अध्यायः २२८
व्यास उवाच:
एकादश्याम् उभे पक्षे निराहारः समाहितः । स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः
॥१॥सम्पूज्य विधिवद् विष्णुं श्रद्धया सुसमाहितः । पुष्पैर् गन्धैस् तथा दीपैर् धूपैर् नैवेद्यकैस् तथा
॥२॥उपहारैर् बहुविधैर् जप्यैर् होमप्रदक्षिणैः । स्तोत्रैर् नानाविधैर् दिव्यैर् गीतवाद्यैर् मनोहरैः
॥३॥दण्डवत्प्रणिपातैश् च जयशब्दैस् तथोत्तमैः । एवं सम्पूज्य विधिवद् रात्रौ कृत्वा प्रजागरम्
॥४॥कथां वा गीतिकां विष्णोर् गायन् विष्णुपरायणः । याति विष्णोः परं स्थानं नरो नास्त्य् अत्र संशयः
॥५॥मुनय ऊचुः:
प्रजागरे गीतिकायाः फलं विष्णोर् महामुने । ब्रूहि तच् छ्रोतुम् इच्छामः परं कौतूहलं हि नः
॥६॥व्यास उवाच:
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्य् अनुपूर्वशः । गीतिकायाः फलं विष्णोर् जागरे यद् उदाहृतम्
॥७॥अवन्ती नाम नगरी बभूव भुवि विश्रुता । तत्रास्ते भगवान् विष्णुः शङ्खचक्रगदाधरः
॥८॥तस्या नगर्याः पर्यन्ते चाण्डालो गीतिकोविदः । सद्वृत्त्योत्पादितधनो भृत्यानां भरणे रतः
॥९॥विष्णुभक्तः स चाण्डालो मासि मासि दृढव्रतः । एकादश्यां समागम्य सोपवासोऽथ गायति
॥१०॥गीतिका विष्णुनामाङ्काः प्रादुर्भावसमाश्रिताः । गान्धारषड्जनैषादस्वरपञ्चमधैवतैः
॥११॥रात्रिजागरणे विष्णुं गाथाभिर् उपगायति । प्रभाते च प्रणम्येशं द्वादश्यां गृहम् एत्य च
॥१२॥जामातृभागिनेयांश् च भोजयित्वा सकन्यकाः । ततः सपरिवारस् तु पश्चाद् भुङ्क्ते द्विजोत्तमाः
॥१३॥एवं तस्यासतस् तत्र कुर्वतो विष्णुप्रीणनम् । गीतिकाभिर् विचित्राभिर् वयः प्रतिगतं बहु
॥१४॥एकदा चैत्रमासे तु कृष्णैकादशिगोचरे । विष्णुशुश्रूषणार्थाय ययौ वनम् अनुत्तमम्
॥१५॥वनजातानि पुष्पाणि ग्रहीतुं भक्तितत्परः । क्षिप्रातटे महारण्ये विभीतकतरोर् अधः
॥१६॥दृष्टः स राक्षसेनाथ गृहीतश् चापि भक्षितुम् । चाण्डालस् तम् अथोवाच नाद्य भक्ष्यस् त्वया ह्य् अहम्
॥१७॥प्रातर् भोक्ष्यसि कल्याण सत्यम् एष्याम्य् अहं पुनः । अद्य कार्यं मम महत् तस्मान् मुञ्चस्व राक्षस
॥१८॥श्वः सत्येन समेष्यामि ततः खादसि माम् इति । विष्णुशुश्रूषणार्थाय रात्रिजागरणं मया । कार्यं न व्रतविघ्नं मे कर्तुम् अर्हसि राक्षस
॥१९॥व्यास उवाच:
तं राक्षसः प्रत्युवाच दशरात्रम् अभोजनम् । ममाभूद् अद्य च भवान् मया लब्धो मतङ्गज
॥२०॥न मोक्ष्ये भक्षयिष्यामि क्षुधया पीडितो भृशम् । निशाचरवचः श्रुत्वा मातङ्गस् तम् उवाच ह । सान्त्वयञ् श्लक्ष्णया वाचा स सत्यवचनैर् दृढैः
॥२१॥मातङ्ग उवाच:
सत्यमूलं जगत् सर्वं ब्रह्मराक्षस तच् छृणु । सत्येनाहं शपिष्यामि पुनरागमनाय च
॥२२॥आदित्यश् चन्द्रमा वह्निर् वायुर् भूर् द्यौर् जलं मनः । अहोरात्रं यमः सन्ध्ये द्वे विदुर् नरचेष्टितम्
॥२३॥परदारेषु यत् पापं यत् परद्रव्यहारिषु । यच् च ब्रह्महनः पापं सुरापे गुरुतल्पगे
॥२४॥वन्ध्यापतेश् च यत् पापं यत् पापं वृषलीपतेः । यच् च देवलके पापं मत्स्यमांसाशिनश् च यत्
॥२५॥क्रोडमांसाशिनो यच् च कूर्ममांसाशिनश् च यत् । वृथा मांसाशिनो यच् च पृष्ठमांसाशिनश् च यत्
॥२६॥कृतघ्ने मित्रघातके यत् पापं दिधिषूपतौ । सूतकस्य च यत् पापं यत् पापं क्रूरकर्मणः
॥२७॥कृपणस्य च यत् पापं यच् च वन्ध्यातिथेर् अपि । अमावास्याष्टमी षष्ठी कृष्णशुक्लचतुर्दशी
॥२८॥तासु यद् गमनात् पापं यद् विप्रो व्रजति स्त्रियम् । रजस्वलां तथा पश्चाच् छ्राद्धं कृत्वा स्त्रियं व्रजेत्
॥२९॥सर्वस्वस्नातभोज्यानां यत् पापं मलभोजने । मित्रभार्यां गच्छतां च यत् पापं पिशुनस्य च
॥३०॥दम्भमायानुरक्ते च यत् पापं मधुघातिनः । ब्राह्मणस्य प्रतिश्रुत्य यत् पापं तदयच्छतः
॥३१॥यच् च कन्यानृते पापं यच् च गोश्वतरानृते । स्त्रीबालहन्तुर् यत् पापं यच् च मिथ्याभिभाषिणः
॥३२॥देववेदद्विजनृपपुत्रमित्रसतीस्त्रियः । यच् च निन्दयतां पापं गुरुमिथ्यापचारतः
॥३३॥अग्नित्यागिषु यत् पापम् अग्निदायिषु यद् वने । गृहेष्ट्या पातके यच् च यद् गोघ्ने यद् द्विजाधमे
॥३४॥यत् पापं परिवित्ते च यत् पापं परिवेदिनः । तयोर् दातृग्रहीत्रोश् च यत् पापं भ्रूणघातिनः
॥३५॥किं चात्र बहुभिः प्रोक्तैः शपथैस् तव राक्षस । श्रूयतां शपथं भीमं दुर्वाच्यम् अपि कथ्यते
॥३६॥स्वकन्याजीविनः पापं गूढसत्येन साक्षिणः । अयाज्ययाजके षण्ढे यत् पापं श्रवणेऽधमे
॥३७॥प्रव्रज्यावसिते यच् च ब्रह्मचारिणि कामुके । एतैस् तु पापैर् लिप्येऽहं यदि नैष्यामि तेऽन्तिकम्
॥३८॥व्यास उवाच:
मातङ्गवचनं श्रुत्वा विस्मितो ब्रह्मराक्षसः । प्राह गच्छस्व सत्येन समयं चैव पालय
॥३९॥इत्य् उक्तः कुणपाशेन श्वपाकः कुसुमानि तु । समादायागमच् चैव विष्णोः स निलयं गतः
॥४०॥तानि प्रादाद् ब्राह्मणाय सोऽपि प्रक्षाल्य चाम्भसा । विष्णुम् अभ्यर्च्य निलयं जगाम स तपोधनाः
॥४१॥सोऽपि मातङ्गदायादः सोपवासस् तु तां निशाम् । गायन् हि बाह्यभूमिष्ठः प्रजागरम् उपाकरोत्
॥४२॥प्रभातायां तु शर्वर्यां स्नात्वा देवं नमस्य च । सत्यं स समयं कर्तुं प्रतस्थे यत्र राक्षसः
॥४३॥तं व्रजन्तं पथि नरः प्राह भद्र क्व गच्छसि । स तथाकथयत् सर्वं सोऽप्य् एनं पुनर् अब्रवीत्
॥४४॥धर्मार्थकाममोक्षाणां शरीरं साधनं यतः । महता तु प्रयत्नेन शरीरं पालयेद् बुधः
॥४५॥जीवधर्मार्थसुखं । नरस् तथाप्नोति मोक्षगतिम् अग्र्याम् । जीवन् कीर्तिम् उपैति च । भवति मृतस्य का कथा लोके
॥४६॥मातङ्गस् तद् वचः श्रुत्वा प्रत्युवाचाथ हेतुमत्
॥४७॥मातङ्ग उवाच:
भद्र सत्यं पुरस्कृत्य गच्छामि शपथाः कृताः
॥४८॥व्यास उवाच:
तं भूयः प्रत्युवाचाथ किम् एवं मूढधीर् भवान् । किं न श्रुतं त्वया साधो मनुना यद् उदीरितम्
॥४९॥गोस्त्रीद्विजानां परिरक्षणार्थं । विवाहकाले सुरतप्रसङ्गे । प्राणात्यये सर्वधनापहारे । पञ्चानृतान्य् आहुर् अपातकानि
॥५०॥धर्मवाक्यं न च स्त्रीषु न विवाहे तथा रिपौ । वञ्चने चार्थहानौ च स्वनाशेऽनृतके तथा । एवं तद् वाक्यम् आकर्ण्य मातङ्गः प्रत्युवाच ह
॥५१॥मातङ्ग उवाच:
मैवं वदस्व भद्रं ते सत्यं लोकेषु पूज्यते । सत्येनावाप्यते सौख्यं यत् किञ्चिज् जगतीगतम्
॥५२॥सत्येनार्कः प्रतपति सत्येनापो रसात्मिकाः । ज्वलत्य् अग्निश् च सत्येन वाति सत्येन मारुतः
॥५३॥धर्मार्थकामसम्प्राप्तिर् मोक्षप्राप्तिश् च दुर्लभा । सत्येन जायते पुंसां तस्मात् सत्यं न सन्त्यजेत्
॥५४॥सत्यं ब्रह्म परं लोके सत्यं यज्ञेषु चोत्तमम् । सत्यं स्वर्गसमायातं तस्मात् सत्यं न सन्त्यजेत्
॥५५॥व्यास उवाच:
इत्य् उक्त्वा सोऽथ मातङ्गस् तं प्रक्षिप्य नरोत्तमम् । जगाम तत्र यत्रास्ते प्राणिहा ब्रह्मराक्षसः
॥५६॥तम् आगतं समीक्ष्यासौ चाण्डालं ब्रह्मराक्षसः । विस्मयोत्फुल्लनयनः शिरःकम्पं तम् अब्रवीत्
॥५७॥ब्रह्मराक्षस उवाच:
साधु साधु महाभाग सत्यवाक्यानुपालक । न मातङ्गम् अहं मन्ये भवन्तं सत्यलक्षणम्
॥५८॥कर्मणानेन मन्ये त्वां ब्राह्मणं शुचिम् अव्ययम् । यत् किञ्चित् त्वां भद्रमुखं प्रवक्ष्ये धर्मसंश्रयम् । किं तत्र भवता रात्रौ कृतं विष्णुगृहे वद
॥५९॥व्यास उवाच:
तम् अभ्युवाच मातङ्गः शृणु विष्णुगृहे मया । यत् कृतं रजनीभागे यथातथ्यं वदामि ते
॥६०॥विष्णोर् देवकुलस्याधः स्थितेनानम्रमूर्तिना । प्रजागरः कृतो रात्रौ गायता विष्णुगीतिकाम्
॥६१॥तं ब्रह्मराक्षसः प्राह कियन्तं कालम् उच्यताम् । प्रजागरो विष्णुगृहे कृतं भक्तिमता वद
॥६२॥तम् अभ्युवाच प्रहसन् विंशत्य् अब्दानि राक्षस । एकादश्यां मासि मासि कृतस् तत्र प्रजागरः । मातङ्गवचनं श्रुत्वा प्रोवाच ब्रह्मराक्षसः
॥६३॥ब्रह्मराक्षस उवाच:
यद् अद्य त्वां प्रवक्ष्यामि तद् भवान् वक्तुम् अर्हति । एकरात्रिकृतं साधो मम देहि प्रजागरम्
॥६४॥एवं त्वां मोक्षयिष्यामि मोक्षयिष्यामि नान्यथा । त्रिः सत्येन महाभाग इत्य् उक्त्वा विरराम ह
॥६५॥व्यास उवाच:
मातङ्गस् तम् उवाचाथ मयात्मा ते निशाचर । निवेदितः किम् उक्तेन खादस्व स्वेच्छयापि माम्
॥६६॥तम् आह राक्षसो भूयो यामद्वयप्रजागरम् । सगीतं मे प्रयच्छस्व कृपां कर्तुं त्वम् अर्हसि
॥६७॥मातङ्गो राक्षसं प्राह किम् असम्बद्धम् उच्यते । खादस्व स्वेच्छया मां त्वं न प्रदास्ये प्रजागरम् । मातङ्गवचनं श्रुत्वा प्राह तं ब्रह्मराक्षसः
॥६८॥ब्रह्मराक्षस उवाच:
को हि दुष्टमतिर् मन्दो भवन्तं द्रष्टुम् उत्सहेत् । धर्षयितुं पीडयितुं रक्षितं धर्मकर्मणा
॥६९॥दीनस्य पापग्रस्तस्य विषयैर् मोहितस्य च । नरकार्तस्य मूढस्य साधवः स्युर् दयान्विताः
॥७०॥तन् मम त्वं महाभाग कृपां कृत्वा प्रजागरम् । यामस्यैकस्य मे देहि गच्छ वा निलयं स्वकम्
॥७१॥व्यास उवाच:
तं पुनः प्राह चाण्डालो न यास्यामि निजं गृहम् । न चापि तव दास्यामि कथञ्चिद् यामजागरम् । तं प्रहस्याथ चाण्डालं प्रोवाच ब्रह्मराक्षसः
॥७२॥ब्रह्मराक्षस उवाच:
रात्र्यवसाने या गीता गीतिका कौतुकाश्रया । तस्याः फलं प्रयच्छस्व त्राहि पापात् समुद्धर
॥७३॥व्यास उवाच:
एवम् उच्चारिते तेन मातङ्गस् तम् उवाच ह
॥७४॥मातङ्ग उवाच:
किं पूर्वं भवता कर्म विकृतं कृतम् अञ्जसा । येन त्वं दोषजातेन सम्भूतो ब्रह्मराक्षसः
॥७५॥व्यास उवाच:
तस्य तद् वाक्यम् आकर्ण्य मातङ्गं ब्रह्मराक्षसः । प्रोवाच दुःखसन्तप्तः संस्मृत्य स्वकृतं कृतम्
॥७६॥ब्रह्मराक्षस उवाच:
श्रूयतां योऽहम् आसं वै पूर्वं यच् च मया कृतम् । यस्मिन् कृते पापयोनिं गतवान् अस्मि राक्षसीम्
॥७७॥सोमशर्म इति ख्यातः पूर्वम् आसम् अहं द्विजः । पुत्रोऽध्ययनशीलस्य देवशर्मस्य यज्वनः
॥७८॥कस्यचिद् यजमानस्य सूत्रमन्त्रबहिष्कृतः । नृपस्य कर्मसक्तेन यूपकर्मसुनिष्ठितः
॥७९॥आग्नीध्रं चाकरोद् यज्ञे लोभमोहप्रपीडितः । तस्मिन् परिसमाप्ते तु मौर्ख्याद् दम्भम् अनुष्ठितः
॥८०॥यष्टुम् आरब्धवान् अस्मि द्वादशाहं महाक्रतुम् । प्रवर्तमाने तस्मिंस् तु कुक्षिशूलोऽभवन् मम
॥८१॥सम्पूर्णे दशरात्रे तु न समाप्ते तथा क्रतौ । विरूपाक्षस्य दीयन्त्याम् आहुत्यां राक्षसे क्षणे
॥८२॥मृतोऽहं तेन दोषेण सम्भूतो ब्रह्मराक्षसः । मूर्खेण मन्त्रहीनेन सूत्रस्वरविवर्जितम्
॥८३॥अजानता यज्ञविद्यां यद् इष्टं याजितं च यत् । तेन कर्मविपाकेन सम्भूतो ब्रह्मराक्षसः
॥८४॥तन् मां पापमहाम्भोधौ निमग्नं त्वं समुद्धर । प्रजागरे गीतिकैकां पश्चिमां दातुम् अर्हसि
॥८५॥व्यास उवाच:
तम् उवाचाथ चाण्डालो यदि प्राणिवधाद् भवान् । निवृत्तिं कुरुते दद्यां ततः पश्चिमगीतिकाम्
॥८६॥बाढम् इत्य् अवदत् सोऽपि मातङ्गोऽपि ददौ तदा । गीतिकाफलम् आमन्त्र्य मुहूर्तार्धप्रजागरम्
॥८७॥तस्मिन् गीतिफले दत्ते मातङ्गं ब्रह्मराक्षसः । प्रणम्य प्रययौ हृष्टस् तीर्थवर्यं पृथूदकम्
॥८८॥तत्रानशनसङ्कल्पं कृत्वा प्राणाञ् जहौ द्विजाः । राक्षसत्वाद् विनिर्मुक्तो गीतिकाफलबृंहितः
॥८९॥पृथूदकप्रभावाच् च ब्रह्मलोकं च दुर्लभम् । दश वर्षसहस्राणि निरातङ्कोऽवसत् ततः
॥९०॥तस्यान्ते ब्राह्मणो जातो बभूव स्मृतिमान् वशी । तस्याहं चरितं भूयः कथयिष्यामि भो द्विजाः
॥९१॥मातङ्गस्य कथाशेषं शृणुध्वं गदतो मम । राक्षसे तु गते धीमान् गृहम् एत्य यतात्मवान्
॥९२॥तद्विप्रचरितं स्मृत्वा निर्विण्णः शुचिर् अप्य् असौ । पुत्रेषु भार्यां निक्षिप्य ददौ भूम्याः प्रदक्षिणाम्
॥९३॥कोकामुखात् समारभ्य यावद् वै स्कन्ददर्शनम् । दृष्ट्वा स्कन्दं ययौ धाराचक्रे चापि प्रदक्षिणम्
॥९४॥ततोऽद्रिवरम् आगम्य विन्ध्यम् उच्चशिलोच्चयम् । पापप्रमोचनं तीर्थम् आससाद स तु द्विजाः
॥९५॥स्नानं पापहरं चक्रे स तु चाण्डालवंशजः । विमुक्तपापः सस्मार पूर्वजातीर् अनेकशः
॥९६॥स पूर्वजन्मन्य् अभवद् भिक्षुः संयतवाङ्मनाः । यतकायश् च मतिमान् वेदवेदाङ्गपारगः
॥९७॥एकदा गोषु नगराद् ध्रियमाणासु तस्करैः । भिक्षावधूता रजसा मुक्ता तेनाथ भिक्षुणा
॥९८॥स तेनाधर्मदोषेण चाण्डालीं योनिम् आगतः । पापप्रमोचने स्नातः स मृतो नर्मदातटे
॥९९॥मूर्खोऽभूद् ब्राह्मणवरो वाराणस्यां च भो द्विजाः । तत्रास्य वसतोऽब्दैस् तु त्रिंशद्भिः सिद्धपूरुषः
॥१००॥विरूपरूपी बभ्राम योगमालाबलान्वितः । तं दृष्ट्वा सोपहासार्थम् अभिवाद्याभ्युवाच ह
॥१०१॥कुशलं सिद्धपुरुषं कुतस् त्व् आगम्यते त्वया
॥१०२॥व्यास उवाच:
एवं सम्भाषितस् तेन ज्ञातोऽहम् इति चिन्त्य तु । प्रत्युवाचाथ वन्द्यस् तं स्वर्गलोकाद् उपागतः
॥१०३॥तं सिद्धं प्राह मूर्खोऽसौ किं त्वं वेत्सि त्रिविष्टपे । नारायणोरुप्रभवाम् उर्वशीम् अप्सरोवराम्
॥१०४॥सिद्धस् तम् आह तां वेद्मि शक्रचामरधारिणीम् । स्वर्गस्याभरणं मुख्यम् उर्वशीं साधुसम्भवाम्
॥१०५॥विप्रः सिद्धम् उवाचाथ ऋजुमार्गविवर्जितः । तन् मित्र मत्कृते वार्त्ताम् उर्वश्या भवतादरात्
॥१०६॥कथनीया यच् च सा ते ब्रूयाद् आख्यास्यते भवान् । बाढम् इत्य् अब्रवीत् सिद्धः सोऽपि विप्रो मुदान्वितः
॥१०७॥बभूव सिद्धोऽपि ययौ मेरुपृष्ठं सुरालयम् । समेत्य चोर्वशीं प्राह यद् उक्तोऽसौ द्विजेन तु
॥१०८॥सा प्राह तं सिद्धवरं नाहं काशिपतिं द्विजम् । जानामि सत्यम् उक्तं ते न चेतसि मम स्थितम्
॥१०९॥इत्य् उक्तः प्रययौ सोऽपि कालेन बहुना पुनः । वाराणसीं ययौ सिद्धो दृष्टो मूर्खेण वै पुनः
॥११०॥दृष्टः पृष्टः किल भूयः किम् आहोरुभवा तव । सिद्धोऽब्रवीन् न जानामि माम् उवाचोर्वशी स्वयम्
॥१११॥सिद्धवाक्यं ततः श्रुत्वा स्मितभिन्नौष्ठसम्पुटः । पुनः प्राह कथं वेत्सीत्य् एवं वाच्या त्वयोर्वशी
॥११२॥बाढम् एवं करिष्यामीत्य् उक्त्वा सिद्धो दिवं गतः । ददर्श शक्रभवनान् निष्क्रामन्तीम् अथोर्वशीम्
॥११३॥प्रोवाच तां सिद्धवरः सा च तं सिद्धम् अब्रवीत् । नियमं कञ्चिद् अपि हि करोतु द्विजसत्तमः
॥११४॥येनाहं कर्मणा सिद्ध तं जानामि न चान्यथा । तद् उर्वशीवचोऽभ्येत्य तस्मै मूर्खद्विजाय तु
॥११५॥कथयाम् आस सिद्धस् तु सोऽपीमं नियमं जगौ । तवाग्रे सिद्धपुरुष नियमोऽयं कृतो मया
॥११६॥न भोक्ष्येऽद्यप्रभृति वै शकटं सत्यम् ईरितम् । इत्य् उक्तः प्रययौ सिद्धः स्वर्गे दृष्ट्वोर्वशीम् अथ
॥११७॥प्राहासौ शकटं भोक्ष्ये नाद्यप्रभृति कर्हिचित् । तं सिद्धम् उर्वशी प्राह ज्ञातोऽसौ साम्प्रतं मया
॥११८॥नियमग्रहणाद् एव मूर्खो माम् उपहासकः । इत्य् उक्त्वा प्रययौ शीघ्रं वासं नारायणात्मजा
॥११९॥सिद्धोऽपि विचचारासौ कामचारी महीतलम् । उर्वश्य् अपि वरारोहा गत्वा वाराणसीं पुरीम्
॥१२०॥मत्स्योदरीजले स्नानं चक्रे दिव्यवपुर्धरा । अथासाव् अपि मूर्खस् तु नदीं मत्स्योदरीं मुने
॥१२१॥जगामाथ ददर्शासौ स्नायमानाम् अथोर्वशीम् । तां दृष्ट्वा ववृधेऽथास्य मन्मथः क्षोभकृद् दृढम्
॥१२२॥चकार मूर्खश् चेष्टाश् च तं विवेदोर्वशी स्वयम् । तं मूर्खं सिद्धगदितं ज्ञात्वा सस्मितम् आह तम्
॥१२३॥उर्वश्य् उवाच:
किम् इच्छसि महाभाग मत्तः शीघ्रम् इहोच्यताम् । करिष्यामि वचस् तुभ्यं त्वं विश्रब्धं करिष्यसि
॥१२४॥मूर्खब्राह्मण उवाच:
आत्मप्रदानेन मम प्राणान् रक्ष शुचिस्मिते
॥१२५॥व्यास उवाच:
तं प्राहाथोर्वशी विप्रं नियमस्थास्मि साम्प्रतम् । त्वं तिष्ठस्व क्षणम् अथ प्रतीक्षस्वागतं मम
॥१२६॥स्थितोऽस्मीत्य् अब्रवीद् विप्रः सापि स्वर्गं जगाम ह । मासमात्रेण सायाता ददर्श तं कृशं द्विजम्
॥१२७॥स्थितं मासं नदीतीरे निराहारं सुराङ्गना । तं दृष्ट्वा निश्चययुतं भूत्वा वृद्धवपुस् ततः
॥१२८॥सा चकार नदीतीरे शकटं शर्करावृतम् । घृतेन मधुना चैव नदीं मत्स्योदरीं गता
॥१२९॥स्नात्वाथ भूमौ वसन्ती शकटं च यथार्थतः । तं ब्राह्मणं समाहूय वाक्यम् आह सुलोचना
॥१३०॥उर्वश्य् उवाच:
मया तीव्रं व्रतं विप्र चीर्णं सौभाग्यकारणात् । व्रतान्ते निष्कृतिं दद्यां प्रतिगृह्णीष्व भो द्विज
॥१३१॥व्यास उवाच:
स प्राह किम् इदं लोके दीयते शर्करावृतम् । क्षुत्क्षामकण्ठः पृच्छामि साधु भद्रे समीरय
॥१३२॥सा प्राह शकटो विप्र शर्करापिष्टसंयुतः । इमं त्वं समुपादाय प्राणं तर्पय मा चिरम्
॥१३३॥स तच् छ्रुत्वाथ संस्मृत्य क्षुधया पीडितोऽपि सन् । प्राह भद्रे न गृह्णामि नियमो हि कृतो मया
॥१३४॥पुरतः सिद्धवर्गस्य न भोक्ष्ये शकटं त्व् इति । परिज्ञानार्थम् उर्वश्या ददस्वान्यस्य कस्यचित्
॥१३५॥साब्रवीन् नियमो भद्र कृतः काष्ठमये त्वया । नासौ काष्ठमयो भुङ्क्ष्व क्षुधया चातिपीडितः
॥१३६॥तां ब्राह्मणः प्रत्युवाच न मया तद् विशेषणम् । कृतं भद्रेऽथ नियमः सामान्येनैव मे कृतः
॥१३७॥तं भूयः प्राह सा तन्वी न चेद् भोक्ष्यसि ब्राह्मण । गृहं गृहीत्वा गच्छस्व कुटुम्बं तव भोक्ष्यति
॥१३८॥स ताम् उवाच सुदति न तावद् यामि मन्दिरम् । इहायाता वरारोहा त्रैलोक्येऽप्य् अधिका गुणैः
॥१३९॥सा मया मदनार्तेन प्रार्थिताश्वासितस् तया । स्थीयतां क्षणम् इत्य् एवं स्थास्यामीति मयोदितम्
॥१४०॥मासमात्रं गतायास् तु तस्या भद्रे स्थितस्य च । मम सत्यानुरक्तस्य सङ्गमाय धृतव्रते
॥१४१॥तस्य सा वचनं श्रुत्वा कृत्वा स्वं रूपम् उत्तमम् । विहस्य भावगम्भीरम् उर्वशी प्राह तं द्विजम्
॥१४२॥उर्वश्य् उवाच:
साधु सत्यं त्वया विप्र व्रतं निष्ठितचेतसा । निष्पादितं हठाद् एव मम दर्शनम् इच्छता
॥१४३॥अहम् एवोर्वशी विप्र त्वां जिज्ञासार्थम् आगता । परीक्षितो निश्चितवान् भवान् सत्यतपा ऋषिः
॥१४४॥गच्छ शूकरवोद्देशं रूपतीर्थेति विश्रुतम् । सिद्धिं यास्यसि विप्रेन्द्र ततस् त्वं माम् अवाप्स्यसि
॥१४५॥व्यास उवाच:
इत्य् उक्त्वा दिवम् उत्पत्य सा जगामोर्वशी द्विजाः । स च सत्यतपा विप्रो रूपतीर्थं जगाम ह
॥१४६॥तत्र शान्तिपरो भूत्वा नियमव्रतधृक् शुचिः । देहोत्सर्गे जगामासौ गान्धर्वं लोकम् उत्तमम्
॥१४७॥तत्र मन्वन्तरशतं भोगान् भुक्त्वा यथार्थतः । बभूव सुकुले राजा प्रजारञ्जनतत्परः
॥१४८॥स यज्वा विविधैर् यज्ञैः समाप्तवरदक्षिणैः । पुत्रेषु राज्यं निक्षिप्य ययौ शौकरवं पुनः
॥१४९॥रूपतीर्थे मृतो भूयः शक्रलोकम् उपागतः । तत्र मन्वन्तरशतं भोगान् भुक्त्वा ततश् च्युतः
॥१५०॥प्रतिष्ठाने पुरवरे बुधपुत्रः पुरूरवाः । बभूव तत्र चोर्वश्याः सङ्गमाय तपोधनाः
॥१५१॥एवं पुरा सत्यतपा द्विजातिस् । तीर्थे प्रसिद्धे स हि रूपसञ्ज्ञे । आराध्य जन्मन्य् अथ चार्च्य विष्णुम् । अवाप्य भोगान् अथ मुक्तिम् एति
॥१५२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).