अध्यायः ८१
ब्रह्मोवाच:
कार्त्तिकेयं परं तीर्थं कौमारम् इति विश्रुतम् । यन्नामश्रवणाद् एव कुलवान् रूपवान् भवेत्
॥१॥निहते तारके दैत्ये स्वस्थे जाते त्रिविष्टपे । कार्त्तिकेयं सुतं ज्येष्ठं प्रीत्या प्रोवाच पार्वती
॥२॥यथासुखं भुङ्क्ष्व भोगांस् त्रैलोक्ये मनसः प्रियान् । ममाज्ञया प्रीतमनाः पितुश् चैव प्रसादतः
॥३॥एवम् उक्तः स वै मात्रा विशाखो देवतास्त्रियः । यथासुखं बलाद् रेमे देवपत्न्योऽपि रेमिरे
॥४॥ततः सम्भुज्यमानासु देवपत्नीषु नारद । नाशक्नुवन् वारयितुं कार्त्तिकेयं दिवौकसः
॥५॥ततो निवेदयाम् आसुः पार्वत्यै पुत्रकर्म तत् । असकृद् वार्यमाणोऽपि मात्रा देवैः स शक्तिधृक्
॥६॥नैवासाव् अकरोद् वाक्यं स्त्रीष्व् आसक्तस् तु षण्मुखः । अभिशापभयाद् भीता पार्वती पर्यचिन्तयत्
॥७॥पुत्रस्नेहात् तथैवेशा देवानां कार्यसिद्धये । देवपत्न्यश् चिरं रक्ष्या इति मत्वा पुनः पुनः
॥८॥यस्यां तु रमते स्कन्दः पार्वती त्व् अपि तादृशी । तद्रूपम् आत्मनः कृत्वा वर्तयाम् आस पार्वती
॥९॥इन्द्रस्य वरुणस्यापि भार्याम् आहूय षण्मुखः । यावत् पश्यति तस्यां तु मातृरूपम् अपश्यत
॥१०॥ताम् अपास्य नमस्याथ पुनर् अन्याम् अथाह्वयत् । तस्यां तु मातृरूपं स प्रेक्ष्य लज्जाम् उपेयिवान्
॥११॥एवं बह्वीषु तद् रूपं दृष्ट्वा मातृमयं जगत् । इति सञ्चिन्त्य गाङ्गेयो वैराग्यम् अगमत् तदा
॥१२॥स तु मातृकृतं ज्ञात्वा प्रवृत्तस्य निवर्तनम् । निवार्यश् चेद् अहं भोगात् किन्तु पूर्वं प्रवर्तितः
॥१३॥तस्मान् मातृकृतं सर्वं मम हास्यास्पदं त्व् इति । लज्जया परया युक्तो गौतमीम् अगमत् तदा
॥१४॥इयं च मातृरूपा मे शृणोतु मम भाषितम् । इतः स्त्रीनामधेयं यन् मम मातृसमं मतम्
॥१५॥एवं ज्ञात्वा लोकनाथः पार्वत्या सह शङ्करः । पुत्रं निवारयाम् आस वृत्तम् इत्य् अब्रवीद् गुरुः
॥१६॥ततः सुरपतिः प्रीतः किं ददामीति चिन्तयन् । कृताञ्जलिपुटः स्कन्दः पितरं पुनर् अब्रवीत्
॥१७॥स्कन्द उवाच:
सेनापतिः सुरपतिस् तव पुत्रोऽहम् इत्य् अपि । अलम् एतेन देवेश किं वरैः सुरपूजित
॥१८॥अथवा दातुकामोऽसि लोकानां हितकाम्यया । याचेऽहं नात्मना देव तद् अनुज्ञातुम् अर्हसि
॥१९॥महापातकिनः केचिद् गुरुदाराभिगामिनः । अत्राप्लवनमात्रेण धौतपापा भवन्तु ते
॥२०॥आप्नुवन्तूत्तमां जातिं तिर्यञ्चोऽपि सुरेश्वर । कुरूपो रूपसम्पत्तिम् अत्र स्नानाद् अवाप्नुयात्
॥२१॥ब्रह्मोवाच:
एवम् अस्त्व् इति तं शम्भुः प्रत्यनन्दत् सुतेरितम् । ततः प्रभृति तत् तीर्थं कार्त्तिकेयम् इति श्रुतम् । तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम्
॥२२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).