मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ५४

3
ब्रह्मपुराणम् · 54

अध्यायः ५४

ब्रह्मोवाच:

स प्रविश्योदरे तस्य बालस्य मुनिसत्तमः । ददर्श पृथिवीं कृत्स्नां नानाजनपदैर् वृताम्

॥१॥

लवणेक्षुसुरासर्पिर्दधिदुग्धजलोदधीन् । ददर्श तान् समुद्रांश् च जम्बु प्लक्षं च शाल्मलम्

॥२॥

कुशं क्रौञ्चं च शाकं च पुष्करं च ददर्श सः । भारतादीनि वर्षाणि तथा सर्वांश् च पर्वतान्

॥३॥

मेरुं च सर्वरत्नाढ्यं अपश्यत् कनकाचलम् । नानारत्नान्वितैः शृङ्गैर् भूषितं बहुकन्दरम्

॥४॥

नानामुनिजनाकीर्णं नानावृक्षवनाकुलम् । नानासत्त्वसमायुक्तं नानाश्चर्यसमन्वितम्

॥५॥

व्याघ्रैः सिंहैर् वराहैश् च चामरैर् महिषैर् गजैः । मृगैः शाखामृगैश् चान्यैर् भूषितं सुमनोहरम्

॥६॥

शक्राद्यैर् विविधैर् देवैः सिद्धचारणपन्नगैः । मुनियक्षाप्सरोभिश् च वृतैश् चान्यैः सुरालयैः

॥७॥

ब्रह्मोवाच:

एवं सुमेरुं श्रीमन्तम् अपश्यन् मुनिसत्तमः । पर्यटन् स तदा विप्रस् तस्य बालस्य चोदरे

॥८॥

हिमवन्तं हेमकूटं निषधं गन्धमादनम् । श्वेतं च दुर्धरं नीलं कैलासं मन्दरं गिरिम्

॥९॥

महेन्द्रं मलयं विन्ध्यं पारियात्रं तथार्बुदम् । सह्यं च शुक्तिमन्तं च मैनाकं वक्रपर्वतम्

॥१०॥

एताश् चान्याश् च बहवो यावन्तः पृथिवीधराः । ततस् तांस् तु मुनिश्रेष्ठाः सोऽपश्यद् रत्नभूषितान्

॥११॥

कुरुक्षेत्रं च पाञ्चालान् मत्स्यान् मद्रान् सकेकयान् । बाह्लीकान् शूरसेनांश् च काश्मीरांस् तङ्गणान् खसान्

॥१२॥

पार्वतीयान् किरातांश् च कर्णप्रावरणान् मरून् । अन्त्यजान् अन्त्यजातींश् च सोऽपश्यत् तस्य चोदरे

॥१३॥

मृगाञ् शाखामृगान् सिंहान् वराहान् सृमराञ् शशान् । गजांश् चान्यांस् तथा सत्त्वान् सोऽपश्यत् तस्य चोदरे

॥१४॥

पृथिव्यां यानि तीर्थानि ग्रामाश् च नगराणि च । कृषिगोरक्षवाणिज्यं क्रयविक्रयणं तथा

॥१५॥

शक्रादीन् विबुधाञ् श्रेष्ठांस् तथान्यांश् च दिवौकसः । गन्धर्वाप्सरसो यक्षान् ऋषींश् चैव सनातनान्

॥१६॥

दैत्यदानवसङ्घांश् च नागांश् च मुनिसत्तमाः । सिंहिकातनयांश् चैव ये चान्ये सुरशत्रवः

॥१७॥

यत् किञ्चित् तेन लोकेऽस्मिन् दृष्टपूर्वं चराचरम् । अपश्यत् स तदा सर्वं तस्य कुक्षौ द्विजोत्तमाः

॥१८॥

अथवा किं बहूक्तेन कीर्तितेन पुनः पुनः । ब्रह्मादिस्तम्बपर्यन्तं यत् किञ्चित् सचराचरम्

॥१९॥

भूर्लोकं च भुवर्लोकं स्वर्लोकं च द्विजोत्तमाः । महर् जनस् तपः सत्यम् अतलं वितलं तथा

॥२०॥

पातालं सुतलं चैव वितलं च रसातलम् । महातलं च ब्रह्माण्डम् अपश्यत् तस्य चोदरे

॥२१॥

अव्याहता गतिस् तस्य तदाभूद् द्विजसत्तमाः । प्रसादात् तस्य देवस्य स्मृतिलोपश् च नाभवत्

॥२२॥

भ्रममाणस् तदा कुक्षौ कृत्स्नं जगद् इदं द्विजाः । नान्तं जगाम देहस्य तस्य विष्णोः कदाचन

॥२३॥

यदासौ नागतश् चान्तं तस्य देहस्य भो द्विजाः । तदा तं वरदं देवं शरणं गतवान् मुनिः

॥२४॥

ततोऽसौ सहसा विप्रा वायुवेगेन निःसृतः । महात्मनो मुखात् तस्य विवृतात् पुरुषस्य सः

॥२५॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).