अध्यायः २१८
मुनय ऊचुः:
अधर्मस्य गतिर् ब्रह्मन् कथिता नस् त्वयानघ । धर्मस्य च गतिं श्रोतुम् इच्छामो वदतां वर
॥१॥कृत्वा पापानि कर्माणि कथं यान्त्य् अशुभां गतिम् । कर्मणा च कृतेनेह केन यान्ति शुभां गतिम्
॥२॥व्यास उवाच:
कृत्वा पापानि कर्माणि त्व् अधर्मवशम् आगतः । मनसा विपरीतेन निरयं प्रतिपद्यते
॥३॥मोहाद् अधर्मं यः कृत्वा पुनः समनुतप्यते । मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम्
॥४॥यदि विप्राः कथयते विप्राणां धर्मवादिनाम् । ततोऽधर्मकृतात् क्षिप्रम् अपराधात् प्रमुच्यते
॥५॥यथा यथा नरः सम्यग् अधर्मम् अनुभाषते । समाहितेन मनसा विमुञ्चति तथा तथा
॥६॥यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हते । तथा तथा शरीरं तु तेनाधर्मेण मुच्यते
॥७॥भुजङ्ग इव निर्मोकान् पूर्वभुक्ताञ् जहाति तान् । दत्त्वा विप्रस्य दानानि विविधानि समाहितः
॥८॥मनःसमाधिसंयुक्तः स्वर्गतिं प्रतिपद्यते । दानानि तु प्रवक्ष्यामि यानि दत्त्वा द्विजोत्तमाः
॥९॥नरः कृत्वाप्य् अकार्याणि ततो धर्मेण युज्यते । सर्वेषाम् एव दानानाम् अन्नं श्रेष्ठम् उदाहृतम्
॥१०॥सर्वम् अन्नं प्रदातव्यम् ऋजुना धर्मम् इच्छता । प्राणा ह्य् अन्नं मनुष्याणां तस्माज् जन्तुः प्रजायते
॥११॥अन्ने प्रतिष्ठिता लोकास् तस्माद् अन्नं प्रशस्यते । अन्नम् एव प्रशंसन्ति देवर्षिपितृमानवाः
॥१२॥अन्नस्य हि प्रदानेन स्वर्गम् आप्नोति मानवः । न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नम् उत्तमम्
॥१३॥स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना । यस्य त्व् अन्नम् उपाश्नन्ति ब्राह्मणाश् च सकृद् दश
॥१४॥हृष्टेन मनसा दत्तं न स तिर्यग्गतिर् भवेत् । ब्राह्मणानां सहस्राणि दशाभोज्य द्विजोत्तमाः
॥१५॥नरोऽधर्मात् प्रमुच्येत पापेष्व् अभिरतः सदा । भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः
॥१६॥स्वाध्यायनिरते विप्रे दत्त्वेह सुखम् एधते । अहिंसन् ब्राह्मणस्वानि न्यायेन परिपाल्य च
॥१७॥क्षत्रियस् तरसा प्राप्तम् अन्नं यो वै प्रयच्छति । द्विजेभ्यो वेदमुख्येभ्यः प्रयतः सुसमाहितः
॥१८॥तेनापोहति धर्मात्मा दुष्कृतं कर्म भो द्विजाः । षड्भागपरिशुद्धं च कृषेर् भागम् उपार्जितम्
॥१९॥वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते । अवाप्य प्राणसन्देहं कार्कश्येन समार्जितम्
॥२०॥अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते । औरसेन बलेनान्नम् अर्जयित्वा विहिंसकः
॥२१॥यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते । न्यायेनावाप्तम् अन्नं तु नरो हर्षसमन्वितः
॥२२॥द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते । अन्नम् ऊर्जस्करं लोके दत्त्वोर्जस्वी भवेन् नरः
॥२३॥सतां पन्थानम् आवृत्य सर्वपापैः प्रमुच्यते । दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः
॥२४॥तेष्व् अप्य् अन्नस्य दातारस् तेभ्यो धर्मः सनातनः । सर्वावस्थं मनुष्येण न्यायेनान्नम् उपार्जितम्
॥२५॥कार्यान् न्यायागतं नित्यम् अन्नं हि परमा गतिः । अन्नस्य हि प्रदानेन नरो याति परां गतिम्
॥२६॥सर्वकामसमायुक्तः प्रेत्य चाप्य् अश्नुते सुखम् । एवं पुण्यसमायुक्तो नरः पापैः प्रमुच्यते
॥२७॥तस्माद् अन्नं प्रदातव्यम् अन्यायपरिवर्जितम् । यस् तु प्राणाहुतीपूर्वम् अन्नं भुङ्क्ते गृही सदा
॥२८॥अवन्ध्यं दिवसं कुर्याद् अन्नदानेन मानवः । भोजयित्वा शतं नित्यं नरो वेदविदां वरम्
॥२९॥न्यायविद्धर्मविदुषाम् इतिहासविदां तथा । न याति नरकं घोरं संसारं न च सेवते
॥३०॥सर्वकामसमायुक्तः प्रेत्य चाप्य् अश्नुते सुखम् । एवं कर्मसमायुक्तो रमते विगतज्वरः
॥३१॥रूपवान् कीर्तिमांश् चैव धनवांश् चोपजायते । एतद् वः सर्वम् आख्यातम् अन्नदानफलं महत् । मूलम् एतत् तु धर्माणां प्रदानानां च भो द्विजाः
॥३२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).