अध्यायः ३९
ऋषय ऊचुः:
प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे । विनाशम् अगमद् ब्रह्मन् हयमेधः प्रजापतेः
॥१॥देव्या मन्युकृतं बुद्ध्वा क्रुद्धः सर्वात्मकः प्रभुः । कथं विनाशितो यज्ञो दक्षस्यामिततेजसः । महादेवेन रोषाद् वै तन् नः प्रब्रूहि विस्तरात्
॥२॥ब्रह्मोवाच:
वर्णयिष्यामि वो विप्रा महादेवेन वै यथा । क्रोधाद् विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया
॥३॥पुरा मेरोर् द्विजश्रेष्ठाः शृङ्गं त्रैलोक्यपूजितम् । ज्योतिःस्थलं नाम चित्रं सर्वरत्नविभूषितम्
॥४॥अप्रमेयम् अनाधृष्यं सर्वलोकनमस्कृतम् । तत्र देवो गिरितटे सर्वधातुविचित्रिते
॥५॥पर्यङ्क इव विस्तीर्ण उपविष्टो बभूव ह । शैलराजसुता चास्य नित्यं पार्श्वस्थिताभवत्
॥६॥आदित्याश् च महात्मानो वसवश् च महौजसः । तथैव च महात्मानाव् अश्विनौ भिषजां वरौ
॥७॥तथा वैश्रवणो राजा गुह्यकैः परिवारितः । यक्षाणाम् ईश्वरः श्रीमान् कैलासनिलयः प्रभुः
॥८॥उपासते महात्मानम् उशना च महामुनिः । सनत्कुमारप्रमुखास् तथैव परमर्षयः
॥९॥अङ्गिरःप्रमुखाश् चैव तथा देवर्षयोऽपि च । विश्वावसुश् च गन्धर्वस् तथा नारदपर्वतौ
॥१०॥अप्सरोगणसङ्घाश् च समाजग्मुर् अनेकशः । ववौ सुखशिवो वायुर् नानागन्धवहः शुचिः
॥११॥सर्वर्तुकुसुमोपेतः पुष्पवन्तोऽभवन् द्रुमाः । तथा विद्याधराः साध्याः सिद्धाश् चैव तपोधनाः
॥१२॥महादेवं पशुपतिं पर्युपासत तत्र वै । भूतानि च तथान्यानि नानारूपधराण्य् अथ
॥१३॥राक्षसाश् च महारौद्राः पिशाचाश् च महाबलाः । बहुरूपधरा धृष्टा नानाप्रहरणायुधाः
॥१४॥देवस्यानुचरास् तत्र तस्थुर् वैश्वानरोपमाः । नन्दीश्वरश् च भगवान् देवस्यानुमते स्थितः
॥१५॥प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा । गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा
॥१६॥पर्युपासत तं देवं रूपिणी द्विजसत्तमाः । एवं स भगवांस् तत्र पूज्यमानः सुरर्षिभिः
॥१७॥देवैश् च सुमहाभागैर् महादेवो व्यतिष्ठत । कस्यचित् त्व् अथ कालस्य दक्षो नाम प्रजापतिः
॥१८॥पूर्वोक्तेन विधानेन यक्ष्यमाणोऽभ्यपद्यत । ततस् तस्य मखे देवाः सर्वे शक्रपुरोगमाः
॥१९॥स्वर्गस्थानाद् अथागम्य दक्षम् आपेदिरे तथा । ते विमानैर् महात्मानो ज्वलद्भिर् ज्वलनप्रभाः
॥२०॥देवस्यानुमतेऽगच्छन् गङ्गाद्वारम् इति श्रुतिः । गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम्
॥२१॥ऋषिसिद्धैः परिवृतं दक्षं धर्मभृतां वरम् । पृथिव्याम् अन्तरिक्षे च ये च स्वर्लोकवासिनः
॥२२॥सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् । आदित्या वसवो रुद्राः साध्याः सर्वे मरुद्गणाः
॥२३॥विष्णुना सहिताः सर्व आगता यज्ञभागिनः । ऊष्मपा धूमपाश् चैव आज्यपाः सोमपास् तथा
॥२४॥अश्विनौ मरुतश् चैव नानादेवगणैः सह । एते चान्ये च बहवो भूतग्रामास् तथैव च
॥२५॥जरायुजाण्डजाश् चैव तथैव स्वेदजोद्भिदः । आगताः सत्त्रिणः सर्वे देवाः स्त्रीभिः सहर्षिभिः
॥२६॥विराजन्ते विमानस्था दीप्यमाना इवाग्नयः । तान् दृष्ट्वा मन्युनाविष्टो दधीचिर् वाक्यम् अब्रवीत्
॥२७॥दधीचिर् उवाच:
अपूज्यपूजने चैव पूज्यानां चाप्य् अपूजने । नरः पापम् अवाप्नोति महद् वै नात्र संशयः
॥२८॥ब्रह्मोवाच:
एवम् उक्त्वा तु विप्रर्षिः पुनर् दक्षम् अभाषत
॥२९॥दधीचिर् उवाच:
पूज्यं च पशुभर्तारं कस्मान् नार्चयसे प्रभुम्
॥३०॥दक्ष उवाच:
सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः । एकादशस्थानगता नान्यं विद्मो महेश्वरम्
॥३१॥दधीचिर् उवाच:
सर्वेषाम् एकमन्त्रोऽयं ममेशो न निमन्त्रितः । यथाहं शङ्कराद् ऊर्ध्वं नान्यं पश्यामि दैवतम् । तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति
॥३२॥दक्ष उवाच:
दक्ष उवाच: विष्णोश् च भागा विविधाः प्रदत्तास् । तथा च रुद्रेभ्य उत प्रदत्ताः । अन्येऽपि देवा निजभागयुक्ता । ददामि भागं न तु शङ्कराय
॥३३॥ब्रह्मोवाच:
गतास् तु देवता ज्ञात्वा शैलराजसुता तदा । उवाच वचनं शर्वं देवं पशुपतिं पतिम्
॥३४॥उमोवाच:
भगवन् कुत्र यान्त्य् एते देवाः शक्रपुरोगमाः । ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महान् अयम्
॥३५॥महेश्वर उवाच:
दक्षो नाम महाभागे प्रजानां पतिर् उत्तमः । हयमेधेन यजते तत्र यान्ति दिवौकसः
॥३६॥देव्य् उवाच:
यज्ञम् एतं महाभाग किमर्थं नानुगच्छसि । केन वा प्रतिषेधेन गमनं ते न विद्यते
॥३७॥महेश्वर उवाच:
सुरैर् एव महाभागे सर्वम् एतद् अनुष्ठितम् । यज्ञेषु मम सर्वेषु न भाग उपकल्पितः
॥३८॥पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि । न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः
॥३९॥उमोवाच:
भगवन् सर्वदेवेषु प्रभावाभ्यधिको गुणैः । अजेयश् चाप्य् अधृष्यश् च तेजसा यशसा श्रिया
॥४०॥अनेन तु महाभाग प्रतिषेधेन भागतः । अतीव दुःखम् आपन्ना वेपथुश् च महान् अयम्
॥४१॥किं नाम दानं नियमं तपो वा । कुर्याम् अहं येन पतिर् ममाद्य । लभेत भागं भगवान् अचिन्त्यो । यज्ञस्य चेन्द्राद्यमरैर् विचित्रम्
॥४२॥ब्रह्मोवाच:
एवं ब्रुवाणां भगवान् विचिन्त्य । पत्नीं प्रहृष्टः क्षुभिताम् उवाच ।
॥४३॥महेश्वर उवाच:
न वेत्सि मां देवि कृशोदराङ्गि । किं नाम युक्तं वचनं तवेदम्
॥४३॥अहं विजानामि विशालनेत्रे । ध्यानेन सर्वे च विदन्ति सन्तः । तवाद्य मोहेन सहेन्द्रदेवा । लोकत्रयं सर्वम् अथो विनष्टम्
॥४४॥माम् अध्वरेशं नितरां स्तुवन्ति । रथन्तरं साम गायन्ति मह्यम् । मां ब्राह्मणा ब्रह्ममन्त्रैर् यजन्ति । ममाध्वर्यवः कल्पयन्ते च भागम्
॥४५॥देव्य् उवाच:
विकत्थसे प्राकृतवत् सर्वस्त्रीजनसंसदि । स्तौषि गर्वायसे चापि स्वम् आत्मानं न संशयः
॥४६॥भगवान् उवाच:
नात्मानं स्तौमि देवेशि यथा त्वम् अनुगच्छसि । संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि
॥४७॥ब्रह्मोवाच:
इत्य् उक्त्वा भगवान् पत्नीम् उमां प्राणैर् अपि प्रियाम् । सोऽसृजद् भगवान् वक्त्राद् भूतं क्रोधाग्निसम्भवम्
॥४८॥तम् उवाच मखं गच्छ दक्षस्य त्वं महेश्वरः । नाशयाशु क्रतुं तस्य दक्षस्य मदनुज्ञया
॥४९॥ब्रह्मोवाच:
ततो रुद्रप्रयुक्तेन सिंहवेषेण लीलया । देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः
॥५०॥मन्युना च महाभीमा भद्रकाली महेश्वरी । आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा
॥५१॥स एष भगवान् क्रोधः प्रेतावासकृतालयः । वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः
॥५२॥सोऽसृजद् रोमकूपेभ्य आत्मनैव गणेश्वरान् । रुद्रानुगान् गणान् रौद्रान् रुद्रवीर्यपराक्रमान्
॥५३॥रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः । ते निपेतुस् ततस् तूर्णं शतशोऽथ सहस्रशः
॥५४॥ततः किलकिलाशब्द आकाशं पूरयन्न् इव । समभूत् सुमहान् विप्राः सर्वरुद्रगणैः कृतः
॥५५॥तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः । पर्वताश् च व्यशीर्यन्त चकम्पे च वसुन्धरा
॥५६॥मरुतश् च ववुः क्रूराश् चुक्षुभे वरुणालयः । अग्नयो वै न दीप्यन्ते न चादीप्यत भास्करः
॥५७॥ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः । ऋषयो न प्रभासन्ते न देवा न च दानवाः
॥५८॥एवं हि तिमिरीभूते निर्दहन्ति गणेश्वराः । प्रभञ्जन्त्य् अपरे यूपान् घोरान् उत्पाटयन्ति च
॥५९॥प्रणदन्ति तथा चान्ये विकुर्वन्ति तथा परे । त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः
॥६०॥चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि च । शीर्यमाणान्य् अदृश्यन्त तारा इव नभस्तलात्
॥६१॥दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः । क्षीरनद्यस् तथा चान्या घृतपायसकर्दमाः
॥६२॥मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः । षड्रसान् निवहन्त्य् अन्या गुडकुल्या मनोरमाः
॥६३॥उच्चावचानि मांसानि भक्ष्याणि विविधानि च । यानि कानि च दिव्यानि लेह्यचोष्याणि यानि च
॥६४॥भुञ्जन्ति विविधैर् वक्त्रैर् विलुम्पन्ति क्षिपन्ति च । रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः
॥६५॥भक्षयन्तोऽथ शैलाभा भीषयन्तश् च सर्वतः । क्रीडन्ति विविधाकाराश् चिक्षिपुः सुरयोषितः
॥६६॥एवं गणाश् च तैर् युक्तो वीरभद्रः प्रतापवान् । रुद्रकोपप्रयुक्तश् च सर्वदेवैः सुरक्षितम्
॥६७॥तं यज्ञम् अदहच् छीघ्रं भद्रकाल्याः समीपतः । चक्रुर् अन्ये तथा नादान् सर्वभूतभयङ्करान्
॥६८॥छित्त्वा शिरोऽन्ये यज्ञस्य व्यनदन्त भयङ्करम् । ततः शक्रादयो देवा दक्षश् चैव प्रजापतिः । ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवान् इति
॥६९॥वीरभद्र उवाच:
नाहं देवो न दैत्यो वा न च भोक्तुम् इहागतः । नैव द्रष्टुं च देवेन्द्रा न च कौतूहलान्विताः
॥७०॥दक्षयज्ञविनाशार्थं सम्प्राप्तोऽहं सुरोत्तमाः । वीरभद्रेति विख्यातो रुद्रकोपाद् विनिःसृतः
॥७१॥भद्रकाली च विख्याता देव्याः क्रोधाद् विनिर्गता । प्रेषिता देवदेवेन यज्ञान्तिकम् उपागता
॥७२॥शरणं गच्छ राजेन्द्र देवदेवम् उमापतिम् । वरं क्रोधोऽपि देवस्य न वरः परिचारकैः
॥७३॥ब्रह्मोवाच:
निखातोत्पाटितैर् यूपैर् अपविद्धैस् ततस् ततः । उत्पतद्भिः पतद्भिश् च गृध्रैर् आमिषगृध्नुभिः
॥७४॥पक्षवातविनिर्धूतैः शिवारुतविनादितैः । स तस्य यज्ञो नृपतेर् बाध्यमानस् तदा गणैः
॥७५॥आस्थाय मृगरूपं वै खम् एवाभ्यपतत् तदा । तं तु यज्ञं तथारूपं गच्छन्तम् उपलभ्य सः
॥७६॥धनुर् आदाय बाणं च तदर्थम् अगमत् प्रभुः । ततस् तस्य गणेशस्य क्रोधाद् अमिततेजसः
॥७७॥ललाटात् प्रसृतो घोरः स्वेदबिन्दुर् बभूव ह । तस्मिन् पतितमात्रे च स्वेदबिन्दौ तदा भुवि
॥७८॥प्रादुर्भूतो महान् अग्निर् ज्वलत्कालानलोपमः । तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः
॥७९॥ह्रस्वोऽतिमात्रो रक्ताक्षो हरिच्छ्मश्रुर् विभीषणः । ऊर्ध्वकेशोऽतिरोमाङ्गः शोणकर्णस् तथैव च
॥८०॥करालकृष्णवर्णश् च रक्तवासास् तथैव च । तं यज्ञं स महासत्त्वोऽदहत् कक्षम् इवानलः
॥८१॥देवाश् च प्रद्रुताः सर्वे गता भीता दिशो दश । तेन तस्मिन् विचरता विक्रमेण तदा तु वै
॥८२॥पृथिवी व्यचलत् सर्वा सप्तद्वीपा समन्ततः । महाभूते प्रवृत्ते तु देवलोकभयङ्करे
॥८३॥तदा चाहं महादेवम् अब्रवं प्रतिपूजयन् । भवतेऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो
॥८४॥क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया । इमाश् च देवताः सर्वा ऋषयश् च सहस्रशः
॥८५॥तव क्रोधान् महादेव न शान्तिम् उपलेभिरे । यश् चैष पुरुषो जातः स्वेदजस् ते सुरर्षभ
॥८६॥ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति । एकीभूतस्य न ह्य् अस्य धारणे तेजसः प्रभो
॥८७॥समर्था सकला पृथ्वी बहुधा सृज्यताम् अयम् । इत्य् उक्तः स मया देवो भागे चापि प्रकल्पिते
॥८८॥भगवान् मां तथेत्य् आह देवदेवः पिनाकधृक् । परां च प्रीतिम् अगमत् स स्वयं च पिनाकधृक्
॥८९॥दक्षोऽपि मनसा देवं भवं शरणम् अन्वगात् । प्राणापानौ समारुध्य चक्षुःस्थाने प्रयत्नतः
॥९०॥विधार्य सर्वतो दृष्टिं बहुदृष्टिर् अमित्रजित् । स्मितं कृत्वाब्रवीद् वाक्यं ब्रूहि किं करवाणि ते
॥९१॥श्राविते च महाख्याने देवानां पितृभिः सह । तम् उवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः । भीतः शङ्कितचित्तस् तु सबाष्पवदनेक्षणः
॥९२॥दक्ष उवाच:
यदि प्रसन्नो भगवान् यदि वाहं तव प्रियः । यदि चाहम् अनुग्राह्यो यदि देयो वरो मम
॥९३॥यद् भक्ष्यं भक्षितं पीतं त्रासितं यच् च नाशितम् । चूर्णीकृतापविद्धं च यज्ञसम्भारम् ईदृशम्
॥९४॥दीर्घकालेन महता प्रयत्नेन च सञ्चितम् । न च मिथ्या भवेन् मह्यं त्वत्प्रसादान् महेश्वर
॥९५॥ब्रह्मोवाच:
तथास्त्व् इत्य् आह भगवान् भगनेत्रहरो हरः । धर्माध्यक्षं महादेवं त्र्यम्बकं च प्रजापतिः
॥९६॥जानुभ्याम् अवनीं गत्वा दक्षो लब्ध्वा भवाद् वरम् । नाम्नां चाष्टसहस्रेण स्तुतवान् वृषभध्वजम्
॥९७॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).