मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ५८

3
ब्रह्मपुराणम् · 58

अध्यायः ५८

ब्रह्मोवाच:

एवं दृष्ट्वा बलं कृष्णं सुभद्रां प्रणिपत्य च । धर्मं चार्थं च कामं च मोक्षं च लभते ध्रुवम्

॥१॥

निष्क्रम्य देवतागारात् कृतकृत्यो भवेन् नरः । प्रणम्यायतनं पश्चाद् व्रजेत् तत्र समाहितः

॥२॥

इन्द्रनीलमयो विष्णुर् यत्रास्ते वालुकावृतः । अन्तर्धानगतं नत्वा ततो विष्णुपुरं व्रजेत्

॥३॥

सर्वदेवमयो योऽसौ हतवान् असुरोत्तमम् । स आस्ते तत्र भो विप्राः सिंहार्धकृतविग्रहः

॥४॥

भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नरकेसरीम् । मुच्यते पातकैर् मर्त्यः समस्तैर् नात्र संशयः

॥५॥

नरसिंहस्य ये भक्ता भवन्ति भुवि मानवाः । न तेषां दुष्कृतं किञ्चित् फलं स्याद् यद् यद् ईप्सितम्

॥६॥

तस्मात् सर्वप्रयत्नेन नरसिंहं समाश्रयेत् । धर्मार्थकाममोक्षाणां फलं यस्मात् प्रयच्छति

॥७॥

मुनय ऊचुः:

माहात्म्यं नरसिंहस्य सुखदं भुवि दुर्लभम् । यथा कथयसे देव तेन नो विस्मयो महान्

॥८॥

प्रभावं तस्य देवस्य विस्तरेण जगत्पते । श्रोतुम् इच्छामहे ब्रूहि परं कौतूहलं हि नः

॥९॥

यथा प्रसीदेद् देवोऽसौ नरसिंहो महाबलः । भक्तानाम् उपकाराय ब्रूहि देव नमोऽस्तु ते

॥१०॥

प्रसादान् नरसिंहस्य या भवन्त्य् अत्र सिद्धयः । ब्रूहि ताः कुरु चास्माकं प्रसादं प्रपितामह

॥११॥

ब्रह्मोवाच:

शृणुध्वं तस्य भो विप्राः प्रभावं गदतो मम । अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च

॥१२॥

कः शक्नोति गुणान् वक्तुं समस्तांस् तस्य भो द्विजाः । सिंहार्धकृतदेहस्य प्रवक्ष्यामि समासतः

॥१३॥

याः काश्चित् सिद्धयश् चात्र श्रूयन्ते दैवमानुषाः । प्रसादात् तस्य ताः सर्वाः सिध्यन्ति नात्र संशयः

॥१४॥

स्वर्गे मर्त्ये च पाताले दिक्षु तोये पुरे नगे । प्रसादात् तस्य देवस्य भवत्य् अव्याहता गतिः

॥१५॥

असाध्यं तस्य देवस्य नास्त्य् अत्र सचराचरे । नरसिंहस्य भो विप्राः सदा भक्तानुकम्पिनः

॥१६॥

विधानं तस्य वक्ष्यामि भक्तानाम् उपकारकम् । येन प्रसीदेच् चैवासौ सिंहार्धकृतविग्रहः

॥१७॥

शृणुध्वं मुनिशार्दूलाः कल्पराजं सनातनम् । नरसिंहस्य तत्त्वं च यन् न ज्ञातं सुरासुरैः

॥१८॥

शाकयावकमूलैस् तु फलपिण्याकसक्तुकैः । पयोभक्षेण विप्रेन्द्रा वर्तयेत् साधकोत्तमः

॥१९॥

कोशकौपीनवासाश् च ध्यानयुक्तो जितेन्द्रियः । अरण्ये विजने देशे पर्वते सिन्धुसङ्गमे

॥२०॥

ऊषरे सिद्धक्षेत्रे च नरसिंहाश्रमे तथा । प्रतिष्ठाप्य स्वयं वापि पूजां कृत्वा विधानतः

॥२१॥

द्वादश्यां शुक्लपक्षस्य उपोष्य मुनिपुङ्गवाः । जपेल् लक्षाणि वै विंशन् मनसा संयतेन्द्रियः

॥२२॥

उपपातकयुक्तश् च महापातकसंयुतः । मुक्तो भवेत् ततो विप्राः साधको नात्र संशयः

॥२३॥

कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् । पुण्यगन्धादिभिर् धूपैः प्रणम्य शिरसा प्रभुम्

॥२४॥

कर्पूरचन्दनाक्तानि जातीपुष्पाणि मस्तके । प्रदद्यान् नरसिंहस्य ततः सिद्धिः प्रजायते

॥२५॥

भगवान् सर्वकार्येषु न क्वचित् प्रतिहन्यते । तेजः सोढुं न शक्ताः स्युर् ब्रह्मरुद्रादयः सुराः

॥२६॥

किं पुनर् दानवा लोके सिद्धगन्धर्वमानुषाः । विद्याधरा यक्षगणाः सकिन्नरमहोरगाः

॥२७॥

मन्त्रं यान् आसुरान् हन्तुं जपन्त्य् एकेऽन्यसाधकाः । ते सर्वे प्रलयं यान्ति दृष्ट्वादित्याग्निवर्चसः

॥२८॥

सकृज्जप्तं तु कवचं रक्षेत् सर्वम् उपद्रवम् । द्विर्जप्तं कवचं दिव्यं रक्षते देवदानवात्

॥२९॥

गन्धर्वाः किन्नरा यक्षा विद्याधरमहोरगाः । भूताः पिशाचा रक्षांसि ये चान्ये परिपन्थिनः

॥३०॥

त्रिर्जप्तं कवचं दिव्यम् अभेद्यं च सुरासुरैः । द्वादशाभ्यन्तरे चैव योजनानां द्विजोत्तमाः

॥३१॥

रक्षते भगवान् देवो नरसिंहो महाबलः । ततो गत्वा बिलद्वारम् उपोष्य रजनीत्रयम्

॥३२॥

पलाशकाष्ठैः प्रज्वाल्य भगवन्तं हुताशनम् । पलाशसमिधस् तत्र जुहुयात् त्रिमधुप्लुताः

॥३३॥

द्वे शते द्विजशार्दूला वषट्कारेण साधकः । ततो विवरद्वारं तु प्रकटं जायते क्षणात्

॥३४॥

ततो विशेत् तु निःशङ्कं कवची विवरं बुधः । गच्छतः सङ्कटं तस्य तमोमोहश् च नश्यति

॥३५॥

राजमार्गः सुविस्तीर्णो दृश्यते भ्रमराजितः । नरसिंहं स्मरंस् तत्र पातालं विशते द्विजाः

॥३६॥

गत्वा तत्र जपेत् तत्त्वं नरसिंहाख्यम् अव्ययम् । ततः स्त्रीणां सहस्राणि वीणावादनकर्मणाम्

॥३७॥

निर्गच्छन्ति पुरो विप्राः स्वागतं ता वदन्ति च । प्रवेशयन्ति ता हस्ते गृहीत्वा साधकेश्वरम्

॥३८॥

ततो रसायनं दिव्यं पाययन्ति द्विजोत्तमाः । पीतमात्रे दिव्यदेहो जायते सुमहाबलः

॥३९॥

क्रीडते सह कन्याभिर् यावद् आभूतसम्प्लवम् । भिन्नदेहो वासुदेवे लीयते नात्र संशयः

॥४०॥

यदा न रोचते वासस् तस्मान् निर्गच्छते पुनः । पट्टं शूलं च खड्गं च रोचनां च मणिं तथा

॥४१॥

रसं रसायनं चैव पादुकाञ्जनम् एव च । कृष्णाजिनं मुनिश्रेष्ठा गुटिकां च मनोहराम्

॥४२॥

कमण्डलुं चाक्षसूत्रं यष्टिं सञ्जीवनीं तथा । सिद्धविद्यां च शास्त्राणि गृहीत्वा साधकेश्वरः

॥४३॥

ज्वलद्वह्निस्फुलिङ्गोर्मिवेष्टितं त्रिशिखं हृदि । सकृन् न्यस्तं दहेत् सर्वं वृजिनं जन्मकोटिजम्

॥४४॥

विषे न्यस्तं विषं हन्यात् कुष्ठं हन्यात् तनौ स्थितम् । स्वदेहे भ्रूणहत्यादि कृत्वा दिव्येन शुध्यति

॥४५॥

महाग्रहगृहीतेषु ज्वलमानं विचिन्तयेत् । हृदन्ते वै ततः शीघ्रं नश्येयुर् दारुणा ग्रहाः

॥४६॥

बालानां कण्ठके बद्धं रक्षा भवति नित्यशः । गण्डपिण्डकलूतानां नाशनं कुरुते ध्रुवम्

॥४७॥

व्याधिजाते समिद्भिश् च घृतक्षीरेण होमयेत् । त्रिसन्ध्यं मासम् एकं तु सर्वरोगान् विनाशयेत्

॥४८॥

असाध्यं तु न पश्यामि त्रैलोक्ये सचराचरे । यां यां कामयते सिद्धिं तां तां प्राप्नोति स ध्रुवम्

॥४९॥

अष्टोत्तरशतं त्व् एके पूजयित्वा मृगाधिपम् । मृत्तिकाः सप्त वल्मीके श्मशाने च चतुष्पथे

॥५०॥

रक्तचन्दनसम्मिश्रा गवां क्षीरेण लोडयेत् । सिंहस्य प्रतिमां कृत्वा प्रमाणेन षडङ्गुलाम्

॥५१॥

लिम्पेत् तथा भूर्जपत्त्रे रोचनया समालिखेत् । नरसिंहस्य कण्ठे तु बद्ध्वा चैव हि मन्त्रवित्

॥५२॥

जपेत् सङ्ख्याविहीनं तु पूजयित्वा जलाशये । यावत् सप्ताहमात्रं तु जपेत् संयमितेन्द्रियः

॥५३॥

जलाकीर्णा मुहूर्तेन जायते सर्वमेदिनी । अथवा शुष्कवृक्षाग्रे नरसिंहं तु पूजयेत्

॥५४॥

जप्त्वा चाष्टशतं तत्त्वं वर्षन्तं विनिवारयेत् । तम् एवं पिञ्जके बद्ध्वा भ्रामयेत् साधकोत्तमः

॥५५॥

महावातो मुहूर्तेन आगच्छेन् नात्र संशयः । पुनश् च धारयेत् क्षिप्रं सप्तसप्तेन वारिणा

॥५६॥

अथ तां प्रतिमां द्वारि निखनेद् यस्य साधकः । गोत्रोत्सादो भवेत् तस्य उद्धृते चैव शान्तिदः

॥५७॥

तस्मात् तं मुनिशार्दूला भक्त्या सम्पूजयेत् सदा । मृगराजं महावीर्यं सर्वकामफलप्रदम्

॥५८॥

विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति । ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः

॥५९॥

सम्पूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् । मुच्यन्ते चाशुभैर् दुःखैर् जन्मकोटिसमुद्भवैः

॥६०॥

सम्पूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्य् अभिवाञ्छितम् । देवत्वम् अमरेशत्वं गन्धर्वत्वं च भो द्विजाः

॥६१॥

यक्षविद्याधरत्वं च तथान्यच् चाभिवाञ्छितम् । दृष्ट्वा स्तुत्वा नमस्कृत्वा सम्पूज्य नरकेसरीम्

॥६२॥

प्राप्नुवन्ति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम् । नरसिंहं नरो दृष्ट्वा लभेद् अभिमतं फलम्

॥६३॥

निर्मुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति । सकृद् दृष्ट्वा तु तं देवं भक्त्या सिंहवपुर्धरम्

॥६४॥

मुच्यते चाशुभैर् दुःखैर् जन्मकोटिसमुद्भवैः । सङ्ग्रामे सङ्कटे दुर्गे चोरव्याघ्रादिपीडिते

॥६५॥

कान्तारे प्राणसन्देहे विषवह्निजलेषु च । राजादिभ्यः समुद्रेभ्यो ग्रहरोगादिपीडिते

॥६६॥

स्मृत्वा तं पुरुषः सर्वै राजग्रामैर् विमुच्यते । सूर्योदये यथा नाशं तमोऽभ्येति महत्तरम्

॥६७॥

तथा सन्दर्शने तस्य विनाशं यान्त्य् उपद्रवाः । गुटिकाञ्जनपातालपादुके च रसायनम्

॥६८॥

नरसिंहे प्रसन्ने तु प्राप्नोत्य् अन्यांश् च वाञ्छितान् । यान् यान् कामान् अभिध्यायन् भजते नरकेसरीम्

॥६९॥

तांस् तान् कामान् अवाप्नोति नरो नास्त्य् अत्र संशयः । दृष्ट्वा तं देवदेवेशं भक्त्यापूज्य प्रणम्य च

॥७०॥

दशानाम् अश्वमेधानां फलं दशगुणं लभेत् । पापैः सर्वैर् विनिर्मुक्तो गुणैः सर्वैर् अलङ्कृतः

॥७१॥

सर्वकामसमृद्धात्मा जरामरणवर्जितः । सौवर्णेन विमानेन किङ्किणीजालमालिना

॥७२॥

सर्वकामसमृद्धेन कामगेन सुवर्चसा । तरुणादित्यवर्णेन मुक्ताहारावलम्बिना

॥७३॥

दिव्यस्त्रीशतयुक्तेन दिव्यगन्धर्वनादिना । कुलैकविंशम् उद्धृत्य देववन् मुदितः सुखी

॥७४॥

स्तूयमानोऽप्सरोभिश् च विष्णुलोकं व्रजेन् नरः । भुक्त्वा तत्र वरान् भोगान् विष्णुलोके द्विजोत्तमाः

॥७५॥

गन्धर्वैर् अप्सरैर् युक्तः कृत्वा रूपं चतुर्भुजम् । मनोह्लादकरं सौख्यं यावद् आभूतसम्प्लवम्

॥७६॥

पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले । चतुर्वेदी भवेद् विप्रो वेदवेदाङ्गपारगः । वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात्

॥७७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).