मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ८५

3
ब्रह्मपुराणम् · 85

अध्यायः ८५

ब्रह्मोवाच:

क्षुधातीर्थम् इति ख्यातं शृणु नारद तन्मनाः । कथ्यमानं महापुण्यं सर्वकामप्रदं नृणाम्

॥१॥

ऋषिर् आसीत् पुरा कण्वस् तपस्वी वेदवित्तमः । परिभ्रमन्न् आश्रमाणि क्षुधया परिपीडितः

॥२॥

गौतमस्याश्रमं पुण्यं समृद्धं चान्नवारिणा । आत्मानं च क्षुधायुक्तं समृद्धं चापि गौतमम्

॥३॥

वीक्ष्य कण्वोऽथ वैषम्यं वैराग्यम् अगमत् तदा । गौतमोऽपि द्विजश्रेष्ठो ह्य् अहं तपसि निष्ठितः

॥४॥

समेन याच्ञायुक्ता स्यात् तस्माद् गौतमवेश्मनि । न भोक्ष्येऽहं क्षुधार्तोऽपि पीडितेऽपि कलेवरे

॥५॥

गच्छेयं गौतमीं गङ्गाम् अर्जयेयं च सम्पदम् । इति निश्चित्य मेधावी गत्वा गङ्गां च पावनीम्

॥६॥

स्नात्वा शुचिर् यतमना उपविश्य कुशासने । तुष्टाव गौतमीं गङ्गां क्षुधां च परमापदम्

॥७॥

कण्व उवाच:

नमोऽस्तु गङ्गे परमार्तिहारिणि । नमः क्षुधे सर्वजनार्तिकारिणि । नमो महेशानजटोद्भवे शुभे । नमो महामृत्युमुखाद् विनिसृते

॥८॥

पुण्यात्मनां शान्तरूपे क्रोधरूपे दुरात्मनाम् । सरिद्रूपेण सर्वेषां तापपापापहारिणि

॥९॥

क्षुधारूपेण सर्वेषां तापपापप्रदे नमः । नमः श्रेयस्करि देवि नमः पापप्रतर्दिनि । नमः शान्तिकरि देवि नमो दारिद्र्यनाशिनि

॥१०॥

ब्रह्मोवाच:

इत्य् एवं स्तुवतस् तस्य पुरस्ताद् अभवद् द्वयम् । एकं गाङ्गं मनोहारि ह्य् अपरं भीषणाकृति । पुनः कृताञ्जलिर् भूत्वा नमस्कृत्वा द्विजोत्तमः

॥११॥

कण्व उवाच:

सर्वमङ्गलमाङ्गल्ये ब्राह्मि माहेश्वरि शुभे । वैष्णवि त्र्यम्बके देवि गोदावरि नमोऽस्तु ते

॥१२॥

त्र्यम्बकस्य जटोद्भूते गौतमस्याघनाशिनि । सप्तधा सागरं यान्ति गोदावरि नमोऽस्तु ते

॥१३॥

सर्वपापकृतां पापे धर्मकामार्थनाशिनि । दुःखलोभमयि देवि क्षुधे तुभ्यं नमो नमः

॥१४॥

ब्रह्मोवाच:

तत् कण्ववचनं श्रुत्वा सुप्रीते आहतुर् द्विजम्

॥१५॥

गङ्गाक्षुधे ऊचतुः:

अभीष्टं वद कल्याण वरान् वरय सुव्रत

॥१६॥

ब्रह्मोवाच:

प्रोवाच प्रणतो गङ्गां कण्वः क्षुधां यथाक्रमम्

॥१७॥

कण्व उवाच:

देहि देवि मनोज्ञानि कामानि विभवं मम । आयुर् वित्तं च भुक्तिं च मुक्तिं गङ्गे प्रयच्छ मे

॥१८॥

ब्रह्मोवाच:

इत्य् उक्त्वा गौतमीं गङ्गां क्षुधां चाह द्विजोत्तमः

॥१९॥

कण्व उवाच:

मयि मद्वंशजे चापि क्षुधे तृष्णे दरिद्रिणि । याहि पापतरे रूक्षे न भूयास् त्वं कदाचन

॥२०॥

अनेन स्तवेन ये वै त्वां स्तुवन्ति क्षुधातुराः । तेषां दारिद्र्यदुःखानि न भवेयुर् वरोऽपरः

॥२१॥

अस्मिंस् तीर्थे महापुण्ये स्नानदानजपादिकम् । ये कुर्वन्ति नरा भक्त्या लक्ष्मीभाजो भवन्तु ते

॥२२॥

यस् त्व् इदं पठते स्तोत्रं तीर्थे वा यदि वा गृहे । तस्य दारिद्र्यदुःखेभ्यो न भयं स्याद् वरोऽपरः

॥२३॥

ब्रह्मोवाच:

एवम् अस्त्व् इति चोक्त्वा ते कण्वं याते स्वम् आलयम् । ततः प्रभृति तत् तीर्थं काण्वं गाङ्गं क्षुधाभिधम् । सर्वपापहरं वत्स पितॄणां प्रीतिवर्धनम्

॥२५॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).