मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २०७

3
ब्रह्मपुराणम् · 207

अध्यायः २०७

मुनय ऊचुः:

चक्रे कर्म महच् छौरिर् बिभ्रद् यो मानुषीं तनुम् । जिगाय शक्रं शर्वं च सर्वदेवांश् च लीलया

॥१॥

यच् चान्यद् अकरोत् कर्म दिव्यचेष्टाविघातकृत् । कथ्यतां तन् मुनिश्रेष्ठ परं कौतूहलं हि नः

॥२॥

व्यास उवाच:

गदतो मे मुनिश्रेष्ठाः श्रूयताम् इदम् आदरात् । नरावतारे कृष्णेन दग्धा वाराणसी यथा

॥३॥

पौण्ड्रको वासुदेवश् च वासुदेवोऽभवद् भुवि । अवतीर्णस् त्वम् इत्य् उक्तो जनैर् अज्ञानमोहितैः

॥४॥

स मेने वासुदेवोऽहम् अवतीर्णो महीतले । नष्टस्मृतिस् ततः सर्वं विष्णुचिह्नम् अचीकरत् । दूतं च प्रेषयाम् आस स कृष्णाय द्विजोत्तमाः

॥५॥

दूत उवाच:

त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम मात्मनः । वासुदेवात्मकं मूढ मुक्त्वा सर्वम् अशेषतः

॥६॥

आत्मनो जीवितार्थं च तथा मे प्रणतिं व्रज

॥७॥

व्यास उवाच:

इत्य् उक्तः स प्रहस्यैव दूतं प्राह जनार्दनः

॥८॥

श्रीभगवान् उवाच:

निजचिह्नम् अहं चक्रं समुत्स्रक्ष्ये त्वयीति वै । वाच्यश् च पौण्ड्रको गत्वा त्वया दूत वचो मम

॥९॥

ज्ञातस् त्वद्वाक्यसद्भावो यत् कार्यं तद् विधीयताम् । गृहीतचिह्न एवाहम् आगमिष्यामि ते पुरम्

॥१०॥

उत्स्रक्ष्यामि च ते चक्रं निजचिह्नम् असंशयम् । आज्ञापूर्वं च यद् इदम् आगच्छेति त्वयोदितम्

॥११॥

सम्पादयिष्ये श्वस् तुभ्यं तद् अप्य् एषोऽविलम्बितम् । शरणं ते समभ्येत्य कर्तास्मि नृपते तथा । यथा त्वत्तो भयं भूयो नैव किञ्चिद् भविष्यति

॥१२॥

व्यास उवाच:

इत्य् उक्तेऽपगते दूते संस्मृत्याभ्यागतं हरिः । गरुत्मन्तं समारुह्य त्वरितं तत्पुरं ययौ

॥१३॥

तस्यापि केशवोद्योगं श्रुत्वा काशिपतिस् तदा । सर्वसैन्यपरीवारपार्ष्णिग्राहम् उपाययौ

॥१४॥

ततो बलेन महता काशिराजबलेन च । पौण्ड्रको वासुदेवोऽसौ केशवाभिमुखं ययौ

॥१५॥

तं ददर्श हरिर् दूराद् उदारस्यन्दने स्थितम् । चक्रशङ्खगदापाणिं पाणिना विधृताम्बुजम्

॥१६॥

स्रग्धरं धृतशार्ङ्गं च सुपर्णरचनाध्वजम् । वक्षस्थलकृतं चास्य श्रीवत्सं ददृशे हरिः

॥१७॥

किरीटकुण्डलधरं पीतवासःसमन्वितम् । दृष्ट्वा तं भावगम्भीरं जहास मधुसूदनः

॥१८॥

युयुधे च बलेनास्य हस्त्यश्वबलिना द्विजाः । निस्त्रिंशर्ष्टिगदाशूलशक्तिकार्मुकशालिना

॥१९॥

क्षणेन शार्ङ्गनिर्मुक्तैः शरैर् अग्निविदारणैः । गदाचक्रातिपातैश् च सूदयाम् आस तद्बलम्

॥२०॥

काशिराजबलं चैव क्षयं नीत्वा जनार्दनः । उवाच पौण्ड्रकं मूढम् आत्मचिह्नोपलक्षणम्

॥२१॥

श्रीभगवान् उवाच:

पौण्ड्रकोक्तं त्वया यत् तद् दूतवक्त्रेण मां प्रति । समुत्सृजेति चिह्नानि तत् ते सम्पादयाम्य् अहम्

॥२२॥

चक्रम् एतत् समुत्सृष्टं गदेयं ते विसर्जिता । गरुत्मान् एष निर्दिष्टः समारोहतु ते ध्वजम्

॥२३॥

इत्य् उच्चार्य विमुक्तेन चक्रेणासौ विदारितः । पोथितो गदया भग्नो गरुत्मांश् च गरुत्मता

॥२४॥

ततो हाहाकृते लोके काशीनाम् अधिपस् तदा । युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः

॥२५॥

ततः शार्ङ्गविनिर्मुक्तैश् छित्त्वा तस्य शरैः शिरः । काशिपुर्यां स चिक्षेप कुर्वंल् लोकस्य विस्मयम्

॥२६॥

हत्वा तु पौण्ड्रकं शौरिः काशिराजं च सानुगम् । रेमे द्वारवतीं प्राप्तोऽमरः स्वर्गगतो यथा

॥२७॥

तच्छिरः पतितं तत्र दृष्ट्वा काशिपतेः पुरे । जनः किम् एतद् इत्य् आह केनेत्य् अत्यन्तविस्मितः

॥२८॥

ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस् ततः । पुरोहितेन सहितस् तोषयाम् आस शङ्करम्

॥२९॥

अविमुक्ते महाक्षेत्रे तोषितस् तेन शङ्करः । वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम्

॥३०॥

स वव्रे भगवन् कृत्या पितुर् हन्तुर् वधाय मे । समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान् महेश्वर

॥३१॥

व्यास उवाच:

एवं भविष्यतीत्य् उक्ते दक्षिणाग्नेर् अनन्तरम् । महाकृत्या समुत्तस्थौ तस्यैवाग्निनिवेशनात्

॥३२॥

ततो ज्वालाकरालास्या ज्वलत्केशकलापिका । कृष्ण कृष्णेति कुपिता कृत्वा द्वारवतीं ययौ

॥३३॥

ताम् अवेक्ष्य जनः सर्वो रौद्रां विकृतलोचनाम् । ययौ शरण्यं जगतां शरणं मधुसूदनम्

॥३४॥

जना ऊचुः:

काशिराजसुतेनेयम् आराध्य वृषभध्वजम् । उत्पादिता महाकृत्या वधाय तव चक्रिणः । जहि कृत्याम् इमाम् उग्रां वह्निज्वालाजटाकुलाम्

॥३५॥

व्यास उवाच:

चक्रम् उत्सृष्टम् अक्षेषु क्रीडासक्तेन लीलया । तद् अग्निमालाजटिलं ज्वालोद्गारातिभीषणम्

॥३६॥

कृत्याम् अनुजगामाशु विष्णुचक्रं सुदर्शनम् । ततः सा चक्रविध्वस्ता कृत्या माहेश्वरी तदा

॥३७॥

जगाम वेगिनी वेगात् तद् अप्य् अनुजगाम ताम् । कृत्या वाराणसीम् एव प्रविवेश त्वरान्विता

॥३८॥

विष्णुचक्रप्रतिहतप्रभावा मुनिसत्तमाः । ततः काशिबलं भूरि प्रमथानां तथा बलम्

॥३९॥

समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ । शस्त्रास्त्रमोक्षबहुलं दग्ध्वा तद् बलम् ओजसा

॥४०॥

कृत्वाक्षेमाम् अशेषां तां पुरीं वाराणसीं ययौ । प्रभूतभृत्यपौरां तां साश्वमातङ्गमानवाम्

॥४१॥

अशेषदुर्गकोष्ठां तां दुर्निरीक्ष्यां सुरैर् अपि । ज्वालापरिवृताशेषगृहप्राकारतोरणाम्

॥४२॥

ददाह तां पुरीं चक्रं सकलाम् एव सत्वरम् । अक्षीणामर्षम् अत्यल्पसाध्यसाधननिस्पृहम् । तच् चक्रं प्रस्फुरद्दीप्ति विष्णोर् अभ्याययौ करम्

॥४३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).