अध्यायः ८४
ब्रह्मोवाच:
पैशाचं तीर्थम् अपरं पूजितं ब्रह्मवादिभिः । तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे
॥१॥गिरिर् ब्रह्मगिरेः पार्श्वे अञ्जनो नाम नारद । तस्मिञ् शैले मुनिवर शापभ्रष्टा वराप्सरा
॥२॥अञ्जना नाम तत्रासीद् उत्तमाङ्गेन वानरी । केसरी नाम तद्भर्ता अद्रिकेति तथापरा
॥३॥सापि केसरिणो भार्या शापभ्रष्टा वराप्सरा । उत्तमाङ्गेन मार्जारी साप्य् आस्तेऽञ्जनपर्वते
॥४॥दक्षिणार्णवम् अभ्यागात् केसरी लोकविश्रुतः । एतस्मिन्न् अन्तरेऽगस्त्योऽञ्जनं पर्वतम् अभ्यगात्
॥५॥अञ्जना चाद्रिका चैव अगस्त्यम् ऋषिसत्तमम् । पूजयाम् आसतुर् उभे यथान्यायं यथासुखम्
॥६॥ततः प्रसन्नो भगवान् आहोभे व्रियतां वरः । ते आहतुर् उभेऽगस्त्यं पुत्रौ देहि मुनीश्वर
॥७॥सर्वेभ्यो बलिनौ श्रेष्ठौ सर्वलोकोपकारकौ । तथेत्य् उक्त्वा मुनिश्रेष्ठो जगामाशां स दक्षिणाम्
॥८॥ततः कदाचित् ते काले अञ्जना चाद्रिका तथा । गीतं नृत्यं च हास्यं च कुर्वत्यौ गिरिमूर्धनि
॥९॥वायुश् च निरृतिश् चापि ते दृष्ट्वा सस्मितौ सुरौ । कामाक्रान्तधियौ चोभौ तदा सत्वरम् ईयतुः
॥१०॥भार्ये भवेताम् उभयोर् आवां देवौ वरप्रदौ । ते अप्य् ऊचतुर् अस्त्व् एतद् रेमाते गिरिमूर्धनि
॥११॥अञ्जनायां तथा वायोर् हनुमान् समजायत । अद्रिकायां च निरृतेर् अद्रिर् नाम पिशाचराट्
॥१२॥पुनस् ते आहतुर् उभे पुत्रौ जातौ मुनेर् वरात् । आवयोर् विकृतं रूपम् उत्तमाङ्गेन दूषितम्
॥१३॥शापाच् छचीपतेस् तत्र युवाम् आज्ञातुम् अर्हथः । ततः प्रोवाच भगवान् वायुश् च निरृतिस् तथा
॥१४॥गौतम्यां स्नानदानाभ्यां शापमोक्षो भविष्यति । इत्य् उक्त्वा ताव् उभौ प्रीतौ तत्रैवान्तरधीयताम्
॥१५॥ततोऽञ्जनां समादाय अद्रिः पैशाचमूर्तिमान् । भ्रातुर् हनुमतः प्रीत्यै स्नापयाम् आस मातरम्
॥१६॥तथैव हनुमान् गङ्गाम् आदायाद्रिम् अतित्वरन् । मार्जाररूपिणीं नीत्वा गौतम्यास् तीरम् आप्तवान्
॥१७॥ततः प्रभृति तत् तीर्थं पैशाचं चाञ्जनं तथा । ब्रह्मणो गिरिम् आसाद्य सर्वकामप्रदं शुभम्
॥१८॥योजनानां त्रिपञ्चाशन् मार्जारं पूर्वतो भवेत् । मार्जारसञ्ज्ञितात् तस्माद् धनूमन्तं वृषाकपिम्
॥१९॥फेनासङ्गमम् आख्यातं सर्वकामप्रदं शुभम् । तस्य स्वरूपं व्युष्टिश् च तत्रैव प्रोच्यते शुभा
॥२०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).