मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २०६

3
ब्रह्मपुराणम् · 206

अध्यायः २०६

व्यास उवाच:

बाणोऽपि प्रणिपत्याग्रे ततश् चाह त्रिलोचनम्

॥१॥

बाण उवाच:

देव बाहुसहस्रेण निर्विण्णोऽहं विनाहवम् । कच्चिन् ममैषां बाहूनां साफल्यकरणो रणः । भविष्यति विना युद्धं भाराय मम किं भुजैः

॥२॥

शङ्कर उवाच:

मयूरध्वजभङ्गस् ते यदा बाण भविष्यति । पिशिताशिजनानन्दं प्राप्स्यसि त्वं तदा रणम्

॥३॥

व्यास उवाच:

ततः प्रणम्य मुदितः शम्भुम् अभ्यागतो गृहात् । भग्नं ध्वजम् अथालोक्य हृष्टो हर्षं परं ययौ

॥४॥

एतस्मिन्न् एव काले तु योगविद्याबलेन तम् । अनिरुद्धम् अथानिन्ये चित्रलेखा वरा सखी

॥५॥

कन्यान्तःपुरमध्ये तं रममाणं सहोषया । विज्ञाय रक्षिणो गत्वा शशंसुर् दैत्यभूपतेः

॥६॥

व्यादिष्टं किङ्कराणां तु सैन्यं तेन महात्मना । जघान परिघं लौहम् आदाय परवीरहा

॥७॥

हतेषु तेषु बाणोऽपि रथस्थस् तद्वधोद्यतः । युध्यमानो यथाशक्ति यदा वीरेण निर्जितः

॥८॥

मायया युयुधे तेन स तदा मन्त्रचोदितः । ततश् च पन्नगास्त्रेण बबन्ध यदुनन्दनम्

॥९॥

द्वारवत्यां क्व यातोऽसाव् अनिरुद्धेति जल्पताम् । यदूनाम् आचचक्षे तं बद्धं बाणेन नारदः

॥१०॥

तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया । योषिता प्रत्ययं जग्मुर् यादवा नाम वैरिति

॥११॥

ततो गरुडम् आरुह्य स्मृतमात्रागतं हरिः । बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम्

॥१२॥

पुरीप्रवेशे प्रमथैर् युद्धम् आसीन् महाबलैः । ययौ बाणपुराभ्याशं नीत्वा तान् सङ्क्षयं हरिः

॥१३॥

ततस् त्रिपादस् त्रिशिरा ज्वरो माहेश्वरो महान् । बाणरक्षार्थम् अत्यर्थं युयुधे शार्ङ्गधन्वना

॥१४॥

तद्भस्मस्पर्शसम्भूततापं कृष्णाङ्गसङ्गमात् । अवाप बलदेवोऽपि समं सम्मीलितेक्षणः

॥१५॥

ततः संयुध्यमानस् तु सह देवेन शार्ङ्गिणा । वैष्णवेन ज्वरेणाशु कृष्णदेहान् निराकृतः

॥१६॥

नारायणभुजाघातपरिपीडनविह्वलम् । तं वीक्ष्य क्षम्यताम् अस्येत्य् आह देवः पितामहः

॥१७॥

ततश् च क्षान्तम् एवेति प्रोच्य तं वैष्णवं ज्वरम् । आत्मन्य् एव लयं निन्ये भगवान् मधुसूदनः

॥१८॥

मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः । विज्वरास् ते भविष्यन्तीत्य् उक्त्वा चैनं ययौ हरिः

॥१९॥

ततोऽग्नीन् भगवान् पञ्च जित्वा नीत्वा क्षयं तथा । दानवानां बलं विष्णुश् चूर्णयाम् आस लीलया

॥२०॥

ततः समस्तसैन्येन दैतेयानां बलेः सुतः । युयुधे शङ्करश् चैव कार्त्तिकेयश् च शौरिणा

॥२१॥

हरिशङ्करयोर् युद्धम् अतीवासीत् सुदारुणम् । चुक्षुभुः सकला लोकाः शस्त्रास्त्रैर् बहुधार्दिताः

॥२२॥

प्रलयोऽयम् अशेषस्य जगतो नूनम् आगतः । मेनिरे त्रिदशा यत्र वर्तमाने महाहवे

॥२३॥

जृम्भणास्त्रेण गोविन्दो जृम्भयाम् आस शङ्करम् । ततः प्रणेशुर् दैतेयाः प्रमथाश् च समन्ततः

॥२४॥

जृम्भाभिभूतश् च हरो रथोपस्थम् उपाविशत् । न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा

॥२५॥

गरुडक्षतबाहुश् च प्रद्युम्नास्त्रेण पीडितः । कृष्णहुङ्कारनिर्धूतशक्तिश् चापययौ गुहः

॥२६॥

जृम्भिते शङ्करे नष्टे दैत्यसैन्ये गुहे जिते । नीते प्रमथसैन्ये च सङ्क्षयं शार्ङ्गधन्वना

॥२७॥

नन्दीशसङ्गृहीताश्वम् अधिरूढो महारथम् । बाणस् तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह

॥२८॥

बलभद्रो महावीर्यो बाणसैन्यम् अनेकधा । विव्याध बाणैः प्रद्युम्नो धर्मतश् चापलायतः

॥२९॥

आकृष्य लाङ्गलाग्रेण मुशलेन च पोथितम् । बलं बलेन ददृशे बाणो बाणैश् च चक्रिणः

॥३०॥

ततः कृष्णस्य बाणेन युद्धम् आसीत् समासतः । परस्परं तु सन्दीप्तान् कायत्राणविभेदिनः

॥३१॥

कृष्णश् चिच्छेद बाणांस् तान् बाणेन प्रहिताञ् शरैः । बिभेद केशवं बाणो बाणं विव्याध चक्रधृक्

॥३२॥

मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया । परस्परक्षतिपरौ परिघांश् च ततो द्विजाः

॥३३॥

छिद्यमानेष्व् अशेषेषु शस्त्रेष्व् अस्त्रे च सीदति । प्राचुर्येण हरिर् बाणं हन्तुं चक्रे ततो मनः

॥३४॥

ततोऽर्कशतसम्भूततेजसा सदृशद्युति । जग्राह दैत्यचक्रारिर् हरिश् चक्रं सुदर्शनम्

॥३५॥

मुञ्चतो बाणनाशाय तच् चक्रं मधुविद्विषः । नग्ना दैतेयविद्याभूत् कोटरी पुरतो हरेः

॥३६॥

ताम् अग्रतो हरिर् दृष्ट्वा मीलिताक्षः सुदर्शनम् । मुमोच बाणम् उद्दिश्य छेत्तुं बाहुवनं रिपोः

॥३७॥

क्रमेणास्य तु बाहूनां बाणस्याच्युतचोदितम् । छेदं चक्रेऽसुरस्याशु शस्त्रास्त्रक्षेपणाद् द्रुतम्

॥३८॥

छिन्ने बाहुवने तत् तु करस्थं मधुसूदनः । मुमुक्षुर् बाणनाशाय विज्ञातस् त्रिपुरद्विषा

॥३९॥

स उत्पत्याह गोविन्दं सामपूर्वम् उमापतिः । विलोक्य बाणं दोर्दण्डच्छेदासृक्स्राववर्षिणम्

॥४०॥

रुद्र उवाच:

कृष्ण कृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् । परेशं परमात्मानम् अनादिनिधनं परम्

॥४१॥

देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका । लीलेयं तव चेष्टा हि दैत्यानां वधलक्षणा

॥४२॥

तत् प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो । तत् त्वया नानृतं कार्यं यन् मया व्याहृतं वचः

॥४३॥

अस्मत्संश्रयवृद्धोऽयं नापराधस् तवाव्यय । मया दत्तवरो दैत्यस् ततस् त्वां क्षमयाम्य् अहम्

॥४४॥

व्यास उवाच:

इत्य् उक्तः प्राह गोविन्दः शूलपाणिम् उमापतिम् । प्रसन्नवदनो भूत्वा गतामर्षोऽसुरं प्रति

॥४५॥

श्रीभगवान् उवाच:

युष्मद्दत्तवरो बाणो जीवताद् एष शङ्कर । त्वद्वाक्यगौरवाद् एतन् मया चक्रं निवर्तितम्

॥४६॥

त्वया यद् अभयं दत्तं तद् दत्तम् अभयं मया । मत्तोऽविभिन्नम् आत्मानं द्रष्टुम् अर्हसि शङ्कर

॥४७॥

योऽहं स त्वं जगच् चेदं सदेवासुरमानुषम् । अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः

॥४८॥

व्यास उवाच:

इत्य् उक्त्वा प्रययौ कृष्णः प्राद्युम्निर् यत्र तिष्ठति । तद्बन्धफणिनो नेशुर् गरुडानिलशोषिताः

॥४९॥

ततोऽनिरुद्धम् आरोप्य सपत्नीकं गरुत्मति । आजग्मुर् द्वारकां रामकार्ष्णिदामोदराः पुरीम्

॥५०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).