अध्यायः ४४
ब्रह्मोवाच:
तस्यां स नृपतिः पूर्वं कुर्वन् राज्यम् अनुत्तमम् । पालयाम् आस मतिमान् प्रजाः पुत्रान् इवौरसान्
॥१॥सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः । मतिमान् धर्मसम्पन्नः सर्वशस्त्रभृतां वरः
॥२॥सत्यवाञ् शीलवान् दान्तः श्रीमान् परपुरञ्जयः । आदित्य इव तेजोभी रूपैर् आश्विनयोर् इव
॥३॥वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः । शारदेन्दुर् इवाभाति लक्षणैः समलङ्कृतः
॥४॥आहर्ता सर्वयज्ञानां हयमेधादिकृत् तथा । दानैर् यज्ञैस् तपोभिश् च तत्तुल्यो नास्ति भूपतिः
॥५॥सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः । प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम्
॥६॥हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम् । रत्नानां धनधान्यानाम् अन्तस् तस्य न विद्यते
॥७॥एवं सर्वधनैर् युक्तो गुणैः सर्वैर् अलङ्कृतः । सर्वकामसमृद्धात्मा कुर्वन् राज्यम् अकण्टकम्
॥८॥तस्येयं मतिर् उत्पन्ना सर्वयोगेश्वरं हरिम् । कथम् आराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम्
॥९॥विचार्य सर्वशास्त्राणि तन्त्राण्य् आगमविस्तरम् । इतिहासपुराणानि वेदाङ्गानि च सर्वशः
॥१०॥धर्मशास्त्राणि सर्वाणि नियमान् ऋषिभाषितान् । वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च
॥११॥गुरुं संसेव्य यत्नेन ब्राह्मणान् वेदपारगान् । आधाय परमां काष्ठां कृतकृत्योऽभवत् तदा
॥१२॥सम्प्राप्य परमं तत्त्वं वासुदेवाख्यम् अव्ययम् । भ्रान्तिज्ञानाद् अतीतस् तु मुमुक्षुः संयतेन्द्रियः
॥१३॥कथम् आराधयिष्यामि देवदेवं सनातनम् । पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम्
॥१४॥वनमालावृतोरस्कं पद्मपत्त्रायतेक्षणम् । श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम्
॥१५॥स्वपुरात् स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः । बलेन महता युक्तः सभृत्यः सपुरोहितः
॥१६॥अनुजग्मुस् तु तं सर्वे रथिनः शस्त्रपाणयः । रथैर् विमानसङ्काशैः पताकाध्वजसेवितैः
॥१७॥सादिनश् च तथा सर्वे प्रासतोमरपाणयः । अश्वैः पवनसङ्काशैर् अनुजग्मुस् तु तं नृपम्
॥१८॥हिमवत्सम्भवैर् मत्तैर् वारणैः पर्वतोपमैः । ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः
॥१९॥हेमकक्षैः सपताकैर् घण्टारवविभूषितैः । अनुजग्मुश् च तं सर्वे गजयुद्धविशारदाः
॥२०॥असङ्ख्येयाश् च पादाता धनुष्प्रासासिपाणयः । दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः
॥२१॥अनुजग्मुश् च तं सर्वे युवानो मृष्टकुण्डलाः । सर्वास्त्रकुशलाः शूराः सदा सङ्ग्रामलालसाः
॥२२॥अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलङ्कृताः । बिम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः
॥२३॥दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः । दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः
॥२४॥सुमध्यमाश् चारुवेषाश् चारुकर्णालकाञ्चिताः । ताम्बूलरञ्जितमुखा रक्षिभिश् च सुरक्षिताः
॥२५॥यानैर् उच्चावचैः शुभ्रैर् मणिकाञ्चनभूषितैः । उपगीयमानास् ताः सर्वा गायनैः स्तुतिपाठकैः
॥२६॥वेष्टिताः शस्त्रहस्तैश् च पद्मपत्त्रायतेक्षणाः । ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुश् च तं नृपम्
॥२७॥वणिग्ग्रामगणाः सर्वे नानापुरनिवासिनः । धनै रत्नैः सुवर्णैश् च सदाराः सपरिच्छदाः
॥२८॥अस्त्रविक्रयकाश् चैव ताम्बूलपण्यजीविनः । तृणविक्रयकाश् चैव काष्ठविक्रयकारकाः
॥२९॥रङ्गोपजीविनः सर्वे मांसविक्रयिणस् तथा । तैलविक्रयकाश् चैव वस्त्रविक्रयकास् तथा
॥३०॥फलविक्रयिणश् चैव पत्त्रविक्रयिणस् तथा । तथा जवसहाराश् च रजकाश् च सहस्रशः
॥३१॥गोपाला नापिताश् चैव तथान्ये वस्त्रसूचकाः । मेषपालाश् चाजपाला मृगपालाश् च हंसकाः
॥३२॥धान्यविक्रयिणश् चैव सक्तुविक्रयिणश् च ये । गुडविक्रयिकाश् चैव तथा लवणजीविनः
॥३३॥गायना नर्तकाश् चैव तथा मङ्गलपाठकाः । शैलूषाः कथकाश् चैव पुराणार्थविशारदाः
॥३४॥कवयः काव्यकर्तारो नानाकाव्यविशारदाः । विषघ्ना गारुडाश् चैव नानारत्नपरीक्षकाः
॥३५॥व्योकारास् ताम्रकाराश् च कांस्यकाराश् च रूठकाः । कौषकाराश् चित्रकाराः कुन्दकाराश् च पावकाः
॥३६॥दण्डकाराश् चासिकाराः सुराधूतोपजीविनः । मल्ला दूताश् च कायस्था ये चान्ये कर्मकारिणः
॥३७॥तन्तुवाया रूपकारा वार्तिकास् तैलपाठकाः । लावजीवास् तैत्तिरिका मृगपक्ष्युपजीविनः
॥३८॥गजवैद्याश् च वैद्याश् च नरवैद्याश् च ये नराः । वृक्षवैद्याश् च गोवैद्या ये चान्ये छेददाहकाः
॥३९॥एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः । अनुजग्मुस् तु राजानं समस्तपुरवासिनः
॥४०॥यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः । अनुयान्ति यथा पुत्रास् तथा तं तेऽपि नागराः
॥४१॥एवं स नृपतिः श्रीमान् वृतः सर्वैर् महाजनैः । हस्त्यश्वरथपादातैर् जगाम च शनैः शनैः
॥४२॥एवं गत्वा स नृपतिर् दक्षिणस्योदधेस् तटम् । सर्वैस् तैर् दीर्घकालेन बलैर् अनुगतः प्रभुः
॥४३॥ददर्श सागरं रम्यं नृत्यन्तम् इव च स्थितम् । अनेकशतसाहस्रैर् ऊर्मिभिश् च समाकुलम्
॥४४॥नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम् । वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम्
॥४५॥तीर्थराजं महाशब्दम् अपारं सुभयङ्करम् । मेघवृन्दप्रतीकाशम् अगाधं मकरालयम्
॥४६॥मत्स्यैः कूर्मैश् च शङ्खैश् च शुक्तिकानक्रशङ्कुभिः । शिंशुमारैः कर्कटैश् च वृतं सर्पैर् महाविषैः
॥४७॥लवणोदं हरेः स्थानं शयनस्य नदीपतिम् । सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम्
॥४८॥अनेकावर्तगम्भीरं दानवानां समाश्रयम् । अमृतस्यारणिं दिव्यं देवयोनिम् अपां पतिम्
॥४९॥विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम् । सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम्
॥५०॥तीर्थानाम् उत्तमं तीर्थम् अव्ययं यादसां पतिम् । चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम्
॥५१॥अभेद्यं सर्वभूतानां देवानाम् अमृतालयम् । उत्पत्तिस्थितिसंहारहेतुभूतं सनातनम्
॥५२॥उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम् । दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः
॥५३॥निवासम् अकरोत् तत्र वेलाम् असाद्य सागरीम् । पुण्ये मनोहरे देशे सर्वभूमिगुणैर् युते
॥५४॥वृतं शालैः कदम्बैश् च पुन्नागैः सरलद्रुमैः । पनसैर् नारिकेलैश् च बकुलैर् नागकेसरैः
॥५५॥तालैः पिप्पलैः खर्जूरैर् नारङ्गैर् बीजपूरकैः । शालैर् आम्रातकैर् लोध्रैर् बकुलैर् बहुवारकैः
॥५६॥कपित्थैः कर्णिकारैश् च पाटलाशोकचम्पकैः । दाडिमैश् च तमालैश् च पारिजातैस् तथार्जुनैः
॥५७॥प्राचीनामलकैर् बिल्वैः प्रियङ्गुवटखादिरैः । इङ्गुदीसप्तपर्णैश् च अश्वत्थागस्त्यजम्बुकैः
॥५८॥मधुकैः कर्णिकारैश् च बहुवारैः सतिन्दुकैः । पलाशबदरैर् नीपैः सिद्धनिम्बशुभाञ्जनैः
॥५९॥वारकैः कोविदारैश् च भल्लातामलकैस् तथा । इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः
॥६०॥ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः । शाखोठकैर् निम्बवटैः कुम्भीकौष्ठहरीतकैः
॥६१॥गुग्गुलैश् चन्दनैर् वृक्षैस् तथैवागुरुपाटलैः । जम्बीरकरुणैर् वृक्षैस् तिन्तिडीरक्तचन्दनैः
॥६२॥एवं नानाविधैर् वृक्षैस् तथान्यैर् बहुपादपैः । कल्पद्रुमैर् नित्यफलैः सर्वर्तुकुसुमोत्करैः
॥६३॥नानापक्षिरुतैर् दिव्यैर् मत्तकोकिलनादितैः । मयूरवरसङ्घुष्टैः शुकसारिकसङ्कुलैः
॥६४॥हारीतैर् भृङ्गराजैश् च चातकैर् बहुपुत्रकैः । जीवञ्जीवककाकोलैः कलविङ्कैः कपोतकैः
॥६५॥खगैर् नानाविधैश् चान्यैः श्रोत्ररम्यैर् मनोहरैः । पुष्पिताग्रेषु वृक्षेषु कूजद्भिश् चार्वधिष्ठितैः
॥६६॥केतकीवनखण्डैश् च सदा पुष्पधरैः सितैः । मल्लिकाकुन्दकुसुमैर् यूथिकातगरैस् तथा
॥६७॥कुटजैर् बाणपुष्पैश् च अतिमुक्तैः सकुब्जकैः । मालतीकरवीरैश् च तथा कदलकाञ्चनैः
॥६८॥अन्यैर् नानाविधैः पुष्पैः सुगन्धैश् चारुदर्शनैः । वनोद्यानोपवनजैर् नानावर्णैः सुगन्धिभिः
॥६९॥विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः । गन्धर्वोरगरक्षोभिर् भूताप्सरसकिन्नरैः
॥७०॥मुनियक्षगणाकीर्णैर् नानासत्त्वनिषेवितैः । मृगैः शाखामृगैः सिंहैर् वराहमहिषाकुलैः
॥७१॥तथान्यैः कृष्णसाराद्यैर् मृगैः सर्वत्र शोभितैः । शार्दूलैर् दीप्तमातङ्गैस् तथान्यैर् वनचारिभिः
॥७२॥एवं नानाविधैर् वृक्षैर् उद्यानैर् नन्दनोपमैः । लतागुल्मवितानैश् च विविधैश् च जलाशयैः
॥७३॥हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः । कादम्बैश् च प्लवैर् हंसैश् चक्रवाकोपशोभितैः
॥७४॥कमलैः शतपत्त्रैश् च कह्लारैः कुमुदोत्पलैः । खगैर् जलचरैश् चान्यैः पुष्पैर् जलसमुद्भवैः
॥७५॥पर्वतैर् दीप्तशिखरैश् चारुकन्दरमण्डितैः । नानावृक्षसमाकीर्णैर् नानाधातुविभूषितैः
॥७६॥सर्वाश्चर्यमयैः शृङ्गैः सर्वभूतालयैः शुभैः । सर्वौषधिसमायुक्तैर् विपुलैश् चित्रसानुभिः
॥७७॥एवं सर्वैः समुदितैः शोभितं सुमनोहरैः । ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम्
॥७८॥दशयोजनविस्तीर्णं पञ्चयोजनम् आयतम् । नानाश्चर्यसमायुक्तं क्षेत्रं परमदुर्लभम्
॥७९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).