अध्यायः २११
व्यास उवाच:
इत्य् उक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः । प्रदक्षिणं च बहुशः कृत्वा प्रायाद् यथोदितम्
॥१॥स च गत्वा तथा चक्रे द्वारकायां तथार्जुनम् । आनिनाय महाबुद्धिं वज्रं चक्रे तथा नृपम्
॥२॥भगवान् अपि गोविन्दो वासुदेवात्मकं परम् । ब्रह्मात्मनि समारोप्य सर्वभूतेष्व् अधारयत्
॥३॥स मानयन् द्विजवचो दुर्वासा यद् उवाच ह । योगयुक्तोऽभवत् पादं कृत्वा जानुनि सत्तमाः
॥४॥सम्प्राप्तो वै जरा नाम तदा तत्र स लुब्धकः । मुशलशेषलोहस्य सायकं धारयन् परम्
॥५॥स तत्पादं मृगाकारं समवेक्ष्य व्यवस्थितः । ततो विव्याध तेनैव तोमरेण द्विजोत्तमाः
॥६॥गतश् च ददृशे तत्र चतुर्बाहुधरं नरम् । प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः
॥७॥अजानता कृतम् इदं मया हरिणशङ्कया । क्षम्यताम् आत्मपापेन दग्धं मा दग्धुम् अर्हसि
॥८॥व्यास उवाच:
ततस् तं भगवान् आह नास्ति ते भयम् अण्व् अपि । गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गेश्वरास्पदम्
॥९॥व्यास उवाच:
विमानम् आगतं सद्यस् तद्वाक्यसमनन्तरम् । आरुह्य प्रययौ स्वर्गं लुब्धकस् तत्प्रसादतः
॥१०॥गते तस्मिन् स भगवान् संयोज्यात्मानम् आत्मनि । ब्रह्मभूतेऽव्ययेऽचिन्त्ये वासुदेवमयेऽमले
॥११॥अजन्मन्य् अजरेऽनाशिन्य् अप्रमेयेऽखिलात्मनि । त्यक्त्वा स मानुषं देहम् अवाप त्रिविधां गतिम्
॥१२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).