मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २

3
ब्रह्मपुराणम् · 2

अध्यायः २

लोमहर्षण उवाच:

स सृष्ट्वा तु प्रजास् त्व् एवम् आपवो वै प्रजापतिः । लेभे वै पुरुषः पत्नीं शतरूपाम् अयोनिजाम्

॥१॥

आपवस्य महिम्ना तु दिवम् आवृत्य तिष्ठतः । धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत

॥२॥

सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् । भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत

॥३॥

स वै स्वायम्भुवो विप्राः पुरुषो मनुर् उच्यते । तस्यैकसप्ततियुगं मन्वन्तरम् इहोच्यते

॥४॥

वैराजात् पुरुषाद् वीरं शतरूपा व्यजायत । प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत

॥५॥

काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः । काम्यापुत्रास् तु चत्वारः सम्राट् कुक्षिर् विराट् प्रभुः

॥६॥

उत्तानपादं जग्राह पुत्रम् अत्रिः प्रजापतिः । उत्तानपादाच् चतुरः सूनृता सुषुवे सुतान्

॥७॥

धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता । उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा

॥८॥

ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा । उत्तानपादोऽजनयत् सूनृतायां प्रजापतिः

॥९॥

ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः । तपस् तेपे महाभागः प्रार्थयन् सुमहद् यशः

॥१०॥

तस्मै ब्रह्मा ददौ प्रीतः स्थानम् आत्मसमं प्रभुः । अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः

॥११॥

तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च । देवासुराणाम् आचार्यः श्लोकं प्राग् उशना जगौ

॥१२॥

अहोऽस्य तपसो वीर्यम् अहो श्रुतम् अहोऽद्भुतम् । यम् अद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः

॥१३॥

तस्माच् छ्लिष्टिं च भव्यं च ध्रुवाच् छम्भुर् व्यजायत । श्लिष्टेर् आधत्त सुच्छाया पञ्च पुत्रान् अकल्मषान्

॥१४॥

रिपुं रिपुञ्जयं वीरं वृकलं वृकतेजसम् । रिपोर् आधत्त बृहती चक्षुषं सर्वतेजसम्

॥१५॥

अजीजनत् पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् । प्रजापतेर् आत्मजायां वीरण्यस्य महात्मनः

॥१६॥

मनोर् अजायन्त दश नड्वलायां महौजसः । कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः

॥१७॥

कुत्सः पुरुः शतद्युम्नस् तपस्वी सत्यवाक् कविः । अग्निष्टुद् अतिरात्रश् च सुद्युम्नश् चेति ते नव

॥१८॥

अभिमन्युश् च दशमो नड्वलायां महौजसः । पुरोर् अजनयत् पुत्रान् षड् आग्नेयी महाप्रभान्

॥१९॥

अङ्गं सुमनसं स्वातिं क्रतुम् अङ्गिरसं मयम् । अङ्गात् सुनीथापत्यं वै वेणम् एकं व्यजायत

॥२०॥

अपचारेण वेणस्य प्रकोपः सुमहान् अभूत् । प्रजार्थम् ऋषयो यस्य ममन्थुर् दक्षिणं करम्

॥२१॥

वेणस्य मथिते पाणौ सम्बभूव महान् नृपः । तं दृष्ट्वा मुनयः प्राहुर् एष वै मुदिताः प्रजाः

॥२२॥

करिष्यति महातेजा यशश् च प्राप्स्यते महत् । स धन्वी कवची जातो ज्वलज्ज्वलनसन्निभः

॥२३॥

पृथुर् वैण्यस् तथा चेमां ररक्ष क्षत्रपूर्वजः । राजसूयाभिषिक्तानाम् आद्यः स वसुधापतिः

॥२४॥

तस्माच् चैव समुत्पन्नौ निपुणौ सूतमागधौ । तेनेयं गौर् मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता

॥२५॥

प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह । पितृभिर् दानवैश् चैव गन्धर्वैर् अप्सरोगणैः

॥२६॥

सर्पैः पुण्यजनैश् चैव वीरुद्भिः पर्वतैस् तथा । तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा

॥२७॥

प्रादाद् यथेप्सितं क्षीरं तेन प्राणान् अधारयन् । पृथोस् तु पुत्रौ धर्मज्ञौ यज्ञान्तेऽन्तर्धिपातिनौ

॥२८॥

शिखण्डिनी हविर्धानम् अन्तर्धानाद् व्यजायत । हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान्

॥२९॥

प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ । प्राचीनबर्हिर् भगवान् महान् आसीत् प्रजापतिः

॥३०॥

हविर्धानान् मुनिश्रेष्ठा येन संवर्धिताः प्रजाः । प्राचीनबर्हिर् भगवान् पृथिवीतलचारिणीः

॥३१॥

समुद्रतनयायां तु कृतदारोऽभवत् प्रभुः । महतस् तपसः पारे सवर्णायां प्रजापतिः

॥३२॥

सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । सर्वान् प्रचेतसो नाम धनुर्वेदस्य पारगान्

॥३३॥

अपृथग्धर्मचरणास् तेऽतप्यन्त महत् तपः । दश वर्षसहस्राणि समुद्रसलिलेशयाः

॥३४॥

तपश् चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । अरक्षमाणाम् आवव्रुर् बभूवाथ प्रजाक्षयः

॥३५॥

नाशकन् मारुतो वातुं वृतं खम् अभवद् द्रुमैः । दश वर्षसहस्राणि न शेकुश् चेष्टितुं प्रजाः

॥३६॥

तद् उपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः । मुखेभ्यो वायुम् अग्निं च ससृजुर् जातमन्यवः

॥३७॥

उन्मूलान् अथ वृक्षांस् तु कृत्वा वायुर् अशोषयत् । तान् अग्निर् अदहद् घोर एवम् आसीद् द्रुमक्षयः

॥३८॥

द्रुमक्षयम् अथो बुद्ध्वा किञ्चिच् छिष्टेषु शाखिषु । उपगम्याब्रवीद् एतांस् तदा सोमः प्रजापतीन्

॥३९॥

कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः । वृक्षशून्या कृता पृथ्वी शाम्येताम् अग्निमारुतौ

॥४०॥

रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी । भविष्यं जानता तात धृता गर्भेण वै मया

॥४१॥

मारिषा नाम नाम्नैषा वृक्षाणाम् इति निर्मिता । भार्या वोऽस्तु महाभागाः सोमवंशविवर्धिनी

॥४२॥

युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः । अस्याम् उत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः

॥४३॥

स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै । अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति

॥४४॥

ततः सोमस्य वचनाज् जगृहुस् ते प्रचेतसः । संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम्

॥४५॥

दशभ्यस् तु प्रचेतोभ्यो मारिषायां प्रजापतिः । दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः

॥४६॥

अचरांश् च चरांश् चैव द्विपदोऽथ चतुष्पदः । स सृष्ट्वा मनसा दक्षः पश्चाद् असृजत स्त्रियः

॥४७॥

ददौ दश स धर्माय कश्यपाय त्रयोदश । शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः

॥४८॥

तासु देवाः खगा गावो नागा दितिजदानवाः । गन्धर्वाप्सरसश् चैव जज्ञिरेऽन्याश् च जातयः

॥४९॥

ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसम्भवाः । सङ्कल्पाद् दर्शनात् स्पर्शात् पूर्वेषां प्रोच्यते प्रजा

॥५०॥

मुनय ऊचुः:

देवानां दानवानां च गन्धर्वोरगरक्षसाम् । सम्भवस् तु श्रुतोऽस्माभिर् दक्षस्य च महात्मनः

॥५१॥

अङ्गुष्ठाद् ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः । वामाङ्गुष्ठात् तथा चैवं तस्य पत्नी व्यजायत

॥५२॥

कथं प्राचेतसत्वं स पुनर् लेभे महातपाः । एतं नः संशयं सूत व्याख्यातुं त्वम् इहार्हसि । दौहित्रश् चैव सोमस्य कथं श्वशुरतां गतः

॥५३॥

लोमहर्षण उवाच:

उत्पत्तिश् च निरोधश् च नित्यं भूतेषु भो द्विजाः । ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश् च ये जनाः

॥५४॥

युगे युगे भवन्त्य् एते पुनर् दक्षादयो नृपाः । पुनश् चैव निरुध्यन्ते विद्वांस् तत्र न मुह्यति

॥५५॥

ज्यैष्ठ्यं कानिष्ठम् अप्य् एषां पूर्वं नासीद् द्विजोत्तमाः । तप एव गरीयोऽभूत् प्रभावश् चैव कारणम्

॥५६॥

इमां विसृष्टिं दक्षस्य यो विद्यात् सचराचराम् । प्रजावान् आयुर् उत्तीर्णः स्वर्गलोके महीयते

॥५७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).