुकुले हरिः
॥७५॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).