मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १४०

3
ब्रह्मपुराणम् · 140

अध्यायः १४०

ब्रह्मोवाच:

आत्रेयम् इति विख्यातम् अन्विन्द्रं तीर्थम् उत्तमम् । तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम्

॥१॥

गौतम्या उत्तरे तीर आत्रेयो भगवान् ऋषिः । अन्वारेभेऽथ सत्त्राणि ऋत्विग्भिर् मुनिभिर् वृतः

॥२॥

तस्य होताभवत् त्व् अग्निर् हव्यवाहन एव च । एवं सत्त्रे तु सम्पूर्ण इष्टिं माहेश्वरीं पुनः

॥३॥

कृत्वैश्वर्यम् अगाद् विप्रः सर्वत्र गतिम् एव च । इन्द्रस्य भवनं रम्यं स्वर्गलोकं रसातलम्

॥४॥

स्वेच्छया याति विप्रेन्द्रः प्रभावात् तपसः शुभात् । स कदाचिद् दिवं गत्वा इन्द्रलोकम् अगात् पुनः

॥५॥

तत्रापश्यत् सहस्राक्षं सुरैः परिवृतं शुभैः । स्तूयमानं सिद्धसाध्यैः प्रेक्षन्तं नृत्यम् उत्तमम् । शृण्वानं मधुरं गीतम् अप्सरोभिश् च वीजितम्

॥६॥

उपोपविष्टैः सुरनायकैस् तैः । सम्पूज्यमानं महदासनस्थम् । जयन्तम् अङ्के विनिधाय सूनुं । शच्या युतं प्राप्तरतिं महिष्ठम्

॥७॥

सतां शरण्यं वरदं महेन्द्रं । समीक्ष्य विप्राधिपतिर् महात्मा । विमोहितोऽसौ मुनिर् इन्द्रलक्ष्म्या । समीहयाम् आस तद् इन्द्रराज्यम्

॥८॥

सम्पूजितो देवगणैर् यथावत् । स्वम् आश्रमं वै पुनर् आजगाम । समीक्ष्य तां शक्रपुरीं सुरम्यां । रत्नैर् युतां पुण्यगुणैः सुपूर्णाम्

॥९॥

स्वम् आश्रमं निष्प्रभहेमवर्ज्यं । समीक्ष्य विप्रो विरमं जगाम । समीहमानः सुरराज्यम् आशु । प्रियां तदोवाच महात्रिपुत्रः

॥१०॥

आत्रेय उवाच:

भोक्तुं न शक्तोऽस्मि फलानि मूलान्य् । अनुत्तमान्य् अप्य् अतिसंस्कृतानि । स्मृत्वामृतं पुण्यतमं च तत्र । भक्ष्यं च भोज्यं च वरासनानि । स्तुतिं च दानं च सभां शुभां च । अस्त्रं च वासांसि पुरीं वनानि

॥११॥

ब्रह्मोवाच:

ततो महात्मा तपसः प्रभावात् । त्वष्टारम् आहूय वचो बभाषे

॥१२॥

आत्रेय उवाच:

इच्छेयम् इन्द्रत्वम् अहं महात्मन् । कुरुष्व शीघ्रं पदम् ऐन्द्रम् अत्र । ब्रूषेऽन्यथा चेन् मदुदीरितं त्वं । भस्मीकरोम्य् एव न संशयोऽत्र

॥१३॥

ब्रह्मोवाच:

तदत्रिवाक्यात् त्वरितः प्रजानां । स्रष्टा विभुर् विश्वकर्मा तदैव । चकार मेरुं च पुरीं सुराणां । कल्पद्रुमान् कल्पलतां च धेनुम्

॥१४॥

चकार वज्रादिविभूषितानि । गृहाणि शुभ्राण्य् अतिचित्रितानि । चकार सर्वावयवानवद्यां । शचीं स्मरस्येव विहारशालाम्

॥१५॥

सभां सुधर्माणम् अहो क्षणेन । तथा चकाराप्सरसो मनोज्ञाः । चकार चोच्चैःश्रवसं गजं च । वज्रादि चास्त्राणि सुरान् अशेषान्

॥१६॥

निवार्यमाणः प्रिययात्रिपुत्रः । शचीसमाम् आत्मवधूं चकार । तदात्रिपुत्रोऽत्रिमुखैः समेतो । वज्रादिरूपं च चकार चास्त्रम्

॥१७॥

नृत्यादि गीतादि च सर्वम् एव । चकार शक्रस्य पुरे च दृष्टम् । तत् सर्वम् आसाद्य तदा मुनीन्द्रः । प्रहृष्टचेताः सुतरां बभूव

॥१८॥

आपातरम्येष्व् अपि कस्य नाम । भवत्य् अपेक्षा नहि गोचरेषु । श्रुत्वा च दैत्या दनुजाः समेता । रक्षांसि कोपेन युतानि सद्यः

॥१९॥

स्वर्गं परित्यज्य कुतो हरिर् भुवं । समागतो न्व् एष मिथः सुखाय । तस्माद् वयं याम इतो नु योद्धुं । वृत्रस्य हन्तारम् अदीर्घसत्त्रम्

॥२०॥

ततः समागत्य तदात्रिपुत्रं । संवेष्टयाम् आसुर् अथासुरास् ते । कृतं तथा चेन्द्रपुराभिधानम् । तैर् वध्यमानः शस्त्रपातैर् महद्भिस् । ततो भीतो वाक्यम् इदं जगाद

॥२१॥

आत्रेय उवाच:

यो जात एव प्रथमो मनस्वान् । देवो देवान् क्रतुना पर्यभूषत् । यस्य शुष्माद् रोदसी अभ्यसेतां । नृम्णस्य मह्ना स जनास इन्द्रः

॥२२॥

ब्रह्मोवाच:

इत्यादिसूक्तेन रिपून् उवाच । हरिं च तुष्टाव तदात्रिपुत्रः

॥२३॥

आत्रेय उवाच:

नाहं हरिर् नैव शची मदीया । नेयं पुरी नैव वनं तद् ऐन्द्रम् । स एव चेन्द्रो वृत्रहन्ता स वज्री । सहस्राक्षो गोत्रभिद् वज्रबाहुः

॥२४॥

अहं तु विप्रो वेदविद् ब्रह्मवृन्दैः । समाविष्टो गौतमीतीरसंस्थः । यत्रायत्यां नाद्य वा सौख्यहेतुस् । तच् चाकार्षं कर्म दुर्दैवयोगात्

॥२५॥

असुरा ऊचुः:

संहरस्वेदम् आत्रेय यद् इन्द्रस्य विडम्बनम् । क्षेमस् ते भविता सत्यं नान्यथा मुनिसत्तम

॥२६॥

ब्रह्मोवाच:

तदात्रेयोऽब्रवीद् वाक्यं यथा वक्ष्यन्ति माम् इह । करोम्य् एव महाभागाः सत्येनाग्निं समालभे

॥२७॥

एवम् उक्त्वा स दैतेयांस् त्वष्टारं पुनर् अब्रवीत्

॥२८॥

आत्रेय उवाच:

यत् कृतं त्व् अत्र मत्प्रीत्याऐ ऐन्द्रं त्वष्टः पदं त्वया । संहरस्व पुनः शीघ्रं रक्ष मां ब्राह्मणं मुनिम्

॥२९॥

पुनर् देहि पदं मह्यम् आश्रमं मृगपक्षिणः । वृक्षांश् च वारि यत्रासीन् न मे दिव्यैः प्रयोजनम् । सर्वम् अक्रमम् आयातं न सुखाय मनीषिणाम्

॥३०॥

ब्रह्मोवाच:

तथेत्य् उक्त्वा प्रजानाथस् त्वष्टा संहृतवांस् तदा । दैत्याश् च जग्मुः स्वस्थानं कृत्वा देशम् अकण्टकम्

॥३१॥

त्वष्टा चापि ययौ स्थानं स्वकं सम्प्रहसन्न् इव । आत्रेयोऽपि तदा शिष्यैः संवृतः सह भार्यया

॥३२॥

गौतमीतीरम् आश्रित्य तपोनिष्ठोऽखिलैर् वृतः । वर्तमाने महायज्ञे लज्जितो वाक्यम् अब्रवीत्

॥३३॥

आत्रेय उवाच:

अहो मोहस्य महिमा ममापि भ्रान्तचित्तता । किं महेन्द्रपदं लब्धं किं मयात्र पुरा कृतम्

॥३४॥

ब्रह्मोवाच:

एवं वदन्तम् आत्रेयं लज्जितं प्राब्रुवन् सुराः

॥३५॥

सुरा ऊचुः:

लज्जां जहि महाबाहो भविता ख्यातिर् उत्तमा । आत्रेयतीर्थे ये स्नानं प्राणिनः कुर्युर् अञ्जसा

॥३६॥

इन्द्रास् ते भवितारो वै स्मरणात् सुखभागिनः । तत्र पञ्च सहस्राणि तीर्थान्य् आहुर् मनीषिणः

॥३७॥

अन्विन्द्रात्रेयदैतेयनामभिः कीर्तितानि च । तेषु स्नानं च दानं च सर्वम् अक्षयपुण्यदम्

॥३८॥

ब्रह्मोवाच:

इत्य् उक्त्वा विबुधा याताः सन्तुष्टश् चाभवन् मुनिः

॥३९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).