अध्यायः ११६
ब्रह्मोवाच:
महानलम् इति ख्यातं वडवानलम् उच्यते । महानलो यत्र देवो वडवा यत्र सा नदी
॥१॥तत् तीर्थं पुत्र वक्ष्यामि मृत्युदोषजरापहम् । पुरासन् नैमिषारण्ये ऋषयः सत्त्रकारिणः
॥२॥शमितारं च ऋषयो मृत्युं चक्रुस् तपस्विनः । वर्तमाने सत्त्रयागे मृत्यौ शमितरि स्थिते
॥३॥न ममार तदा कश्चिद् उभयं स्थास्नु जङ्गमम् । विना पशून् मुनिश्रेष्ठ मर्त्यं चामर्त्यतां गतम्
॥४॥ततस् त्रिविष्टपे शून्ये मर्त्ये चैवातिसम्भृते । मृत्युनोपेक्षिते देवा राक्षसान् ऊचिरे तदा
॥५॥देवा ऊचुः:
गच्छध्वम् ऋषिसत्त्रं तन् नाशयध्वं महाध्वरम् ।
॥६॥ब्रह्मोवाच:
इति देववचः श्रुत्वा प्रोचुस् ते राक्षसाः सुरान्
॥६॥असुरा ऊचुः:
विध्वंसयामस् तं यज्ञम् अस्माकं किं फलं ततः । प्रवर्तते विना हेतुं न कोपि क्वापि जातुचित्
॥७॥ब्रह्मोवाच:
देवा अप्य् असुरान् ऊचुर् यज्ञार्धं भवताम् अपि । भवेद् एव ततो यान्तु ऋषीणां सत्त्रम् उत्तमम्
॥८॥ते श्रुत्वा त्वरिताः सर्वे यत्र यज्ञः प्रवर्तते । जग्मुस् तत्र विनाशाय देववाक्याद् विशेषतः
॥९॥तज् ज्ञात्वा ऋषयो मृत्युम् आहुः किं कुर्महे वयम् । आगता देववचनाद् राक्षसा यज्ञनाशिनः
॥१०॥मृत्युना सह सम्मन्त्र्य नैमिषारण्यवासिनः । सर्वे त्यक्त्वा स्वाश्रमं तं शमित्रा सह नारद
॥११॥अग्निमात्रम् उपादाय त्यक्त्वा पात्रादिकं तु यत् । क्रतुनिष्पत्तये जग्मुर् गौतमीं प्रति सत्वराः
॥१२॥तत्र स्नात्वा महेशानं रक्षणायोपतस्थिरे । कृताञ्जलिपुटास् ते तु तुष्टुवुस् त्रिदशेश्वरम्
॥१३॥ऋषय ऊचुः:
यो लीलया विश्वम् इदं चकार । धाता विधाता भुवनत्रयस्य । यो विश्वरूपः सदसत्परो यः । सोमेश्वरं तं शरणं व्रजामः
॥१४॥मृत्युर् उवाच:
इच्छामात्रेण यः सर्वं हन्ति पाति करोति च । तम् अहं त्रिदशेशानं शरणं यामि शङ्करम्
॥१५॥महानलं महाकायं महानागविभूषणम् । महामूर्तिधरं देवं शरणं यामि शङ्करम्
॥१६॥ब्रह्मोवाच:
ततः प्रोवाच भगवान् मृत्यो का प्रीतिर् अस्तु ते
॥१७॥मृत्युर् उवाच:
राक्षसेभ्यो भयं घोरम् आपन्नं त्रिदशेश्वर । यज्ञम् अस्मांश् च रक्षस्व यावत् सत्त्रं समाप्यते
॥१८॥ब्रह्मोवाच:
तथा चकार भगवांस् त्रिनेत्रो वृषभध्वजः । शमित्रा मृत्युना सत्त्रम् ऋषीणां पूर्णतां ययौ
॥१९॥हविषां भागधेयाय आजग्मुर् अमराः क्रमात् । तान् अवोचन् मुनिगणाः सङ्क्षुब्धा मृत्युना सह
॥२०॥ऋषय ऊचुः:
अस्मन्मखविनाशाय राक्षसाः प्रेषिता यतः । तस्माद् भवद्भ्यः पापिष्ठा राक्षसाः सन्तु शत्रवः
॥२१॥ब्रह्मोवाच:
ततः प्रभृति देवानां राक्षसा वैरिणोऽभवन् । कृत्यां च वडवां तत्र देवाश् च ऋषयोऽमलाः
॥२२॥मृत्योर् भार्या भव त्वं ताम् इत्य् उक्त्वा तेऽभ्यषेचयन् । अभिषेकोदकं यत् तु सा नदी वडवाभवत्
॥२३॥मृत्युना स्थापितं लिङ्गं महानलम् इति श्रुतम् । ततः प्रभृति तत् तीर्थं वडवासङ्गमं विदुः
॥२४॥महानलो यत्र देवस् तत् तीर्थं भुक्तिमुक्तिदम् । सहस्रं तत्र तीर्थानां सर्वाभीष्टप्रदायिनाम् । उभयोस् तीरयोस् तत्र स्मरणाद् अघघातिनाम्
॥२५॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).