मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ९६

3
ब्रह्मपुराणम् · 96

अध्यायः ९६

ब्रह्मोवाच:

इन्द्रतीर्थम् इति ख्यातं ब्रह्महत्याविनाशनम् । स्मरणाद् अपि पापौघक्लेशसङ्घविनाशनम्

॥१॥

पुरा वृत्रवधे वृत्ते ब्रह्महत्या तु नारद । शचीपतिं चानुगता तां दृष्ट्वा भीतवद् धरिः

॥२॥

इन्द्रस् ततो वृत्रहन्ता इतश् चेतश् च धावति । यत्र यत्र त्व् असौ याति हत्या सापीन्द्रगामिनी

॥३॥

स महत् सर आविश्य पद्मनालम् उपागमत् । तत्रासौ तन्तुवद् भूत्वा वासं चक्रे शचीपतिः

॥४॥

सरस्तीरेऽपि हत्यासीद् दिव्यं वर्षसहस्रकम् । एतस्मिन्न् अन्तरे देवा निरिन्द्रा ह्य् अभवन् मुने

॥५॥

मन्त्रयाम् आसुर् अव्यग्राः कथम् इन्द्रो भवेद् इति । तत्राहम् अवदं देवान् हत्यास्थानं प्रकल्प्य च

॥६॥

इन्द्रस्य पावनार्थाय गौतम्याम् अभिषिच्यताम् । यत्राभिषिक्तः पूतात्मा पुनर् इन्द्रो भविष्यति

॥७॥

तथा ते निश्चयं कृत्वा गौतमीं शीघ्रम् आगमन् । तत्र स्नातं सुरपतिं देवाश् च ऋषयस् तथा

॥८॥

अभिषेक्तुकामास् ते सर्वे शचीकान्तं च तस्थिरे । अभिषिच्यमानम् इन्द्रं तं प्रकोपाद् गौतमोऽब्रवीत्

॥९॥

गौतम उवाच:

अभिषेक्ष्यन्ति पापिष्ठं महेन्द्रं गुरुतल्पगम् । तान् सर्वान् भस्मसात् कुर्यां शीघ्रं यान्त्व् असुरारयः

॥१०॥

ब्रह्मोवाच:

तद् ऋषेर् वचनं श्रुत्वा परिहृत्य च गौतमीम् । नर्मदाम् अगमन् सर्व इन्द्रम् आदाय सत्वराः

॥११॥

उत्तरे नर्मदातीरे अभिषेकाय तस्थिरे । अभिषेक्ष्यमाणम् इन्द्रं तं माण्डव्यो भगवान् ऋषिः

॥१२॥

अब्रवीद् भस्मसात् कुर्यां यदि स्याद् अभिषेचनम् । पूजयाम् आसुर् अमरा माण्डव्यं युक्तिभिः स्तवैः

॥१३॥

देवा ऊचुः:

अयम् इन्द्रः सहस्राक्षो यस्मिन् देशेऽभिषिच्यते । तत्रातिदारुणं विघ्नं मुने समुपजायते

॥१४॥

तच्छान्तिं कुरु कल्याण प्रसीद वरदो भव । मलनिर्यातनं यस्मिन् कुर्मस् तस्मिन् वरान् बहून्

॥१५॥

देशे दास्यामहे सर्वे तद् अनुज्ञातुम् अर्हसि । यस्मिन् देशे सुरेन्द्रस्य अभिषेको भविष्यति

॥१६॥

स सर्वकामदः पुंसां धान्यवृक्षफलैर् युतः । नानावृष्टिर् न दुर्भिक्षं भवेद् अत्र कदाचन

॥१७॥

ब्रह्मोवाच:

मेने ततो मुनिश्रेष्ठो माण्डव्यो लोकपूजितः । अभिषेकः कृतस् तत्र मलनिर्यातनं तथा

॥१८॥

देवैस् तदोक्तो मुनिभिः स देशो मालवस् ततः । अभिषिक्ते सुरपतौ जाते च विमले तदा

॥१९॥

आनीय गौतमीं गङ्गां तं पुण्यायाभिषेचिरे । सुराश् च ऋषयश् चैव अहं विष्णुस् तथैव च

॥२०॥

वसिष्ठो गौतमश् चापि अगस्त्योऽत्रिश् च कश्यपः । एते चान्ये च ऋषयो देवा यक्षाः सपन्नगाः

॥२१॥

स्नानं तत्पुण्यतोयेन अकुर्वन्न् अभिषेचनम् । मया पुनः शचीभर्ता कमण्डलुभवेन च

॥२२॥

वारिणाप्य् अभिषिक्तश् च तत्र पुण्याभवन् नदी । सिक्ता चेति च तत्रासीत् ते गङ्गायां च सङ्गते

॥२३॥

सङ्गमौ तत्र विख्यातौ सर्वदा मुनिसेवितौ । ततः प्रभृति तत् तीर्थं पुण्यासङ्गमम् उच्यते

॥२४॥

सिक्तायाः सङ्गमे पुण्यम् ऐन्द्रं तद् अभिधीयते । तत्र सप्त सहस्राणि तीर्थान्य् आसञ् शुभानि च

॥२५॥

तेषु स्नानं च दानं च विशेषेण तु सङ्गमे । सर्वं तद् अक्षयं विद्यान् नात्र कार्या विचारणा

॥२६॥

यद् एतत् पुण्यम् आख्यानं यः पठेच् च शृणोति वा । सर्वपापैः स मुच्येत मनोवाक्कायकर्मजैः

॥२७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).